Linux-Old/C2/Ubuntu-Software-Center/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:00 | Ubuntu Software Center. इत्यस्य Spoken Tutorial मध्ये स्वागतम् |
00:04 | पाठे अस्मिन् वयं पठिष्याम: Ubuntu Software Center, इत्यस्य उपयोगं , तथैव तद्द्वारा |
00:09 | तन्त्रांशस्य अवारोपणं , संस्थापनं , नवीकरणं , निष्कासनं च |
00:16 | किन्तु किं नाम Ubuntu Software Center ? |
00:18 | इदं किञ्चित् उपकरणं यत् भवन्तं Ubuntu प्रणाल्यां तन्त्रांशं व्यवस्थापयितुं अनुमनुते |
00:23 | तन्त्रांशं अन्वेष्टुं , अवारोपयितुं , संस्थापयितुं , नवीकर्तुं , निष्कासयितुं वा अस्य उपयोग: शक्य: |
00:30 | Ubuntu Software Center प्रत्येकं तन्त्रांशस्य कृते पुनरीक्षणस्य मूल्याङ्कनस्य च सूचिं करोति |
00:36 | इत्थं भवान् तन्त्रांशस्य उपयोगात् पूर्वं तस्मिन् विषये जानीयात् |
00:41 | इदं तन्त्रांश-इतिहासमपि रक्षति |
00:45 | पाठे अस्मिन् वयं Ubuntu Software Center निमित्तं Ubuntu - संस्करणं 11.10 उपयुञ्ज्महे |
00:52 | पाठस्य आरम्भार्थं , |
00:54 | भवान् अन्तर्जालेन संयुक्त: स्यात् |
00:56 | तन्त्रांशं संस्थापयितुं भवान् प्रणाली-प्रशासक: स्यात् अथवा भवत: प्रशासकीय-अधिकारा: स्यु: |
01:04 | स्वस्य Launcher - त: Ubuntu Software Center - चित्रकं नुदतु |
01:08 | Ubuntu Software Center - गवाक्ष: आविर्भवति |
01:12 | गवाक्षे उपरितन-वामभागे सर्वे संस्थापित-तन्त्रांशा: इतिहास-पिञ्जा: च दृश्यन्ते |
01:19 | उपरितन-दक्षिण-कोणे च अन्वेषण-पिटक: दृश्यते |
01:23 | Ubuntu Software Center - गवाक्ष: भाग-द्वये विभक्त: अस्ति |
01:28 | वाम-भागे तन्त्रांश-वर्गाणाम् आवलि: दृश्यते |
01:33 | दक्षिण-भाग: What’s New, Top Rated च दर्शयति |
01:38 | What’s New भाग: नाविन्येन सृष्टं तन्त्रांशं सूचिबद्धं करोति |
01:42 | Top Rated भाग: येषां उपयोग: आधिक्येन भवति ये च आधिक्येन अवारोप्यन्ते तेषां तन्त्रांशानाम् आवलिं दर्शयति |
01:51 | अथ वर्गश: तन्त्रांशस्य गवेषणं कुर्म: |
01:55 | वामभागे Internet. इत्यत्र नुदतु |
01:58 | अन्तर्जाल -वर्गस्य कृते top rated तथैव अन्तर्जाल- तन्त्रांशानाम् आवलि: दृश्यते |
02:05 | पश्यतु यत् कतिनाञ्चन तन्त्रांशानां कृते अङ्कित-चिह्नेन सह एकं वर्तुलं दत्तम् अस्ति |
02:10 | अनेन ज्ञायते यत् तन्त्रांश: आदावेव भवत्-सङ्गणके संस्थापितम् अस्ति |
02:15 | अन्तर्जाल-वर्गे इतोऽपि अन्य-तन्त्रांशं द्रष्टुं All icon इत्यत्र नुदतु |
02:21 | अन्तर्जाल-वर्गस्य कृते उपलब्धा: सर्वे तन्त्रांशा: गवाक्षे सूचिबद्धा: सन्ति |
02:26 | भवान् नाम्ना , Top rated इत्यनेन , नवीनतमेन वा तन्त्रांशं वर्गीकर्तुं शक्नोति |
02:32 | उपरिष्टात् दक्षिण-कोणे अधोगमं बाणं नुदतु |
02:36 | आवलित: Top Rated. चिनोतु |
02:40 | अन्तर्जाल-तन्त्रांश: मूल्याङ्कनानुसारं वर्गीक्रियते |
02:45 | भवत् -सङ्गणके संस्थापित-तन्त्रांशानाम् आवलिं द्रष्टुं |
02:50 | Installed इति पिञ्जं नुदतु |
02:53 | तन्त्रांश-वर्ग: दृश्यते |
02:56 | लघु-त्रिकोणाकारकं पिञ्जं नुदतु यत् Sound , Video च इत्यनयो: पुरत: अस्ति |
03:02 | भवत्-सङ्गणके ध्वनि-चलत्-चित्रयो: कृते संस्थापित-तन्त्रांशानाम् आवलि: दृश्येत |
03:08 | All Software नुदाम: drop-down त: च Provided by Ubuntu चिनुम: |
03:14 | Ubuntu द्वारा प्रदत्ता: सर्वे तन्त्रांशा: सूचिबद्धा: भवन्ति . |
03:19 | अधुना VLC media player. इति तन्त्रांशं संस्थापयाम: |
03:24 | गवाक्षे उपरितन- दक्षिण-कोणस्थ -अन्वेषण-पिटके टङ्कयतु - VLC |
03:29 | VLC media player दृश्यते |
03:33 | अधुना Install. इत्यत्र नुदतु |
03:35 | Authentication इति संवाद-पिटक: उद्भवति |
03:38 | भवत: प्रणाली - शब्दकूटं ददातु |
03:42 | Authenticate. इत्यत्र नुदतु |
03:44 | progress bar पश्यतु , येन VLC संस्थाप्यमानमस्ति इति ज्ञायते |
03:50 | तन्त्रांशानां आकारानुसारं संख्यानुसारं च तत्-संस्थापनार्थं न्यून: अधिक: वा समय: आवश्यक: |
03:57 | तत्-प्रगति: च उपरितन-पिञ्जेन निर्दिश्यते. |
04:02 | संस्थापन -काले भवान् अन्यानि applications द्रष्टुं शक्नोति |
04:07 | VLC इत्यस्मिन् संस्थापिते सति ,VLC. इत्यत्र लघु हरित-चिह्नं दृश्यते |
04:13 | दक्षिण-भागे च Remove इति पिञ्ज: उद्भूत: भवति |
04:17 | यदि भवान् VLC, निष्कासयितुम् इच्छति तर्हि Remove इति पिञ्जं नोदनीयम् |
04:23 | इत्थं भवान् अन्यान् सर्वान् तन्त्रांशान् अन्वेष्टुं संस्थापयितुं च शक्नोति |
04:29 | अधुना तावत् इतिहासं पश्याम: |
04:31 | अनेन तन्त्रांशस्य संस्थापनं , नवीकरणं ,निष्कासनं च इति इमानि |
04:37 | अस्माभि: कृतानि परिवर्तनानि ज्ञायन्ते |
04:40 | History. इत्यत्र नुदतु , History इति संवाद-पिटक: उद्भवति |
04:45 | भवान् All Changes, Installations, Updates, Removals. च इति एभि: भवत्-इतिहासं परीक्षितुं शक्नोति |
04:51 | All Changes. इत्यत्र नुदतु |
04:53 | कृतानां समेषां परिवर्तनानाम् आवलि: दृश्यते यथा संस्थापनं , नवीकरणं ,निष्कासनं च |
05:01 | भवान् संस्थित-तन्त्रांशं नियतरूपेण नवीकर्तुम् अपि शक्नोति |
05:07 | भवान् Ubuntu इत्यस्य जालपुटे Ubuntu and the Ubuntu Software Center विषये अधिकं ज्ञानं प्राप्तुं शक्नोति |
05:17 | अत्र Ubuntu Software Center. इत्यसौ पाठ: समाप्यते |
05:21 | पाठे अस्मिन् अस्माभि: Ubuntu Software Center. इत्यस्य उपयोग: पठित: |
05:26 | Ubuntu - प्रणाल्यां तन्त्रांशस्य अवारोपणं , संस्थापनं , नवीकरणं , निष्कासनं कथं करणीयम् इत्यपि पठितम् |
05:36 | अत्र अस्ति भवत्-निमित्तं परीक्षा ! |
05:39 | Ubuntu Software Center. प्रयुज्य Thunderbird अवारोपयतु संस्थापयतु च |
05:46 | अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
05:49 | इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
05:52 | यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
05:57 | spoken tutorial प्रकल्प-गण: |
05:59 | spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
06:02 | online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
06:06 | कृपया अधिकज्ञानार्थं contact@spoken hyphen tutorial dot org संपर्कं करोतु |
06:12 | Spoken Tutorial -प्रकल्प: Talk to a Teacher - प्रकल्पभाग: |
06:17 | असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
06:24 | अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org |
06:28 | slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
06:35 | एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत:, संपर्कार्थं धन्यवादा: |