LibreOffice-Writer-on-BOSS-Linux/C3/Using-track-changes/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 सर्वेभ्यः नमस्कारः।,लिब्रे आफीस मध्ये सञ्चिकापरिष्करणावसरे ट्र्याक-परिवर्तनविषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
00:09 पाठेऽस्मिन् वयं लिब्रे आफीस रैटर मध्ये सञ्चिकापरिष्करणं कथं भवति इति ज्ञास्यामः।
00:16 अहम्, 'Record Changes' इति विकल्पस्य साहाय्येन सञ्चिकायाः विस्तृतपरिष्करणं कथं करणीयमिति एतावता एव स्थितां सञ्चिकाम् उद्घाट्य विवृणोमि।
00:26 वैशिष्ट्यस्यास्य प्रयोगेन परिशीलनकर्ता टिप्पणीं (Comments) कर्तुं, लेखं योजयितुं, तत्रस्थलेखं नाशयितुं परिवर्तयितुं वा शक्नोति। अपि च एतत्सर्वं तस्यामेव सञ्चिकायां दृश्यते।
00:40 एताः क्रियाः लेखकः सुलभतया दृष्टुं शक्नोति अपि च परिष्कारं स्वीकर्तुं वा निरस्तुं वा शक्नोति। एतेन सर्वं बहुधा परिशीलनीयमिति न भवति।
00:53 अपि च यदा सञ्चिका रक्षिता भवति तदा टिप्पण्यः अपि रक्षिताः भवतिः।
00:57 अतः, अधुना वयम् एतत् कथं कर्तव्यमिति पश्यामः।
01:02 अत्र वयम् अस्माक् आपरेटिंग् सिस्टम् रूपेण GNU लिनक्स अपि च लिब्रे आफीस सूट् 3.3.4 इत्यस्य उपयोगं कुर्मः।
01:10 अस्मिन् पाठे वयं एतावता एव रक्षिते सञ्चिके उपयुञ्ज्महे। ते,
01:16 Seven-reasons-to-adopt-FOSS.odt Government-support-for-FOSS-in-India.odt
01:24 रैटर् इत्यस्य आरम्भार्थं क्रमशः Applications - Office - LibreOffice Writer इत्यत्र नुदन्तु।
01:34 'Seven-reasons-to-adopt-FOSS.odt' इतीमम् उद्घाटयन्तु।
01:41 'Record Changes' इति विकल्पं व्यवस्थापयितुं क्रमशः EDIT अपि च CHANGES इति नुत्वा तत्र Record इति विकल्पं चिन्वन्तु।
01:53 SHOW इति विकल्पमपि चिन्वन्तु। एतेन प्रत्येकमपि परिष्कारः रक्षितः भवति।
02:01 सञ्चिकायां द्वितीयांशं योजयामः।
02:05 वयं द्वितीयांशं गत्वा “Linux is a virus resistant operating system since each user has a distinct data space and cannot directly access the program files” इति टङ्कयामः।
02:36 Enter नुदन्तु, एतेन एतावता एव यः द्वितीयांशत्वेन अस्ति सः तृतीयांशः भवति।
02:42 पश्यन्तु, अधुना अस्माभिः लिखितलेखः अपरवर्णे अस्ति।
02:46 अस्य लेखस्य उपरि मौस स्थापयन्तु। भवन्तः समयदिनाङ्काभ्यां सह “Inserted: sriranjani” इति सन्देशं पश्यन्ति।
02:55 अर्थात्, सञ्चिका, टिप्पणिकर्तॄन् सर्वान् सङृह्णाति इति। अत्र, लिब्रे आफीस् इत्यस्य संस्थापनसमये यत् नाम दत्तं तन्नम दृश्यते।
03:08 प्रथमपङ्क्त्यां “avalable” इत्येतत् परिष्कुर्वन्तु। भवन्तः अत्र परिष्कारं पश्यन्तः सन्ति।
03:17 प्रथमांशे विद्यमानं “It can be installed on all computers without restriction or needing to pay license fees to vendors” इति वाक्यं नाशयन्तु।
03:31 पश्यन्तु, अत्र यत् वाक्यं वयं नाशितवन्तः तत् वाक्यं नष्टं न अभवत्, किन्तु नाशयितुं सूचयन्ती काचित् रेखा दृश्यते।
03:39 अधुना तस्योपरि कर्सर् नयन्तु, अत्र वयं समयदिनाङ्काभ्यां सह “Deleted Ranjani:” इति सन्देशं पश्यामः।
03:49 एवमेव, योजनं, नाशनं, परिवर्तनं इत्यादिभिः द्वारा वयं सञ्चिकामेकां परिष्कर्तुं शक्नुमः।
04:00 एकामेव सञ्चम्काम् अनेके अपि परिष्कर्तुं शक्नुवन्ति।
04:04 LO रैटर प्रत्येकमपि परिष्कारं विविधवर्णैः द्योतयति। एतेन पाठकः विविधविमर्शकान् अभिज्ञातुं शक्नोति।
04:13 परिष्कृतलेखस्य उपरि कर्सर् नयनेनापि वयं परिष्कर्तृनाम दृष्टुं शक्नुमः।
04:19 अहमधुना गुरुः इत्यनेन एतावता एव परिष्कृतां सञ्चिकाम् उद्घाट्य इदं विवृणोमि।
04:27 “Government-support-for-FOSS-in-India.odt” इति लेखसञ्चिकाम् उद्घाटयन्तु।
04:35 अस्यां सञ्चिकायां वयं एतावता एव कृतान् परिष्कारान् दृष्टुं शक्नुमः।
04:42 तेषाम् उपरि कर्सर् नयनेन ते परिष्काराः गुरुः इत्यनेन कृताः इति ज्ञायते।
04:52 अधः अपरमेकम् अंशं एवं योजयन्तु, “CDAC, NIC, NRC-FOSS are institutions of Government of India which develop and promote FOSS”.
05:18 पश्यन्तु, गुरुणा कृतपरिष्काराणां वर्णात्, अधुना कृतपरिष्कारस्य वर्णः भिन्नः अस्ति।
05:24 एतस्य उपरि कर्सर् नयनेन “Inserted: Ranjani” इति सन्देशं वयं पश्यामः।
05:29 एवमेव एकामेव सञ्चिकां बहवः परिष्कर्तुं शक्नुवन्ति।
05:34 एतां सञ्चिकां न रक्षयित्वा पिदधतु।
05:45 अधुना वयं लेखकः विमर्शकेन कृतं परिष्कारं कथं स्विकरोति अथवा तिरस्करोति इति पश्यामः।
05:50 अधुना अहमेव लेखकः इति चिन्तयन्तु, अपि च “Government-support-for-FOSS-in-India.odt” इत्यस्यां सञ्चिकायां गुरुणा कृतान् परिष्कारान् स्वीकुर्मः अथवा तिरस्कुर्मः।
06:12 द्वितीयांशं गत्वा तत्र reasons इति नाशितस्य लेखस्य उपरि रैटक्लिक् कृत्वा तत्र Accept Changes इति चिन्वन्तु।
06:22 पश्यन्तु, विमर्शकेन सूचिता नाशनप्रक्रिया अङ्गीकृता, लेखः नष्टः च।
06:28 needs इति योजितलेखस्य उपरि रैट् क्लिक् कृत्वा Accept Change इति चिन्वन्तु। पश्यन्तु, विमर्शकेन सूचिता योजनप्रक्रिया अङ्गीकृता, लेखः युक्तः च।
06:39 एवं विमर्शकेन सूचितपरिष्काराः स्वीकर्तुं निराकर्तुं वा शक्नुमः।
06:49 प्रथमम् अंशं गत्वा तत्र “The OpenOffice document standard (ODF) has been notified under this policy” इति नाशितलेखस्य उपरि रैट् क्लिक् कृत्वा तत्र Reject change इति चिन्वन्तु।
07:01 एतेन लेखः सामान्यलेखः भवति। अर्थात् विमर्शकेन सूचितं परिवर्तनं तिरस्कृतमिति।
07:09 पञ्चमम् अंशं गत्वा तत्र “Government Schools in these states and in Orissa, Karnataka and Tamil Nadu learn Linux” इति वाक्यस्योपरि रैट् क्लिक् कृत्वा तत्र Reject change इति चिन्वन्तु।
07:24 एतेन विमर्शकेन योजितं वाक्यं नष्टं भवति।
07:27 एवं विमर्शकेन सूचितपरिष्काराः स्वीकर्तुं निराकर्तुं वा शक्नुमः।
07:34 अन्ततः, सर्वविधपरिष्काराणां स्वीकरण-तिरस्करणानन्तरं क्रमशः EDIT अपि च CHANGES इत्यत्र गत्वा तत्र Record अपि च Show इत्येतयोः द्वयोः कृते अपि स्थापितं चिह्नं निष्कासयन्तु।
07:56 यदा चिह्नं निष्कासयामः तदा अग्रिमाः न केऽपि परिष्काराः दृश्यन्ते।
08:00 सकलपरिवर्तनानि परिशील्य सञ्चिकां रक्षन्तु। एतेन विमर्शकस्य सर्वविधटिप्पण्यः सञ्चिकायाम् अन्विताः भवन्ति।
08:09 एतेन वयं अस्य पाठस्यान्तं प्राप्तवन्तः। अन्ते अभ्यासः,
08:16 एकां सञ्चिकाम् उद्घाट्य तत्र Record Changes मोड् मध्ये अक्षरदोषान् सम्यक् कुर्वन्तु।
08:25 अहमत्र एतावता एव अभ्यासं रचितवान् अस्मि।
08:31 अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति।
08:36 यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु।
08:40 अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये च आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति।
08:48 अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु।
08:54 स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति।
09:03 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
09:14 पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal