Linux/C2/Basics-of-System-Administration/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 नमस्ते, Basics of System Administration in Linux इत्याख्ये spoken tutorial मध्ये भवतां स्वागतम्।
00:09 अस्मिन् पाठे वयम् अधोनिर्दिष्टान् अंशान् ज्ञास्यामः।
00:13 Adduser,Su
00:16 Usermod,Userdel
00:18 Id,Du
00:20 Df
00:22 अहम् Ubuntu 10.10 इति तन्त्रांशम् उपयुञ्जानः अस्मि।
00:27 पूर्वसिद्धतानिमित्तं कृपया ‘General Purpose Utilities in Linux’ इति पाठं पश्यन्तु।
00:35 यच्च अस्मिन् जालपुटे उपलभ्यम् अस्ति।
00:39 दर्शितानाम् आदेशानां चालनाय admin प्रवेशार्हता भवेत्।
00:47 अधुना प्राथम्येन नवीनोपयोक्ता (new user) कथं सर्जनीयः इति ज्ञास्यामः।
00:53 ‘adduser’ इति आदेशः अस्मभ्यं नवीनोपयोक्तृसंज्ञां (new user login) प्रमाणीकृत्य स्रक्ष्यति।
01:01 वयम् ‘sudo’ आदेशस्य साहाय्येन काञ्चित् उपयोक्तृसंज्ञां (user account) संयोक्तुं शक्नुमः।
01:06 अधुना अहम् ‘sudo’ आदेशम् अधिकृत्य सङ्क्षिप्तं विवृणोमि।
01:11 ‘sudo’ इति आदेशः प्राशासनिकोपयोक्त्रे (administrative user) अध्युपयोक्ता (super user) इव आदेशचालनाय अनुमतिं यच्छति।
01:19 ‘sudo’ इति आदेशे बहवः विकल्पाः सन्ति। वयं तान् विकल्पान् अग्रे अस्मिन् एव पाठे ज्ञास्यामः।
01:27 अधुना नवीनोपयोक्ता कथं स्रष्टव्यः इति ज्ञास्यामः।
01:32 कीलफलके (Keyboard) Ctrl, Alt, t इति त्रयमपि समानकाले नोदनेन ‘Terminal’ उद्घाटयन्तु।
01:45 अहम् एतावता एव अत्र ‘Terminal’ उद्घाटितवान् अस्मि।
01:49 अत्र ‘sudo space adduser’ इति टङ्कयित्वा Enter नुदन्तु।
01:58 तदा भवान् कूटशब्दनिमित्तं सूचितः भवति।
02:01 अहमत्र ‘Admin’ इत्यस्य कूटशब्दं (password) दत्वा enter नुदामि।
02:07 टङ्कितकूटशब्दः अदृश्यरूपेण भवति।
02:11 अतः अस्माभिः जागरूकतया कूटशब्दः टङ्कनीयः।
02:16 यदा enter नुदामः तदा “adduser: Only one or two names allowed” इति सन्देशः दृश्यते।
02:27 अधुना ‘duck’ नाम्ना कञ्चन नवीनोपयोक्तारं सृजामः।
02:34 अधुना आदेशं टङ्कयन्तु :-
02:36 ‘sudo space adduser space duck’ इति टङ्कयित्वा Enter नुदन्तु।
02:45 इदानीं वयम् ‘duck’ नाम्ना नवीनोपयोक्तारं सृष्टवन्तः।
02:49 एवं नवीनोपयोक्तृसर्जनसमये पृथक्तया उपयोक्तृसम्बद्धं किञ्चन ‘home’ directory इति स्वयं सृष्टं भवति।
02:58 अत्र अवधेयः अंशः नाम अधुना वयम् ‘duck’ इति उपयोक्त्रे नवीनकूटशब्दनिमित्तं सूचिताः भवामः।
03:05 स्वेष्टं कूटशब्दं टङ्कयन्तु, अहं तु ‘duck’ इति कूटशब्दं टङ्कयित्वा Enter नुदामि।
03:17 कृपया नवीनकूटशब्दं पुनः टङ्कयन्तु।
03:20 एवं सुरक्षानिमित्तं दृढीकरणनिमित्तं च कूटशब्दः वारद्वयं पृच्छ्यते।
03:26 अधुना अस्माकं नवीनोपयोक्तुः नवीनकूटशब्दः संस्थापितः अभवत्।
03:31 वयमत्र अधिकविवरणार्थम् अपि पृष्टाः भवामः।
03:35 परं समयाभावात् अहं केवलम् ‘Full Name’ निमित्तम् ‘duck’ इति पूरयित्वा अन्यविवरणस्थानानि enter नोदनेन रिक्तं स्थापयामि।
03:46 Enter,अहम् ‘y’ इति नोदनेन एतत्सर्वं दृढीकरोमि।
03:51 एतत् सर्वविवरणं समीचीनम् अस्ति इति दृढतायै अस्ति।
03:55 अधुना परीक्षामहे यत् उपयोक्तृसंज्ञा सृष्टा उत न इति।
04:00 परीक्षणार्थं कृपया आदेशसंसूचके (command prompt)
04:04 ‘ls space /(slash) home’
04:09 इति टङ्कयित्वा enter नुदन्तु।
04:11 Home folder मध्ये कति उपयोक्तारः सन्ति इति दर्शयितुम् ‘ls’ आदेशः उपयुक्तः भवति।
04:17 अपि च अत्र अस्ति अस्माकं नूतनतया निर्मितः ‘duck’ इति उपयोक्ता।
04:23 अधुना अवसर्पिणीं (slides) प्रति गच्छामि।
04:26 अधुना अपरः आदेशः अस्ति ‘su’ इति।
04:30 ‘su’ इति आदेशः ‘Switch User’ निमित्तम् अस्ति।
04:34 एषः आदेशः प्रसक्तोपयोक्तुः अपरोपयोक्तारं प्रति गन्तुम् उपयुज्यते।
04:39 अधुना terminal इत्यत्र गच्छामः।
04:43 अत्र आदेशं लिखन्तु :-
04:45 ‘su space hyphen space duck’ इति टङ्कयित्वा Enter नुदन्तु।
04:53 अधुना भवान् कूटशब्दनिमित्तं पृष्टः भवति।
04:56 अहमत्र duck इति उपयोक्तुः कूटशब्दं टङ्कितवान्। सः ‘duck’ इत्येव इत्येतत् स्मरन्तु।
05:04 कृपया अवधानं कुर्वन्तु, terminal इत्येतद् पुरातनोपयोक्तृतः नूतनोपयोक्तारं प्रति परिवर्तनं करोति। अस्मिन् उदाहरणे ‘duck’ इति नूतनोपयोक्ता अस्ति।
05:14 एतस्याः उपयोक्तृसंज्ञायाः बहिः निर्गन्तुं  :-
05:17 ‘logout’ इति टङ्कयित्वा enter नुदन्तु।
05:22 अधुना terminal ‘duck’ नाम्न्याः प्रसक्तोपयोक्तृसंज्ञातः निर्गत्य ‘vinhai’ नाम्न्यां पुरातनायाम् उपयोक्तृसंज्ञायां प्रविष्टं भवति।
05:31 अधुना ‘usermod’ इति आदेशस्य विषये ज्ञास्यामः।
05:35 ‘usermod’ इति आदेशः
05:37 अध्युपयोक्तारं (super user) अथवा मूलोपयोक्तारं (root user) अन्योपयोक्तॄणां व्यवस्थापरिवर्तने सक्षमं करोति।
05:46 यथा- ‘password’ इत्येतं ‘no password’ अथवा ‘empty password’ इति रूपेण परिवर्तनार्थम्।
05:50 यस्मिन् दिनाङ्के उपयोक्तृसञ्ज्ञा अक्षमा क्रियते तस्य दिनाङ्कस्य दर्शनार्थं च ।
05:55 अधुना इममादेशं प्रयुज्य पश्यामः।
05:59 अधुना अहम् duck नाम्न्याः उपयोक्तृसंज्ञायाः अन्तिमदिनाङ्कः कथं द्रष्टव्यः इति दर्शयामि।
06:05 आदेशसंसूचके (command prompt)-
06:09 sudo space usermod space –(hyphen) e space 2012 –(hyphen) 12 –(hyphen)27 space duck इति टङ्कयित्वा
06:33 enter नुदन्तु।
06:37 उपर्युक्तस्य आदेशस्य –e इति विकल्पस्य साहाय्येन उपयोक्तृसञ्ज्ञायाः अन्तिमदिनाङ्कः निश्चितः भवति।
06:46 अधुना भवन्तः duck इति उपयोक्तृसंज्ञायै अन्तिमदिनाङ्कस्य निर्धारणं कृतवन्तः।
06:52 अधुना ‘uid’ अपि च ‘gid’ इति आदेशद्वयस्य विषये चिन्तयामः।
06:57 ‘id - .......’ इति आदेशः सर्वेषाम् उपयोक्तॄणां गुम्फानां च अभिज्ञानम् कर्तुम् उपयुज्यते।
07:04 उपयोक्तारं अभिज्ञातुं वयम् ‘id space – (hyphen) u’ इति आदेशं उपयुञ्ज्महे।
07:12 समूहोपयोक्तॄन् अभिज्ञातुं वयम् ‘id space – (hyphen) g’ इति आदेशं उपयुञ्ज्महे।
07:20 अधुना प्रयोगं करवाम।
07:22 Terminal इत्यत्र 'id' इति टङ्कयामः :-
07:25 अपि च enter नुदामः।
07:29 अधुना उपयुज्यमाने उपकरणे उपयोक्तुः id अपि च समूहस्य id द्रष्टुं शक्नुमः।
07:37 केवलम् उपयोक्तुः id प्राप्तुं वयम् ‘– (hyphen)u’ इति आदेशम् उपयुञ्ज्महे।
07:43 अधुना ‘id space –(hyphen)u’ इति आदेशं टङ्कयित्वा,
07:49 enter नुदामः।,अधुना वयं केवलम् उपयोक्तॄणाम् id द्रष्टुं शक्नुमः।
07:55 परमस्माभिः उपयोक्तुः नाम ज्ञातुं किं करणीयम्?
08:00 नाम ज्ञातुम्,
08:02 Terminal मध्ये ‘id space –(hyphen)n space –(hyphen)u’ इति टङ्कयित्वा enter नुदामः।
08:13 अधुना वयम् उपयोक्तुः id स्थाने तेषां नामानि द्रष्टुं शक्नुमः।
08:20 इदानीं समूह id कृते आदेशान् अधिगच्छामः।
08:24 अधुना ‘id space –(hyphen)g’ इति टङ्कयामः।
08:29 अत्र वयं समूह id दृष्टुं शक्नुमः।
08:32 यदि वयं सर्वेषां प्रसक्तोपयोक्तॄणां समूहम् अभिज्ञातुम् इच्छामः तर्हि,
08:38 ‘id space –(hyphen) (बृहदक्षरेण)G’ इति टङ्कयित्वा enter नुदन्तु।
08:46 कृपया अवधानं यच्छन्तु यत् अहं G इति बृहदक्षरेण एव लिखितवान् इति।
08:50 परिणामं स्वयमेव पश्यन्तु।
08:53 अधुना वयम् उपयोक्तृसंज्ञायाः नाशनम् (delete) कथं करणीयम् इति ज्ञास्यामः।
08:57 एतन्निमित्तं वयम् ‘userdel’ इति आदेशम् उपयुञ्ज्महे।
09:00 वयम् ‘userdel’ आदेशद्वारा उपयोक्तृसंज्ञां शाश्वतरूपेण नाशयितुं शक्नुमः।
09:07 अधुना आदेशमिमं प्रयुञ्ज्महे।
09:09 अत्र ‘sudo space userdel space –(hyphen)r space duck’ इति टङ्कयन्तु।
09:22 अहम् ‘-(hyphen)r’ इति विकल्पम् उपयुक्तवान् अस्मि।
09:25 एतत् home directory इत्यनेन सह उपयोक्तुः निष्कासनार्थम् उपयुज्यते।
09:30 अधुना enter नुत्त्वा पश्यन्तु किम् भविष्यति इति।
09:34 अधुना duck इति उपयोक्ता नाशितः।
09:38 अधोनिर्दिष्टस्य टङ्कनेन इदं परीक्षयन्तु,
09:41 ‘ls space /(slash)home’ अपि च enter नुदन्तु।
09:47 वयम् अत्र duck इति उपयोक्तृसंज्ञा नष्टा (delete) इति द्रष्टुं शक्नुमः।
09:53 अधुना वयं slides प्रति गच्छामः।
09:56 Linux System Administration इत्यत्र उपयोगकरादेशौ नाम ‘df’ आदेशः ‘du’ आदेशः च।
10:03 ‘df’ इति आदेशः disc मध्ये उपलभ्यमानरिक्तस्थानस्य विषये ज्ञापयति।
10:08 अपि च ‘du’ इति आदेशः disc मध्ये सञ्चिकया आक्रान्तस्य स्थानस्य विषये ज्ञापयति।
10:13 कृपया एतौ द्वौ अपि आदेशौ उपयुज्य तस्य प्रयोजनं स्वयं पश्यन्तु।
10:19 अधुना terminal प्रति गच्छाम।
10:26 कृपया ‘df space –(hyphen)h’ इति टङ्कयित्वा enter नुदन्तु।
10:33 एषः अत्र filesystem इत्यस्य परिमाणम् (size) अपि च तेन उपयुक्तावकाशस्य विषये दर्शयति।
10:38 पठनयोग्यरीत्या आरोपितावकाशम् अपि दर्शयति।
10:46 अधुना ‘du’ इति आदेशेन सह कतिचन विकल्पान् पश्यामः।
10:50 इदानीम् अहं चिन्तयामि यत् एतावता एव भवन्तः भवतां home page मध्ये कतिचन text files सृष्टवन्तः इति।
10:57 यदि न सृष्टवन्तः तर्हि कृपया ‘General Purpose Utilities in Linux’ इति अनुशिक्षणं पश्यन्तु।
11:04 अहम् मम home directory मध्ये कतिचन text files सृष्टवान् अस्मि आदेशान् चालयितुम्।
11:11 home folder गन्तुं terminal मध्ये,
11:15 ‘cd space /(slash) home’ इति टङ्कयित्वा enter नुदन्तु।
11:20 तदनन्तरम् du space –(hyphen)s space *.(astrix) dot txt इति टङ्कयित्वा enter नुदन्तु।
11:33 एषः आदेशः सन्धारिकायां (directory) विद्यमानानाम् txt files इत्येतेषां विवरणं सञ्चिकापरिमाणसूचनया सह भवतां कृते प्रयच्छति।
11:43 अभ्यासत्वेन आदेशफलके एवं टङ्कयन्तु,
11:47 ‘du space –(hyphen)ch space*.(astrix dot) txt’ इति, अनन्तरं पश्यन्तु किं भवति।
11:59 अधुना अहम् slides प्रति गच्छामि।
12:01 सङ्क्षिप्ततया वक्तव्यं चेत् एतावता,
12:03 नूतनोपयोक्तारं स्रष्टुम् ‘adduser’ इति आदेशः
12:06 एकस्मात् अपरोपयोक्तारं प्रति गन्तुम् ‘su’ इति
12:09 उपयोक्तृसंज्ञाव्यवस्था-(setting)-परिवर्तनार्थम् ‘usermod’ इति
12:12 उपयोक्तृसंज्ञानाशनार्थम् ‘userdel’ इति
12:15 उपयोक्तॄणाम् id समूहस्य id इत्यनयोः विषये ज्ञातुम् ‘id’ इति
12:20 File system इत्यस्य परिमाणं तस्मिन् उपलभ्यतां च ज्ञातुम् ‘df’ इति
12:24 File इत्यनेन कियत् स्थानम् आक्रान्तमस्ति इति ज्ञातुम् ‘du’ इति आदेशः च उपयोक्तव्यः इति ज्ञातवन्तः
12:27 अत्र “Basics of system administration” इत्यसौ पाठ: समाप्यते।
12:33 अधोनिर्दिष्टे जालपुटे उपलभ्यं चलच्चित्रम्
12:37 Spoken tutorial परियोजनां साररूपेण दर्शयति।
12:40 यदि भवान् सम्यक् द्रष्टुं न शक्नोति तर्हि चलच्चित्रं अवतारयितुं शक्नोति।
12:44 वयम् spoken tutorial उपयुज्य कार्यशालां चालयामः। online परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रम् अपि दद्मः। कृपया अधिकविवरणार्थम् अस्माकं संपर्कं करोतु।
12:53 spoken tutorial इत्येतत् ‘talk to a teacher’ इत्यस्य प्रकल्पस्य भागः अस्ति। असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: अस्ति।
13:03 अधिकविवरणं जालपुटेऽस्मिन् उपलभ्यते।
13:08 अस्याः प्रतेः अनुवादकः प्रवाचकः च वासुदेवः आपृच्छति।

Contributors and Content Editors

Gaurav, PoojaMoolya, Sakinashaikh, Vasudeva ahitanal