Java/C2/Numerical-Datatypes/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:01 | जावा मध्ये साङ्ख्यिकदत्तांशप्रकाराणां (न्युमरिक् डाटाटैप्) विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वगतम्। |
00:07 | अस्मिन् पाठे वयम्, |
00:10 | जावा मध्ये उपलभ्यमानान् विविधान् साङ्ख्यिकदत्तांशप्रकारान् अपि च, |
00:13 | तान् साङ्ख्यिकदत्तांशं सङ्ग्रहीतुं कथम् उपयोक्तव्यम् इति च ज्ञास्यामः। |
00:18 | पाठेऽस्मिन् वयं, Ubuntu 11.10, JDK 1.6 अपि च Eclipse 3.7 इत्येतेषाम् उपयोगं कुर्मः। |
00:27 | पाठमिमम् अनुसर्तुं भवन्तः एक्लिप्स् मध्ये प्रोग्राम् कथं विलिख्य चालनीयमिति जानीयुः। |
00:34 | यदि नास्ति, एतत्सम्बद्धपाठं दृष्टुम् अधो निर्दिष्टम् अस्माकं जालपुटं गच्छन्तु। |
00:42 | इंटिजर् इत्यस्य सङ्ग्रहणाय विद्यमानः दत्तांशप्रकारः int इति उच्यते। |
00:47 | दशमांशं (डेसिमल्) सङ्ग्रहीतुं विद्यमानः दत्तांशप्रकारः float इति उच्यते। |
00:52 | प्रथमम् अहम् इंटिजर् विषये विवृणोमि तस्योपयोगं च करोमि। |
01:02 | अत्र Eclipse IDE अस्ति अपि च अवशिष्ट-अदेशानां कृते अपेक्षिताः अंशाः सन्ति। |
01:10 | वयं NumericalData एति किञ्चन क्लास् रचितवन्तः अपि च अस्मै मैन् मेथेड् योजितवन्तः। |
01:15 | अधुना सङ्ख्यासङ्ग्रहणं कथमिति पश्यामः। |
01:20 | int distance equal to (=) 28 |
01:27 | एषः निर्देशः (स्टेट्मेंट्) इंटिजर् मौल्यं distance इति नाम्ना सङ्गृह्णाति। |
01:33 | distance इति नाम इंटिजर् वेरियेबल् इति वदामः। |
01:37 | अधुना वयं distance इति वेरियेबल् इतीदं तत्रस्थमौल्यं प्रिंट् कर्तुम् उपयोक्तुं शक्नुमः। |
01:47 | System dot out dot println. पेरेंथिसिस् मध्ये distance. |
02:01 | एषः निर्देशः (स्टेट्मेंट्) डिस्टेंन्स् वेरियेबल् इत्यस्य मौल्यं प्रिंट् करोति। |
02:06 | सञ्चिकां Save कृत्वा Run कुर्वन्तु। |
02:14 | 28 इति मौल्यं distance इत्यत्र सङ्गृह्य प्रिंट् जातमस्ति इति वयं पश्यामः। |
02:21 | अधुना वयं वेरियेबल् मध्ये सङ्गृहीतं मौल्यं परिवर्तयामः। |
02:25 | 28 (अष्टाविंशतिं) 24 इति परिवर्तयामः। |
02:29 | Save कृत्वा Run कुर्वन्तु। |
02:34 | पश्यन्तु, एतदनुसारं फलितमपि परिवर्तितमस्ति। |
02:39 | int इतीदं ऋणात्मकमौल्यानि अपि सङ्गृह्णाति। |
02:42 | 24 (चतुर्विंशतिं) minus 25 इति परिवर्तयन्तु। |
02:48 | Save कृत्वा Run कुर्वन्तु। |
02:56 | पश्यन्तु, int इति वेरियेबल्, ऋणात्मकमौल्यानि अपि सङ्गृह्णाति। |
03:02 | int इति दत्तांशप्रकारः प्रोग्रामिंग् इत्यस्य आवश्यकताः सम्पूरयति। |
03:06 | परम् एषः सीमायां मौल्यं सङ्गृह्णाति। |
03:10 | वयमधुना किञ्चन बृहत्संहतेः मौल्यं सङ्गृहीतुं प्रयतामहे। |
03:25 | पश्यन्तु, अधः रक्तपङ्क्तिः दृश्यते, एषा दोषं सूचयति। |
03:34 | सः दोषः, सङ्ख्या int इति वेरियेबल् इत्यस्य सीमां अतिक्रम्य अस्ति इति वदति। |
03:42 | int इति केवलं 32 bits memory स्वीकरोति, अपि च -2 power 31 तः 2 power 31 पर्यन्तस्य मौल्यं केवलं सङ्गृह्णाति। |
03:49 | बृहत्सङ्ख्यां सह्गृहीतुं जावा long इति दत्तांशप्रकारं प्रापयति। |
03:54 | एनं वयं बृहत्मौल्यं सङ्गृहीतुम् उपयुञ्ज्महे। |
03:59 | int इतीदं long इति परिवर्तयन्तु। |
04:04 | सङ्ख्यायाः अन्ते बृहत् L योजयन्तु। |
04:11 | Ctrl, S नुत्वा रक्षन्तु। |
04:16 | पश्यन्तु, अधुना दोषाः न सन्ति। |
04:19 | एतत् Ctrl, F11 नोदनेन चालयामः। अधुना मौल्यं मुद्रितं वर्तते। |
04:27 | पश्यन्तु, बृहत्सङ्ख्याः long इति वेरियेबल् मध्ये सङ्गृहीतानि भवन्ति। |
04:32 | अधुना वयं, int इति वेरियेबल् मध्ये दशमांशसङ्ख्यां सङ्गृह्णीयाम। |
04:37 | long इतीदं int प्रति परिवर्त्य सङ्ख्यां 23.5 इति परिवर्तयन्तु। |
04:50 | अधुना वयं दोषं पश्यामः। यतोहि, int इति केवलं पूर्णाङ्कं सङ्गृह्णाति। |
05:00 | दशमांशं सङ्गृहीतुं वयं float इत्यस्य उपयोगं कुर्मः। |
05:05 | दत्तांशप्रकारं float इति परिवर्तयन्तु। |
05:10 | अपि च मौल्यस्य अन्ते f इति योजयन्तु। |
05:17 | रक्षन्तु। |
05:19 | वयमधुना अत्र दोषं न पश्यामः। |
05:22 | Control F11 इत्यस्य नोदनेन चालयामः। |
05:29 | पश्यन्तु, दशमांशसङ्ख्या सङ्गृह्य मुद्रितं वर्तते। |
05:37 | वयमधुना डिस्टेन्स् इति वेरियेबल् इत्यस्य मौल्यं परिवर्तयामः। |
05:46 | अत्र यथा दर्शितं तथा दशमांशबिन्दोः अनन्तरम् अनेकसङ्ख्यां योजयन्तु। |
05:53 | Save कृत्वा Run कुर्वन्तु। |
06:01 | पश्यन्तु, फलितं सङ्गृहे विद्यमानेभ्यः भिन्नं वर्तते। |
06:06 | यतोहि, चरसङ्ख्यायाः स्पष्टतायै काचित् सीमा वर्तते। |
06:11 | एषा स्पष्टतया यदि न सङ्गृहीतं तर्हि फलिते तत्समीपस्थसङ्ख्यां सूचयति। |
06:18 | अधुना वयं वेरियेबल् इत्यस्य नाम्नः कृते विद्यमानान् नियमान् पश्यामः। |
06:23 | नाम्नः प्राक् 2 इति सङ्ख्यां योजयन्तु। |
06:30 | पश्यन्तु, अत्र syntax error दृश्यते। |
06:34 | यतोहि, वेरियेबल् इत्यस्य नाम सर्वदा वर्णेन एव आरभेत्। |
06:40 | अपि च सामान्यतया underscore इतीदं वेरियेबल्-नाम्नः आरम्भे न उपयुज्यते। |
06:45 | अधुना सङ्ख्यां वेरियेबल्-नाम्नः अन्ते योजयामः। |
06:55 | पश्यन्तु, अधुना दोषः नास्ति। |
06:59 | वेरियेबल् इत्येतेषां नाम्नः अन्ते सङ्ख्या भवितुमर्हति परम् आदौ न। |
07:04 | अधुना नाम्नः मध्ये underscore योजयामः। |
07:15 | पश्यन्तु, अधुनापि दोषः नास्ति। |
07:17 | अर्थात्, underscore इतीदं वेरियेबल्-नाम्नि उपयोक्तुं शक्यते। |
07:22 | परम्, अन्यत् किञ्चन चिह्नं यदि नाम्नि अस्ति तर्हि दोषं दर्शयति। |
07:28 | एवं च भवन्तः जावा मध्ये साङ्ख्यिकदत्तांशं (numerical data) सङ्गृह्णन्ति। |
07:35 | अत्र असौ पाठः समाप्यते। |
07:38 | अस्मिन् पाठे वयं विविधान् साङ्ख्यिकदत्तांशप्रकारान् (numerical datatype) ज्ञातवन्तः। |
07:44 | अपि च साङ्ख्यिकदत्तांशाः (numerical data) कथं सङ्ग्राह्याः इत्यपि ज्ञातवन्तः। |
07:46 | अपि च वयं वेरियेबल्-नाम्नः कतिचन नियमान् अपि ज्ञातवन्तः। |
07:51 | अस्य पाठस्य अभ्यासाय, |
07:53 | अपरेषां साङ्ख्यिकदत्तांशप्रकाराणां विषये पठन्तु। |
07:56 | ते int अपि च float इत्येतेभ्यः कथं भिन्नाः सन्ति इति पश्यन्तु। |
08:00 | जावा इत्यस्य सर्वे पाठाः अस्मिन् लिंक् मध्ये सन्ति। |
08:05 | स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधोविद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु। |
08:11 | एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति। |
08:14 | यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु। |
08:20 | स्पोकेन् ट्युटोरिय प्रकल्पगणः पाठमिममुपयुज्य कार्यशालां चालयति। |
08:24 | ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति। |
08:35 | स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। |
08:39 | इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति। |
08:45 | अधिकविवरणार्थम् अधस्थं लिंक् पश्यन्तु। |
08:51 | अस्य पाठस्य अनुवादकः ऐ ऐ टि बांबेतः राकेशः अपि च प्रवाचकः ऐ ऐ टि बांबेतः वासुदेवः, धन्यवादः। |