Linux/C2/File-Attributes/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:00 | Linux - सञ्चिकाया: धर्मा: इत्यस्मिन् spoken tutorial मध्ये स्वागतम् |
00:05 | example1, example2, example3, example4, example5, testchown च इति आसां रिक्त-सञ्चिकानां निर्माणम् इति पाठस्य अस्य पूर्वावश्यकता |
00:18 | कृपया test_chown तथैव directory1 इति संधारिका-द्वयं रिक्तं निर्मातु |
00:25 | सञ्चिका-धर्म: नाम किञ्चन metadata यत् संगणक-सञ्चिकां वर्णयति ,तत्-संबद्धं वा भवति इति |
00:33 | सञ्चिका-धर्मा: नाम केचन विशेषा: ये सञ्चिकां वर्णयन्ति यथा तत्-स्वामी , तत्-प्रकार: , तत्-उपयोगस्य अनुमति: इत्यादिकम् |
00:45 | सञ्चिकाया: ,संधारिकाया: वा स्वामित्वं परिवर्तयितुं "c-h own" इति आदेश: प्रयुज्यते ,एष: व्यवस्थापक-आदेश: अस्ति , मूल-उपयोक्ता एव सञ्चिकाया: ,संधारिकाया: वा स्वामित्वं परिवर्तयितुं शक्नोति |
01:00 | chown - आदेशस्य अन्वय: अस्ति - chown space options space स्वामि-नाम space सञ्चिकानाम, संधारिका-नाम वा |
01:13 | वयं chown - आदेशेन सह एतान् पर्यायान् अपि दातुं शक्नुम: |
01:18 | -R : इत्यनेन संधारिकाया: उपसन्धारिकायां विद्यमानानां सञ्चिकानाम् अनुमति: परिवर्त्यते यस्यां भवान् साम्प्रतम् अस्ति |
01:28 | -c : इत्यनेन प्रत्येकं सञ्चिकाया: अनुमति: परिवर्त्यते |
01:33 | -f :-f : इत्यनेन ch own आदेशे दोष-दर्शनं निवार्यते |
01:37 | अधुना वयं कानिचन प्रत्यक्षं पश्याम: |
01:40 | अथ terminal प्रति गच्छतु, वयं संधारिकां गच्छाम: यत्र अस्माभि: रिक्त-सञ्चिका: धारिका: च निर्मिता: सन्ति , तन्निमित्तं "cd space Desktop slash file attribute " , enter नुदतु च |
01:56 | अधुना आदेशं टङ्कयतु- "$ ls space -l space testchown इत्युक्ते t-e-s-t-c-h-o-w-n " , enter नुदतु च |
02:11 | अत्र वयं पश्याम: 'testchown' - सञ्चिकाया: स्वामी शाहिद: अस्ति |
02:18 | सञ्चिकाया: स्वामिनं परिवर्तयितुम् आदेशं टङ्कयतु -"$ sudo space c-h own space इत्युक्ते a-n-u-s-h-a anusha space testchown इत्युक्ते t-e-s-t-c-h-o-w-n " , enter नुदतु च |
02:36 | sudo - कूटशब्दं लिखतु , पुन: Enter नुदतु च |
02:44 | अधुना टङ्कयतु- $ ls space -l space t-e-s-t-c-h-o-w-n Enter नुदतु च ,अत्र वयं पश्याम: , सञ्चिकाया: नूतना स्वामिनी अनुषा अस्ति इति |
03:03 | अधुना वयं द्रक्ष्याम: संधारिकाया: स्वामित्वं कथं परिवर्तनीयम् इति |
03:07 | आदेशं टङ्कयतु -" $ ls -l " , Enter नुदतु च अत्र वयं द्रष्टुं शक्नुम: 'test_chown' संधारिकाया: स्वामी शाहिद: अस्ति |
03:21 | संधारिकाया: स्वामित्वं परिवर्तयितुम् आदेशं टङ्कयतु - |
03:26 | $ sudo space chown space minus capital R space a-n-u-s-h-a anusha spacetest_chown यत् अस्ति संधारिकानाम Enter नुदतु च |
03:44 | आवश्यक: चेत् sudo - कूटशब्दं लिखतु ,पुन: Enter नुदतु च |
03:49 | अस्माकं स्पष्टतार्थं Clt+L नुत्त्वा पटलं स्वच्छं कुर्म: , अधुना टङ्कयतु -$ ls space -l , Enter नुदतु अत्र वयं पश्याम: संधारिकाया: नूतना स्वामिनी अस्ति अनुषा |
04:06 | "chmod " इति आदेश: सञ्चिकानाम् उपयोगस्य अनुमतिं परिवर्तयितुम् प्रयुज्यते |
04:13 | chmod इति आदेशस्य अन्वय: अस्ति chmod space [पर्याया:] space mode space सञ्चिकानाम space chmod space [पर्याया:] space सञ्चिकानाम वयं chmod इति आदेशेन सह एतान् पर्यायान् अपि दातुं शक्नुम: |
04:29 | "-c ": परिवर्तित-सञ्चिकानां मुद्रण-विषयकं ज्ञानं दातुं प्रयुज्यते |
04:34 | "-f ": chmod या: सञ्चिका: परिवर्तयितुं न शक्नोति तासां ज्ञानम् उपयोक्तु: न भवेत् इति अत: प्रयुज्यते |
04:41 | अनुमते: एते प्रकारा: सन्ति - |
04:44 | r : पठनम् w : लेखनम् x : सञ्चालनम् s : उपयोक्तु: वर्गस्य वा ID-विन्यसनम् |
04:54 | अथवा , वयं अङ्क-त्रयस्य अष्टकेन अनुमती: निर्देष्टुं शक्नुम: |
05:00 | प्रथम: अङ्क: स्वामिन: अनुमते: कृते भवति , द्वितीय: समूहस्य अनुमते: कृते भवति , तृतीय: च अन्यस्य अनुमते: कृते भवति |
05:09 | एतानि अष्टक-मूल्यानि योजयित्वा अनुमतय: गणिता: भवन्ति 4 -इत्युक्ते पठनम् 2 - इत्युक्ते लेखनम् 1 - इत्युक्ते अनुष्ठानम् |
05:20 | अधुना वयं chmod इत्यस्य कानिचन उदाहरणानि पश्याम: , terminal प्रति गच्छतु , execute-by-user इति अनुमतिं example1 इति सञ्चिकया योजयितुम् आदेशं लिखतु |
05:30 | तस्मात् पूर्वं अहं पुन: Clt+l पटलं स्वच्छं करोमि |
05:36 | अधुना टङ्कयाम:"$ chmod space u+x space example1 " Enter नुदतु |
05:49 | अधुना टङ्कयतु - "$ ls space -l space example1 " परिवर्तनं द्रष्टुं Enter नुदतु |
06:01 | अत्र स्वामिन: द्वारा read/write/execute इति अनुमति: , group -द्वारा read/execute इति अनुमति: , अन्यद्वारा execute-only इति अनुमति: च example1 सञ्चिकाया: कृते नियोक्तुं शक्या |
06:15 | अधुना संसूचके टङ्कयतु - "chmod space 751 space example1" Enter नुदतु |
06:26 | अधुना टङ्कयतु "$ ls space -l space example1 " ,Enter नुदतु च |
06:35 | अत्र वयं पश्याम: यत् उपरितन-आदेश: स्वामिन: द्वारा read/write/execute इति अनुमत्या , group -द्वारा read/execute इति अनुमत्या , अन्यद्वारा execute-only इति अनुमत्या च example1 सञ्चिकाया: कृते नियुक्त: |
06:52 | प्रत्येकस्य कृते read-only इति अनुमतिं example1 सञ्चिकया नियोक्तुम् आदेशं टङ्कयतु - "$ chmod space =r space example1" Enter नुदतु च |
07:08 | अधुना आदेशं टङ्कयतु - "$ ls space -l space example1" Enter नुदतु |
07:19 | अत्र वयं पश्याम: यत् प्रत्येकस्य कृते example1 सञ्चिकया read-only इति अनुमति: नियुक्ता |
07:30 | पुन: पुन: अनुमतिं परिवर्तयितुम् अपि च प्रत्येकस्य कृते read-and-execute निर्देष्टुं तथा च directory1 इत्यस्या: स्वामिनं write-access दातुम् आदेशं टङ्कयतु- |
07:44 | $ chmod space minus capital R space 755 space directory1 Enter नुदतु |
08:00 | अधुना टङ्कयतु "$ ls space -l" , परिवर्तनं द्रष्टुं Enter नुदतु |
08:09 | example2 इति सञ्चिकाया: कृते user execute - अनुमतिं दातुम् आदेशं टङ्कयतु- $ chmod space u+x space example2 ,Enter नुदतु |
08:27 | अधुना आदेशं टङ्कयतु- $ ls space -l space example2 ,Enter नुदतु च |
08:40 | अत्र वयं द्रष्टुं शक्नुम: execute इति अनुमति: example2 निमित्तं उपयोक्तु: कृते नियुक्ता |
08:50 | example3 निमित्तं group मध्ये write इति अनुमतिं योजयितुम् आदेशं टङ्कयतु -$ chmod space g+w space example3 Enter नुदतु |
09:10 | अधुना टङ्कयतु $ ls space -l space example3 Enter नुदतु |
09:23 | अत्र वयं पश्याम: यत् group मध्ये write इति अनुमति: समाविष्टा |
09:30 | सर्वत: write इति अनुमतिं निष्कासयितुं , आदेशं टङ्कयतु - $ chmod space a-w space example3 Enter नुदतु |
09:45 | अधुना टङ्कयतु $ ls space -l space example3 Enter नुदतु |
09:55 | अत्र वयं पश्याम: यत् write इति अनुमति: सर्वत: निष्कासिता |
10:02 | chgrp इति आदेश: सञ्चिकानां वर्गं परिवर्तयितुम् प्रयुज्यते |
10:10 | Newgroup इति एक: group ID - क्रमाङ्क: अथवा /etc/group मध्ये स्थितं group -नाम भवति |
10:20 | केवलं सञ्चिकाया: स्वामी अथवा अधिकृत-उपयोक्ता group परिवर्तयितुं शक्नोति |
10:26 | chgrp इत्यादेशस्य कृते अन्वय: अस्ति -chgrp space [पर्याया:] space newgroup space files. |
10:36 | terminal प्रति गच्छाम:, अधुना वयं chgrp आदेशस्य उदाहरणानि पश्याम:आदेशं टङ्कयतु - $ ls space -l space example4 ,Enter नुदतु च |
10:57 | अत्र वयं पश्याम: यत् shahid -उपयोक्तु: कृते group-अनुमति: अस्ति |
11:03 | group-अनुमतिं परिवर्तयितुम् आदेशं टङ्कयतु - $ sudo space chgrp space rohit space example4 |
11:20 | Enter नुदतु आवश्यकं चेत् sudo - कूटशब्दं ददातु |
11:27 | अधुना आदेशं टङ्कयतु - $ ls space -l space example4 Enter नुदतु |
11:38 | वयमत्र पश्याम: यत् shahid इत्यस्य स्थाने rohit इति परिवर्तितम् group दृश्यते |
11:46 | inode - क्रमाङ्क: इत्येष: अनन्य-पूर्णाङ्क: device इत्यनेन नियुक्त: भवति |
11:51 | Inode , नियत-सञ्चिकाया: विषये, संधारिकाया: विषये वा प्राथमिकं ज्ञानं संगृह्णाति |
11:57 | सर्वा: सञ्चिका: inodes इत्येभि: सह hard links द्वारा अन्विता: भवन्ति |
12:00 | यदा कदापि किञ्चन program सञ्चिकां नाम्ना निर्दिशति , तदा system , वस्तुत: अनुरूपं Inode अन्वेष्टुं सञ्चिका-नाम्न: उपयोगं करोति |
12:12 | वयं सञ्चिकाया: inode - क्रमाङ्कं द्रष्टुं " ls space -i " आदेशम् उपयोक्तुं शक्नुम: |
12:19 | आदेशं टङ्कयतु - $ ls space -i space example5 Enter नुदतु |
12:29 | सञ्चिकाया: पूर्वं लिखित: क्रमाङ्क: सञ्चिकाया: inode- क्रमाङ्क: भवति |
12:35 | Inode एकस्मिन् समये निश्चितरूपेण एकया एव संधारिकया संबद्धं भवन्ति |
12:41 | Hard links एकस्य inode द्वारा अनेकै: संधारिका-नामभि: सह संबद्धानि भवन्ति link निर्मातुं ln इति आदेश: अस्ति |
12:52 | hard link निर्मातुं ln इति आदेशस्य कृते अन्वय: अस्ति - |
12:57 | "ln space source space link " मध्ये source इति विद्यमाना सञ्चिका अस्ति , link इति सञ्चिका च निर्मातव्या अस्ति |
13:06 | अधुना वयं hard link इत्यस्य कतिचन उदाहरणानि पश्याम: |
13:10 | अहं पुन: पटलं स्वच्छं करोमि ,अधुना आदेशं टङ्कयतु-"$ ln space example1 space exampleln " , Enter नुदतु |
13:25 | सञ्चिका-द्वयस्य अपि inode क्रमाङ्कं दर्शयितुम् आदेशं टङ्कयतु-$ ls space -i space example1 space exampleln Enter नुदतु |
13:41 | अत्र वयं पश्याम: यत् सञ्चिका-द्वयस्य अपि inode क्रमाङ्क: समान: अस्ति , example1 इति सञ्चिकाया: कृते " file exampleln " इति hard link अस्ति |
13:54 | "Soft link symbolic link " इति सञ्चिकाया: कश्चन विशिष्ट: प्रकार: य: ,संधारिकाया: अन्य-सञ्चिकाया: वा सदर्भं संपूर्ण-मार्ग-नाम्ना ,संबद्ध-मार्ग-नाम्ना वा समाविशति |
14:07 | soft link निर्मातुं ln आदेशस्य अन्वय: अस्ति - |
14:12 | ln space -s space {target-सञ्चिकानाम} space {symbolic-सञ्चिकानाम} |
14:19 | अधुना वयं soft link इत्यस्य कतिचन उदाहरणानि पश्याम: |
14:25 | soft link, निर्मातुम् आदेशं टङ्कयतु -$ ln space -s space example1 space examplesoft |
14:40 | Enter नुदतु |
14:43 | अधुना सञ्चिकाद्वयस्य अपि inode क्रमाङ्कं सूचीं च दर्शयितुम् आदेशं टङ्कयतु -$ ls space -li space example1 space examplesoft |
15:01 | Enter नुदतु |
15:03 | अत्र वयं पश्याम: यत् सञ्चिकाद्वयस्य inode क्रमाङ्क: भिन्न: अस्ति ,अपि च "examplesoft " इति example1 इत्यस्य softlink अस्ति |
15:16 | अथ अस्मिन् पाठे अस्माभि: Linux - सञ्चिकानां धर्मा: पठिता: यथा - अनुमते: स्वामित्वस्य वर्गस्य च परिवर्तनम् |
15:26 | सञ्चिकाया: inode, soft ,hard link च इत्यस्य विषये अपि पठितम् |
15:31 | अत्र पाठ: असौ समाप्यते |
15:35 | Spoken Tutorial इति Talk to a Teacher- प्रकल्प-भाग: ,स: National Mission on Education through ICT इत्यनेन साहाय्यीकृत: |
15:44 | अस्य अधिक-ज्ञानम् अस्मिन् संधाने उपलभ्यते |
15:50 | एतत्-पाठ-अनुवादकर्त्री इयं नन्दिनी IIT - मुम्बयीत: आपृच्छते भवन्तं , संपर्कार्थं धन्यवादा: ! |