Tux-Typing/S1/Learn-advanced-typing/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 Tux Typing (टक्स टाइपिंग) इत्यस्य परिचयात्मकेऽस्मिन् स्पोकन ट्यूटोरियल मध्ये भवते स्वागतम्।
00:05 अस्मिन् ट्यूटोरियल मध्ये भवान् ज्ञास्यति यत्:
00:08 वाक्यानां टङ्कनं कथं करणीयम्। स्वकीयशब्दानां सूचीं कथं निर्मातव्यम्।
00:12 टङ्कनार्थं भाषाव्यवस्थापनं कथं करणीयम् इत्यादि।
00:17 अत्र, वयं उबंटू लिनक्स 11.10 इत्यस्मिन् Tux Typing 1.8.0 इत्यस्य उपयोगं कुर्मः।
00:26 Tux Typing उद्घाटयतु।
00:28 Dash Home इत्यत्र नुदतु।
00:31 सर्च बॉक्स मध्ये, Tux Typing इति टङ्कयतु।
00:36 Tux Typing इत्यस्य आइकन उपरि नुदतु।
00:38 मुख्य मेन्यू मध्ये Options इत्यत्र नुदतु।
00:42 आप्शन मेन्यू प्रदृष्टं भवति। अधुना वाक्यानां टङ्कनस्य अभ्यासं करोतु।
00:47 Phrase Typing इत्यत्र नुदतु।
00:49 टिचर्स लाइन मध्ये दृश्यमानवाक्यं टङ्कयतु।
00:53 अत्र तत् एवमस्ति - “The quick brown fox jumps over the lazy dog”.
01:06 अधुना, अस्मभ्यं अग्रिमवाक्यं टङ्कनीयम्, टङ्कनीयं खलु?
01:10 Enter नुदतु। अग्रिमवाक्यं दृष्टं भवति।
01:14 अधुना वयं वाक्यटङ्कनं अभ्यस्तवन्तः
01:17 भवान् विभिन्नवाक्यैः सह अभ्यासं कर्तुं शक्नोति।
01:21 अधुना पूर्वतनमेन्यू गन्तुं Esc नुदतु।
01:26 आप्शन मेन्यू प्रदृष्टं भवति।
01:29 वयम् अधुना नूतनवाक्यस्य शब्दस्य च योजनं ज्ञास्यामः।
01:34 Edit Word Lists इत्यत्र नुदतु।
01:37 Word List Editor विंडो प्रदृष्टं भवति।
01:40 वयं नूतनशब्दं योजयामः वा?
01:42 वर्ड लिस्ट एडिटर विंडो मध्ये NEW इत्यत्र नुदतु।
01:46 Create a New Wordlist विंडो प्रदृष्टं भवति।
01:49 Create a New Wordlist विंडो मध्ये, Learn to Type इति टङ्कयित्वा OK इति नुदतु।
02:01 Word List Editor विंडो प्रदृष्टं भवति।
02:04 Remove इत्यत्र नुत्त्वा अस्माभिः टङ्कितशब्दं वाक्यं वा मार्जयितुं शक्नुमः।
02:10 शब्दं उत वाक्यं रक्षितुं DONE इत्यत्र नुदतु अपि च इण्टर्नल मेन्यू प्रति गच्छतु।
02:17 आप्शन मेन्यू प्रदृष्टं भवति।
02:20 इण्टर्नल मेन्यू तः भवान् Setup language इति विकल्पं नुत्त्वा भाषां व्यवस्थापयितुं शक्नोति।
02:26 भवता चितायां भाषायां टक्स टाइपिंग इंटरफेस अपि च पाठः प्रदृष्टं भवति।
02:32 तथापि, अधुना टक्स टाइपिंग अन्यभाषासु पाठानां समर्थनं न करोति।
02:38 अधुना क्रीडामेकां क्रीडामः।
02:40 Main Menu इत्यत्र नुदतु।
02:44 Fish Cascade इति बटन नुदतु।
02:47 गेम मेन्यू प्रदृष्टं भवति।
02:50 क्रीडायाः आरम्भात् प्राक् निर्देशान् पठामः यत् एतां कथं उद्घाटनीयम् इति। Instructions इत्यत्र नुदतु।
02:57 क्रीडां क्रीडितुं निर्देशान् पठतु।
03:03 अनुवर्तयितुं space bar नुदतु।
03:07 अधुना टङ्कनाभ्यासाय सरलक्रीडां चिनोतु। Easy इत्यत्र नुदतु।
03:13 विभिन्नविकल्पयुतं विंडो प्रदृष्टं भवति।
03:18 विभिन्नविकल्पाः सन्ति, colors, fruits, plants, इत्यादि । Colors इत्यत्र नुदतु।
03:26 अकाशात् मत्स्याः पतन्ति। तेषु प्रत्येकस्मिन् अक्षराणि अपि सन्ति।
03:32 यदि भवान् शब्दान् समीचीनतया टङ्कयति तर्हि शब्दः रक्तवर्णेन परिवर्त्य अदृश्यतां याति।
03:38 अनन्तरम्, यदा मत्स्यः अधः पतति तदा पक्षिः तं खादितुं धावति।
03:42 अधुना यानि मत्स्येषु न सन्ति तानि अक्षराणि टङ्कयामः। किम् अभवत्?
03:47 अक्षराणि तथैव श्वेतानि एव सन्ति। अर्थात्, भवता तानि अक्षराणि सम्यक्तया टङ्कनीयानि इति।
03:52 यावव् भवान् इच्छति तावत् क्रीडाम् अनुवर्तयितुं शक्नोति।
03:55 गेम्स मेन्यू प्रति गन्तुं Escape बटन वारद्वयं नुदतु।
04:00 अत्र भवतः कृते किञ्चन नियतकार्यमस्ति।
04:02 काठिन्यस्य स्तरं मीडियम अथवा हार्ड मध्ये परिवर्त्य क्रीडां क्रीडतु।
04:09 एतेन समं वयं के-टच इति पाठस्य अन्तं प्राप्तवन्तः।
04:14 अस्मिन् ट्यूटोरियल मध्ये वयं वक्यानां टङ्कनं, शब्दनां योजनम् अपि च क्रीडनं च ज्ञातवन्तः।
04:21 अधस्थे लिंक मध्ये उपलब्धं विडियो पश्यन्तु। http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
04:24 एषः स्पोकन ट्यूटोरियल इत्यस्य सारांशः अस्ति।
04:27 यदि भवतां समीपे उत्तमं बैंडविड्थ नास्ति तर्हि भवन्तः एतत् अवचित्यापि (डाउनलोड) द्रष्टुं शक्नुवन्ति।
04:32 स्पोकन ट्यूटोरियल प्रकल्पगणः (प्रोजेक्ट टीम) :
04:34 स्पोकन ट्यूटोरियल इत्यस्य उपयोगद्वारा कार्यशालाः अपि चालयति।
04:36 ये ऑनलाइन परीक्षाम् उत्तरन्ति तेभ्यः प्रमाणपत्रमपि दीयते।
04:41 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
04:47 स्पोकन ट्युटोरियल प्रोजेक्ट टॉक-टू-अ-टीचर प्रोजेक्ट इत्यस्य भागः अस्ति।
04:52 एतत् भारतसर्वकारस्य एमएचआरडी इत्यस्य “आईसीटी माध्यमेन राष्ट्रीयसाक्षरतामिशन” द्वारा समर्थितमस्ति।
04:59 अस्य विषये अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इति लिंक मध्ये उपलब्धमस्ति।
05:11 अस्य प्रतेः अनुवादकः प्रवाचकश्च ऐ ऐ टि बांबे तः वासुदेवः अधुना आपृच्छति। समयदानाय धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal