Difference between revisions of "GIMP/C2/Selective-Sharpening/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:21 | '''Meet The GIMP''' इति पाठेऽस्मिन् सर्वेभ्यः स्वागतम् ।...")
 
(No difference)

Latest revision as of 14:21, 5 January 2020

Time Narration
00:21 Meet The GIMP इति पाठेऽस्मिन् सर्वेभ्यः स्वागतम् ।
00:26 अद्य, अहं selective sharpening इति विषये पाठयितुमिच्छामि ।
00:31 चित्रकात् बहिरागतस्य प्रत्येकम् अङ्कीयचित्रस्य (digital image) तीक्ष्णतायाः आवश्यकता अस्ति । यतोहि तानि crisp न भवन्ति । विशेषेण, चित्रके processor इत्यस्य कृते तीक्ष्णीकर्तुम् अनुमतिम् अदत्वा यदा आमचित्राणि (raw) स्वीक्रियन्ते तदा अस्य अवश्यकता अस्ति ।
00:48 किन्तु, GIMP इतीदमुपयुज्य भवान् स्वयं करोति चेत् sharpening इतीदं नियन्त्रयितुं शक्नोति । अद्यतनपाठे इदं कथं करणीयमिति अहं प्रदर्शयामि ।
01:02 वयमत्र चित्रमिदं पश्यामः ।
01:06 चित्रेऽस्मिन्, पृष्ठदेशस्थं तन्त्रीजालम् अतीक्ष्णीकृतं बृहत् क्षेत्रमस्ति । अपि च अत्रत्यं पुष्पं किञ्चित् तीक्ष्णीकृतमस्ति ।
01:17 अतः, अहं पुष्पमिदं किञ्चिदधिकं तीक्ष्णं कर्तुमिच्छामि । पृष्ठदेशं यथास्ति तथैव रक्षितुमिच्छामि ।
01:25 किन्तु, मया किमर्थं पृष्ठदेशः तीक्ष्णीकरणीयः नास्तीति प्रथमं भवते दर्शनीयमस्ति ।
01:31 इदानीं तत् तीक्ष्णीकृतं नास्ति । किञ्चित् तीक्ष्णीकरणेन कस्यापि हानिः न भवेत् ।
01:37 अतः, साधनपेटिकास्थ Filters इत्यस्योपरि नुत्वा Sharpen इति साधनं चिनोमि । Sharpness इति अवसर्पिणीम् उपरि कर्षयामि । पृष्ठदेशस्य प्राकृतता नष्टा इति भवान् द्रष्टुं शक्नोति ।
01:52 किन्तु, भवान् अत्र पश्यतु, अहं Sharpen इति साधनम् अत्रानीय अवसर्पिणीम् अन्तिममूल्यं प्रति कर्षयामि चेत् चित्रं विलीनं भवति ।
02:03 अतः, अतीक्ष्णीकृतप्रदेशस्य अथवा विवरणरहितानां तथैव वर्णपूरितप्रदेशानां तीक्ष्णीकरणेन चित्रं नश्यति । यतोहि चित्रे तीक्ष्णीकर्तुम् अनपेक्षितवर्णाः, तीक्ष्णीकरणेन एवं भवन्ति ।
02:21 अतः, अहं ‘selective sharpening’ इति विधानं भवते कथयामि । इदं चित्रं न नाशयति ।
02:29 selective sharpening इतीदं कर्तुमहं Layers इत्येतैः सह कार्यं करोमि ।
02:35 अस्मिन् पर्याये, Background इति स्तरस्य प्रतिलेखं कृत्वा तदहं sharpen इति कथयामि ।
02:43 इदानीं, sharpen इति स्तरं प्रति एकां layer mask इतीमां योजयित्वा Grayscale copy of layer इतीदं स्तरवर्णिकारूपेण चिनोमि । Add इति विकल्पं चिनोमि । किमपि न परिवर्तितमिति भवान् पश्यति । यतोहि Layer mode इतीदं Normal इत्यस्ति ।
03:07 किन्तु, यदाहं प्राकृतं Background इति स्तरम् अपचिनोमि तदा केवलं चित्रस्थः प्रकाशमानभागाः दृश्यन्ते इति भवान् पश्यति ।
03:19 स्तरवर्णिकास्थः श्वेतवर्णः प्रकाशमानभागान् दर्शयति तथैव कृष्णम् अदृश्यं करोतीति भवतः स्मरणे अस्ति चेत्, अत्र स्तरवर्णिकायाः अधिकभागः कृष्णः, अतः सः अदृश्यः अस्ति, अपि च अत्र प्रकाश्यमानं केवलं दृश्यते इति भवान् द्रष्टुं शक्नोति ।
03:36 इदानीमहं स्तरवर्णिकायाः उपरि ‘sharpening algorithm’ इत्यस्योपयोगं करोमि चेत्, केवलमिदं पुष्पं तीक्ष्णीकृतं भवति ।
03:43 अपि च मह्यं पर्णस्य भागोऽपि तीक्ष्णीकरणीयः अस्ति ।
03:48 तिक्ष्णीकृते चित्रे, मया पुष्पस्थाः श्वेतवर्णीयभागाः नापेक्ष्यन्ते, सूक्ष्मविवरणानि केवलं मया अपेक्ष्यन्ते ।
03:57 तत्कर्तुम्, अहं Edge-Detect इति द्वितीयां शोधनीम् (filter) उपयुञ्जे ।
04:04 अयं विधिकल्पः, चित्रे प्रकाश्यम् अपि च मन्दभागयोः विद्यमान सीमाः अन्वेष्टुं साहाय्यं करोति । तथैव तत्र श्वेतवर्णीयरेखाः रचयित्वा ताः वर्धयति ।
04:20 अत्रत्यानेतान् विकल्पान् भवान् तथैव त्यक्तुं शक्नोति । यतोहि एतद्विधिकल्पयोः मध्ये बह्वन्तरं नास्ति । किन्तु, अहं Amount इत्यस्य मूल्यं 4 प्रति संवर्ध्य Preview इत्यस्मिन् पश्यामि ।
04:41 पृष्ठदेशे किञ्चित् रचना अस्ति तथैव प्रकाश्यमानप्रदेशे गाढाः श्वेतरेखाः सन्तीति अत्र भवान् द्रष्टुं शक्नोति ।
04:54 अहं OK इत्यस्योपरि नुत्वा, चित्राय विनियोक्तुं विधिकल्पार्थं प्रतीक्षे ।
05:06 इदं कार्यं करोति । अपि च इदानीं सर्वसीमानाम् एकं श्वेतरङ्गसेचनम् अस्माभिः लभ्यते ।
05:15 1 इतीदं नुत्वा अहं चित्रे सर्पणं करोमि । सर्वे प्रकाशमानभागाः श्वेतसीमां श्वेतरेखां च प्राप्ताः । तथैव अन्ये सर्वे भागाः कृष्णाः सन्तीति अत्र भवान् द्रष्टुं शक्नोति ।
05:43 यदाहं layer mask अपि च Background इति स्तरं निष्क्रियं करोमि, तदा भवान् पुष्पस्य सीमां केवलम् अर्थात् प्रकाशमानभागः दृश्यमानः अस्तीति पश्यति ।
05:57 पृष्ठदेशस्थं तथैव पुष्पस्य वर्णानाम् उपरि परिणामं विना, इदानीं पुष्पस्य सीमामहं तीक्ष्णीकर्तुं शक्नोमि ।
06:08 किन्त्विदम्, मन्दपृष्ठदेशे स्पष्टरेखाः इव विचित्रपरिणामं ददाति ।
06:20 तन्निवारयितुम्, अहं स्तरस्यास्य उपरि Blur इति शोधनीम् उपयुञ्जे ।
06:28 इमां श्वेतरेखां किञ्चित् नाशयितुमहं layer mask इतीदं चित्वा Gaussian Blur इतीदमुपयुञ्जे । Horizontal Blur Radius इत्यत्र मूल्यं 8 प्रति संवर्ध्य OK इतीदं नुदामि ।
06:46 शोधन्याः पूर्तिपर्यन्तं प्रतीक्षेऽहम् । इदानीं पुष्पस्य सीमा किञ्चिदधिकं मृदु अस्तीति भवान् द्रष्टुं शक्नोति । मह्यं चित्रे किञ्चिदधिकं व्यतिरेकस्य अपेक्षास्ति ।
06:59 अतः, वक्रान् प्राप्तुमहं Curves Tool इतीदं चित्वा चित्रे नुदामि । गाढभूतम् इतोऽपि गाढं कर्तुं वक्रं किञ्चिदधः कर्षयामि । तथैव प्रकाशतमभागम् उपरि कर्षयित्वा श्वेतम् इतोऽपि श्वेतं करोमि ।
07:15 OK इत्यस्योपरि नुदामि । इदानीं मत्सविधे, तीक्ष्णस्य अवश्यकता यत्र अस्ति तत्र गाढतमाः श्वेतरेखाः सन्ति । कृष्णः यत्र अस्ति तत्र तीक्ष्णस्य अवश्यकता नास्ति ।
07:30 कृष्णप्रदेशस्य उपरि मया कार्यं कर्तव्यमासीत् किन्तु, तन्न कमपि परिणामं प्रदर्शयति ।
07:37 इदानीमहं स्तरवर्णिकाम् अत्र निष्क्रियं कृत्वा समग्रं चित्रं द्रष्टुं Shift + Ctrl + E इतीदं नुदामि ।
07:47 समग्रं चित्रं द्रष्टुं Shift + Ctrl + E इतीदमस्तीति इदानीं भवान् जानाति ।
07:51 यदाहं प्राकृतं Background इति स्तरं निष्क्रियं करोमि, तदा मया चित्रे अन्यूनं किमपि द्रष्टुं न शक्यते ।
07:57 White Layer Fill Type इत्येतेन सह नूतनमेकं स्तरं योजयित्वा OK इत्यस्य नोदनेन, तत्र किं जायमानमस्तीति अहं भवते विवृणोमि ।
08.06 इदानीं, तीक्ष्णीकरणीयान् प्रदेशान् भवान् पश्यति ।
08:10 इदानीं, वयं चित्रमिदं तीक्ष्णीकुर्मः । अहं क्रमशः साधनपेटिकास्थयोः Filters Enhance इत्यनयोः उपरि नुत्वा Sharpen इतीदं चिनोमि ।
08:25 पुष्पे तीक्ष्णीकरणस्य स्थानं प्रति गच्छतु । sharpen इति स्तरः चितः अस्तीति पश्यतु । यतोहि ‘white layer’ इत्यत्र तीक्ष्णीकर्तुं किमपि नास्ति ।
08:37 अतः, अहं क्रमशः sharpen layer, filter अपि च Re-Show 'sharpen' इतीमान् चिनोमि । अत्र भवान् पुष्पं पश्यति । इदानीं सम्यक् तीक्ष्णीकृतचित्रस्य प्राप्तिपर्यन्तमहं Sharpness slider इतीदमुपरि कर्षयामि ।
08:55 अनन्तरं OK इतीदं नुत्वा विधिकल्पस्य कार्यार्थं प्रतीक्षे ।
09:01 इदं कार्यं करोति ।
09:04 अपि च रेखा अधिकलक्षणयुक्ता इति भवानिदानीं द्रष्टुं शक्नोति ।
09:09 इमं श्वेतस्तरं निष्क्रियं कृत्वा समग्रचित्रं पश्यामः ।
09:16 sharpen इति स्तरं निष्क्रियं करोतु । किन्त्वस्य, आवर्धने (magnification) कोऽपि परिणामः न संवृत्तः ।
09:23 अतः, अहं चित्रे सर्पणं करोमि ।
09:27 अहं चिन्तये यत् भवान् परिणामं सम्यक् पश्येदिति ।
09:31 यदाहं sharpen इति स्तरं on इति करोमि तदा भवान् तीक्ष्णीकृतं चित्रं पश्यति । अपि च यदाहं तत् off इति करोमि तदा चित्रं तीक्ष्णीकृतं न भवति ।
09:40 Opacity इति अवसर्पिण्याः (slider) साहाय्येन अहं परिणामस्य प्रमाणं नियन्त्रयितुं शक्नोमि ।
09:47 इदानीमहं पृष्ठदेशं परिशीलयामि । अहं तस्य नाशं न कृतवानिति भवान् द्रष्टुं शक्नोति ।
09:54 इदानीमहं किञ्चित् सम्यक् tuning करोमि ।
10:10 चित्रेऽहम् अधिकतीक्ष्णीकृतप्रदेशान् अपि च सम्यक् तीक्ष्णम् अकृतप्रदेशार्थं पश्यामि ।
10:20 पुष्पम् अपि च पृष्ठदेशयोः मध्यस्थसीमा add effects इत्येतद्विनापि सम्यक् तीक्ष्णीकृता अस्ति ।
10:30 किन्त्वहं, यदा पुष्पस्य अन्तः गच्छामि तदा भागोऽयं किञ्चित् कृतकमिव दृश्यते । अत्रत्यः अयं भागः निश्चयेन अधिकं तीक्ष्णीकृतः अस्ति ।
10:41 अत्रत्य पुष्पस्यास्य मुकुरमत्र न तावत् तीक्ष्णमस्ति । यतोहि edge detect इति विधिकल्पस्य कृते सीमाः न प्राप्ताः ।
10:52 किन्तु, यथा भवान् पश्यति तत्र काश्चन सीमाः सन्ति । Levels अथवा Curves इति साधनाभ्यां साहाय्येन मया अस्मै भागाय किञ्चिदधिकम् अवधानं दातव्यमासीत् ।
11:06 भवतः कार्यप्रवाहे तीक्ष्णीकरणम्, सर्वदा अन्तिमसोपानं भवेत् ।
11:11 अस्तु । अहमत्र अनन्तरम् आगच्छामि ।
11:16 इदानीं मया अस्य भागस्य तीक्ष्णता न्यूनीकरणीया ।
11:21 इदं सुलभमस्ति । नूनं भवान् sharpen इति स्तरं चितवानिति खचिततां करोतु । Brush इति साधनं चिनोतु ।
11:30 मृदुसीमायुक्तं कूर्चं चिनोतु । Scale इति अवसर्पिणीं कर्षयित्वा कूर्चमिमं कार्यस्यास्य कृते अपेक्षितमाकारं वर्धयतु । इदानीं कृष्णं चिनोतु, यतोहि कृष्णः गोपयति अपि च श्वेतः प्रत्यक्षीकरोति ।
11:53 भवतः कूर्चस्य Opacity इत्यस्य अवसर्पिणीं 20% प्रति वर्धयतु ।
12:03 अत्राहं कूर्चं चालयित्वा यदा रङ्गसेचनम् आरब्धवान् तदा तीक्ष्णीकरणं न्यूनमभवदिति भवान् द्रष्टुं शक्नोति ।
12:14 layer mask इत्यस्य साहाय्येन अत्र किं भवतीत्यहं खचिततया दर्शयितुं शक्नोमि ।
12:21 अहं स्तरवर्णिकां ON इति करोमि । अहं श्वेतस्योपरि रङ्गसेचनं करोमि चेत् तत् कृष्णः भवति ।
12:36 किन्तु, layer mask इतीदं निष्क्रियं करोमि चेत् चित्रम् अपि च मम कार्यस्य परिणामः द्रष्टुं शक्यः ।
12:47 विवरणानि अहमनन्तरं पश्यामि ।
12:52 इदानीमत्र, भागमिममहं तीक्ष्णं करोमि ।
12:58 अहं ‘x’ इति कीलकमुपयुज्य वर्णान् switch कृत्वा रङ्गसेचनम् आरभे ।
13:06 यथा भवान् पश्यति, भागोऽयं तीक्ष्णः गाढः च भवति ।
13:13 इदम् अतीव उत्तममस्ति । मम कार्यं परिशीलयितुमहं स्तरवर्णिकां सक्रियां करोमि । मया रङ्गसिक्तः भागः श्वेतः, अपि च तदहम् अधिकमेव कृतवानिति भवान् द्रष्टुं शक्नोति ।
13:31 अतः, अहं स्तरं प्रति पुनः गत्वा, 'X' इति कीलकनोदनेन वर्णं परिवर्तये । अपि च मया कृतं कार्यमहं पुनः करोमि ।
13:43 अत्र, वयं layers इत्येतैः सह कार्यं कुर्वन्तः स्मः । अतः कस्यचित् दत्तांशस्य नाशस्य अपायः नास्ति ।
13:51 शोधन्या निर्मितं ‘edge data’ इतीदं केवलमहम् अत्र नाशं कर्तुं शक्नोमि ।
14:00 किन्तु, तत् सुलभेन पुनः कर्तुं शक्यते ।
14:03 अत्र, तीक्ष्णीक्रियमाणायां पुष्पस्य सीमायामहं सर्पणं कृतवान् ।
14:12 यथा भवान् पश्यति, सीमा अत्र तीक्ष्णीकृता अस्ति ।
14:18 ‘sharpening’ इतीदं द्वयोः वर्णयोः मध्ये, गाढम् अपि च प्रकाशितसीमानां भागयोः मध्ये, प्रकाशयुक्ताम् अपि च गाढतमरेखां प्राप्तुं साहाय्यं भवति ।
14:30 गाढतमभागस्य सीमा गाढतमा सञ्जाता तथैव प्रकाशितभागः प्रकाशितः अस्ति ।
14:37 वर्णिकायाः (mask) उपयोगेन, केवलं भवदपेक्षितप्रदेशं प्रति एतत्परिणामं दातुं शक्नोति ।
14:50 अहं ‘sharpening’ इति विषयकस्य अधिकविवरणयुक्तां साधनसम्पत्तिं (resource) भवते प्रदर्शयामि ।
14:56 Chris Markwa’s प्रसारव्यवस्थायाः (broadcast) स्थले (site), "tips from the top floor.(dot)com" इत्यत्र गच्छतु । तत्र वामतः Photoshop Corner इतीदं भवान् पश्यति ।
15:12 तत्र, तेषां सविधे ‘GIMP’ इत्येतदर्थम् उपयोक्तुं Photoshop इत्येतद्विषयिणी प्रसारव्यवस्था अस्ति । प्रसारव्यवस्थायां ते यद्वदन्ति तत् लेखनविषयरूपेण प्रदत्तवन्तः । तथैव तस्य कानिचन चित्राणि निर्मितवन्तः । ततः अहं किञ्चित् मुख्यं स्वीकरोमि । तस्मादहम् अत्र source इत्येतदर्थं साक्षात् दर्शयितुं शक्नोमि ।
15:44 पाठेऽस्मिन् चर्चितं ‘sharpening effect’ इति विषये भवानत्र द्रष्टुं शक्नोति ।
15:52 सः Unsharp mask इतीदम् अपि च halos इत्यस्य वर्जनप्रक्रियां सविस्तारं वर्णितवान् ।
16:00 चित्रं तीक्ष्णं कर्तुं बहुविधतन्त्राणि प्रदर्शितवान् ।
16:05 किन्तु, यदहं भवते प्रदर्शितवान् अत्र, एतत् स्थलस्योपरि नास्ति ।
16:12 तथैव, भवानस्य स्थलस्योपरि कार्यशालाः दृष्ट्वा अभ्यस्तुम्, इतोऽपि कानिचन स्थानार्थं परिशीलयतु ।
16:23 एतत्सप्ताहार्थम् एतावदेव । भवान् अभिप्रायं प्रेषयितुमिच्छति चेत् कृपया info@meetthegimp.org इत्यत्र प्रेषयतु ।
16:35 अधिकं विवरणं http://meetthegimp.org इत्यस्मिन् शृङ्खले लभ्यते ।
16:40 अपि चाहं भवतः सकाशात् श्रोतुमिच्छामि ।
16:43 भवान् किमिष्टवान्, मया किम् उत्तमं करणीयमासीत्, इतः परं भवान् भविष्यति किं द्रष्टुमिच्छतीति वदतु ।
16:51 Spoken Tutorial परियोजनायाम् अनुवादकः ऐ ऐ टि मुम्बैतः वासुदेवः, प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat