LibreOffice-Writer-on-BOSS-Linux/C4/Creating-Newsletter/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 लिब्रे आफीस् रैटर् मध्ये विविधस्तम्भपङ्क्तिषु (Column) वृत्तपत्राणां (News Letter) रचनाविषयकेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
00:07 पाठेऽस्मिन् वयं लिब्रे आफीस् रैटर् मध्ये वृत्तपत्रं कथमारचनीयं तत्रस्थानि कतिचन कार्याचरणानि च ज्ञास्यामः।
00:17 अत्र वयम् GNU लिनक्स् अपि च लिब्रे आफीस् सूट् 3.3.4 इत्येतयोः उपयोगं कुर्मः।
00:27 वृत्तपत्रमिति किञ्चन प्रकाशनम् अस्ति यच्च ग्राहकेभ्यः नियमितसमयावधौ वितीर्यते। उदाहरणार्थम्, नियतकालिकाः, करपत्राणि इत्यादीनि।
00:39 अस्मिन्, विविधस्तम्भपङ्क्तयः भवन्ति येन पाठकाः विविधविभागेषु विद्यमानान् लेखान् सरलतया पठितुं शक्नुवन्ति।
00:47 लिब्रे आफीस् रैटर् द्वारा वयं तादृशानि वृत्तपत्राणि आरचयितुं शक्नुमः येषु सरलतया वेगेन च पठितुं योग्याः लेखाः भवन्ति।
00:55 अधुना क्रमशः “File”, “New” अपि च “Text Document” विकल्पान् नुत्त्वा नूतनसञ्चिकाम् उद्घाटयन्तु।
01:03 इमां सञ्चिकां “Newsletter” इति नाम्ना रक्षन्तु।
01:13 अधुना अस्मत्सविधे “Newsletter” इति नाम्ना नूतनसञ्चिका अस्ति।
01:17 अधुना अस्माकं सञ्चिकायां स्तम्भपङ्क्तीः योजयामः।
01:20 एवं योजयितुं प्रथमं मेन्युबार- मध्ये “Format” पिञ्जं नुत्वा अनन्तरं “Columns” इत्यत्र नुदन्तु।
01:27 विविधविकल्पयुता काचित् संवादपेटिका दृश्यते।
01:31 भवदीष्टस्तम्भपङ्क्तीः चेतुम्,
01:34 तासां वैशाल्यं स्थानं च व्यवस्थापयितुम्,
01:37 विभाजकरेखायाः विविधलक्षणानि व्यवस्थापयितुं च अस्यां पेटिकायां बहवः विकल्पाः वर्तन्ते।
01:42 वयं Columns इत्यत्र मौल्यं 2 इति व्यवस्थापनेन अस्यै सञ्चिकायै स्तम्भद्वयं चिनुमः।
01:49 column इत्यस्य पार्श्वस्थानि चित्रकानि स्तम्भस्य विविधशैलीः प्रदर्शयति।
01:56 अत्र द्वितीयशैलीं चिनुमः,
01:59 अपि च अवशिष्टलक्षणानां मौल्यानि औत्सर्गिकरूपेणैव स्थापयामः,
02:05 अपि च “OK” पिञ्जं नुदामः।
02:08 पश्यन्तु, लेखस्थाने स्तम्भद्वयं दृश्यते।
02:12 वयं प्रथमस्तम्भे लेखनं लिखामः।
02:15 एतस्मै “Nature” इति शीर्षकं दत्वा इदं बोल्ड कृत्वा अक्षराकृतिं 15 इति वर्धयामः,
02:21 अपि च शीर्षकस्याधः तत्सम्बद्धलेखनं लिखामः।
02:25 अत्र अवधीयताम्, कर्सर इति प्रथमस्तम्भस्य अन्तं यदा प्राप्नोति तदा स्वयं द्वितीयस्तम्भं प्रति गच्छति।
02:33 भवन्तः स्तम्भस्यास्य अन्तः चित्राणि योजयित्वा तच्चित्राणि स्तम्भाकृत्यनुगुणं व्यवस्थापयितुं शक्नुवन्ति।
02:39 अधुना अत्र किञ्चित् स्थानं त्यक्त्वा अस्मिन् स्तम्भे अपरं लेखनं लेखितुं शक्नुवन्ति।
02:46 वयमधुना बोल्ड अक्षरैः 15 अक्षराकृत्यां च “Sports” इति शीर्षकं लिखित्वा तस्याधः लेखनं लिखामः।
02:56 एवं, लेखनद्वयं एकवारमेव पठितुं स्तम्भाः साहाय्यं कुर्वन्ति।
03:02 अधुना कतिचन वाक्यानि वयं निष्कासयामः येन च अस्माकं लेखनं प्रथमसम्भे एव समाप्तिमेष्यति।
03:08 अनन्तरम्, अग्रिमसम्भाय गन्तुं “Insert” पिञ्जस्योपरि नुत्वा तत्र “Manual Break” उपरि नुदन्तु।
03:16 अधुना दृश्यमानायां संवादपेटिकायां “Column break” इत्यत्र नुत्वा “OK” नुदन्तु।
03:23 अधुना कर्सर स्वयम् अग्रिमस्तम्भाय गतं इति वयं पश्यामः।
03:27 अधुना भवन्तः अपरं लेखनं लेखितुं शक्नुवन्ति।
03:31 लेखमिमं वयं,
03:33 “Align left”, “Align right”,
03:36 लेखस्य कृते “Background Color” योजनं अपि च
03:38 लेखनं Highlight करणं इत्यादिभिः प्रकारैः आकर्षकं कर्तुं शक्नुमः।
03:45 उदाहरणार्थं, वयं ब्याक् ग्रौंड् वर्णं स्थापयितुं लेखस्य किञ्चन भागं चिनुमः।
03:51 अधुना “Background Color” इति चित्रकस्योपरि नुत्वा तत्र “Green 4” इति चिन्वन्तु।
03:59 पश्यन्तु, चितलेखभागः हरितवर्णे परिवृत्तः अस्ति।
04:05 एवमेव, लेखस्य अन्यान्यभागेभ्यः अन्यान्यवर्णं दातुं शक्नुवन्ति।
04:10 भवन्तः वृत्तपत्रे ब्यानर अपि योजयितुं शक्नुवन्ति। तन्निमित्तं, ड्रायिंग टूलबार् मध्ये “Text” इति विकलस्योपरि नुदन्तु।
04:18 अधुना टेक्स्ट् बाक्स् इत्येतत् सञ्चिकायां रिक्तस्थाने स्थापयन्तु।
04:24 टेक्स बाक्स् इत्यस्यान्तः ब्यानर् इव अथवा विज्ञापनवत् दृश्यमानं यत्किमपि लेखनं लिखन्तु।
04:30 अत्र वयं “This is a newsletter” इति लिखामः।
04:35 भवन्तः लेखस्यास्य कृते विशिष्टप्रभावान् अपि योजयितुं शक्नुवन्ति।
04:37 उदाहरणार्थम्, प्रथमं टेक्स्ट् बाक्स् उपरि रैट् क्लिक् कुर्वन्तु अनन्तरं मेन्यु मध्ये “Text” इति विकल्पस्योपरि नुदन्तु।
04:45 काचित् संवादपेटिका दृश्यते यत्र “Text” अपि च “Text Animation” इति द्वे ट्याब् भवतः।
04:50 “Text Animation” इति ट्याब् उपरि नुदन्तु।
04:53 अत्र अधः “Effects” इत्यत्र बहवः विकल्पाः सन्ति।
04:58 वृत्तपत्रे अस्माकं लेखनं यदि चकासनीयं तर्हि वयं “Blink” इति विकल्पं चिनुमः।
05:04 अनन्तरं “OK” नुदन्तु।
05:07 पश्यन्तु, “This is a newsletter” इति लेखः निरन्तरं चकासते।
05:13 एवमेव, एतादृशान् बहून् प्रभावान् ग्राफिक् इत्येतान् अपि लेखाय दातुं शक्नुमः।
05:18 अधुना अग्रिमपुटे नूतनलेखनं लेखितुं “Insert” पिञ्जस्योपरि नुदन्तु।
05:25 अनन्तरं “Manual Break” विकल्पस्योपरि नुदन्तु।
05:29 अधुना दृशमानायां संवादपेटिकायां “Page break” पिञ्जस्योपरि नुदन्तु।
05:34 अनन्तरं “OK” पिञ्जस्योपरि नुदन्तु।
05:37 पश्यन्तु, कर्सर अग्रिमपुटाय आगतम्।
05:40 अस्मिन् अपि पुटे पूर्वतनपुटवत् स्तम्भशैली वर्तते।
05:46 भवतां लेखने विद्यमानानां शब्दानां गणानां कर्तुं प्रथमं भवतां लेखनस्य कञ्चन भागं सम्पूर्णसञ्चिकां वा चिन्वन्तु।
05:53 अधुना मेन्युबार मध्ये “Tools” इति विकल्पस्योपरि नुदन्तु।
05:57 अधुना ड्राप्डौन् पेटिकायां “Word Count” इति विकल्पस्योपरि नुदन्तु।
06:02 अधुना दृश्यमानायां संवादपेटिकायां भवता चितभागे सम्पूर्णसञ्चिकायां वा विद्यमानशब्दानां गणना दृश्यते।
06:10 एतस्यां, चितभागे सम्पूर्णसञ्चिकायां वा विद्यमान-अक्षराणां गणना अपि दृश्यते।
06:18 अक्षरपरिशीलनमिति यदा भवन्तः सञ्चिकायां टङ्कयन्ति तदा एव भवति।
06:23 टूल बार मध्ये “AutoSpellcheck” इति चित्रकस्योपरि नुदन्तु।
06:27 लेखनटङ्कनसमये यदि अक्षरदोषः भवति तर्हि रैटर् स्वयं दोषयुतशब्दानाम् अधः रक्तरेखां विलिख्य अस्मान् संसूचयति।
06:37 उदाहरणार्थम्, वयं Cat इति पदं यदि “C -A- A -T” इति टङ्कयित्वा स्पेस नुदामः तर्हि तत्पदस्याधः काचित् रक्तरेखा दृश्यते।
06:48 परं यदा वयं तत्पदं परिष्कुर्मः तदा सा रेखा अपगच्छति।
06:52 एवमेव, इतः प्राक् चर्चिताः सर्वे अपि विकल्पाः वृत्तपत्रे अपि अन्विताः भवन्ति।
07:01 एतेन वयम् अस्य पाठस्यान्तं प्राप्तवन्तः।
07:06 सङ्क्षेपेण यदि वक्तव्यम्, एतावता वयं वृत्तपत्रं कथमारचनीयम् अपि च तत्रस्थानि कतिचन कार्याचरणानि ज्ञातवन्तः।
07:17 अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति।
07:24 यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु।
07:28 अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये च आनलैन परीक्षायाम् उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति।
07:38 अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु।
07:44 स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति।
07:56 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
08:07 पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal