LibreOffice-Suite-Impress/C2/Inserting-Pictures-and-Objects/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 LibreOffice Impress -चित्रस्य वस्तुन: च निवेशनम् इत्यस्मिन् पाठे स्वागतम् |
00:06 पाठे अस्मिन् पठाम: , प्रस्तुतौ चित्रस्य वस्तुन: च निवेशनं,
00:12 तयो: प्रारूपणं ,
00:15 प्रस्तुतौ , तस्या: बहि: च परिसन्धिनिर्माणं (Hyperlink) , तालिका-निवेशनं च |
00:20 अत्र वयं Ubuntu Linux 10.04 , LibreOffice -सम्पुट-संस्करणं 3.3.4. च उपयुञ्ज्महे |
00:29 जाल-गवेषक-सङ्केत-स्थले , पटले दर्शितं URL टङ्कयतु |
00:34 इदं , चित्रं प्रकटयेत् |
00:37 अधुना चित्रं दक्षिणेन नुदतु , "Save Image As option " चिनोतु |
00:41 एक: संवादपिटक: उद्घटेत् |
00:43 Name - क्षेत्रे , ‘open source -bart.png’ आदावेव दृश्यमानमस्ति |
00:51 अहं Desktop - स्थानं चिनोमि , "Save " -पिञ्जं नुदामि च |
00:59 अस्माकं ‘Sample-Impress’ - प्रस्तुतिम् उद्घाटयाम: , या अस्माभि: पूर्वं रक्षिता आसीत् |
01:04 अधुना वयं पश्याम: , अस्यां प्रस्तुतौ चित्रं कथं निवेशनीयमिति |
01:09 मुख्य - मेनु -त: "Insert " नुदतु ,तत: च "Picture " नुदतु |
01:14 अधुना " From File " - पर्यायं नुदतु |
01:17 एक: संवादपिटक: उद्घटति |
01:19 धारिकां चिनोतु, यस्या: भवान् चित्रं निवेशयतुम् इच्छति |
01:23 अहं Desktop धारिकां चिनोमि |
01:26 अधुना निवेशनार्थम् इष्टं चित्रं चिनोतु , "Open " - पिञ्जं नुदतु च |
01:31 चित्रम् अवसर्पिण्यां निवेशितं भवति |
01:35 परिवर्तनानि अपाकुर्म: |
01:37 चित्र-निवेशनार्थम् अन्यमार्गं प्रदर्शयामि |
01:41 "Insert " तथा च "Slide " नुदित्वा , ‘Overview’ - नाम्न: अवसर्पिण्या: अनन्तरं नूतन-अवसर्पिणीं निवेशयतु |
01:50 " Title " - लेखनपिटकं नुदतु , ‘Open source Funny’ इति शीर्षकं लिखतु |
01:56 केन्द्रभागे चित्रक-चतुष्टय-युत-लघुपिटकं लक्षयतु | इदं " Insert toolbar " अस्ति |
02:03 " Insert toolbar " -त: " Insert Picture " - चित्रकं नुदतु |
02:08 चित्रं चिनोतु , "Open " - पिञ्जं नुदतु च |
02:12 लक्षयतु यत् , निविष्टं चित्रं प्रायश: सर्वाम् अवसर्पिणीं व्याप्नोति |
02:17 भवान् प्रथमं चित्रं नुदित्वा ,नियन्त्रक -बिन्दून् च संपरिवर्त्य चित्रस्य आकारम् आकारमानं च परिवर्तयितुं शक्नोति |
02:27 तथैव , वयम् अस्मत् - प्रस्तुतौ वस्तूनि अपि निवेशयितुं शक्नुम: यथा पटान् चलत्-चित्र-खण्डान् च |
02:35 एता: सर्वा: शक्यता: निरीक्षाताम् |
02:38 अधुना परिसन्धि-निर्माणं पठाम: |
02:41 परिसन्धानं भवन्तम् एकस्या: अन्य-अवसर्पिणीं प्रति गमनं , प्रस्तुतित: जाल-पर्णस्य ,प्रलेखस्य वा उद्घाटनं सहजम् अनुमनुते |
02:49 प्रथमं वयं पश्याम: प्रस्तुत्या सह परिसन्धानं कथमिति |
02:54 "Overview " - नाम्न: अवसर्पिण्या: अनन्तरं नूतन- अवसर्पिणीं निवेशयतु |
03:02 "title" नुदतु, ‘Table of Contents’ इति टङ्कयतु |
03:07 "Body" -लेखनपिटकं नुदतु , उत्तरवर्ति-अवसर्पिणीनां शीर्षकाणि च इत्थं टङ्कयतु -
03:14 Open Source Funny,The Present Situation, Development up to present,Potential Alternatives, Recommendation
03:24 ‘Development up to present’ इति पङ्क्तिं चिनोतु |
03:28 "Insert" तथा च "Hyperlink " नुदतु |
03:31 अनेन परिसन्धि-संवादपिटक: उद्घटेत् |
03:34 वाम-फलके ,‘Document' चिनोतु | तत: ‘Target in document’ क्षेत्रस्य दक्षिणस्थ-पिञ्जं नुदतु |
03:48 अस्यां प्रस्तुतौ विद्यमाना अवसर्पिणीनां सूचि: उद्घटति |
03:53 सूचित: ‘Development upto present’- नाम्न: अवसर्पिणीं चिनोतु |
03:58 एतत् -सूच्यां "Apply " - पिञ्जं नुदतु तत: च " Close " - पिञ्जं नुदतु |
04:04 पुन: परिसन्धि-संवादपिटके "Apply " - पिञ्जं नुदतु , तत: च " Close " - पिञ्जं नुदतु |
04:12 अवसर्पिण्यां कुत्रापि नुदतु |
04:14 अधुना यदा भवान् लेख्योपरि cursor परिसर्पयति, तदा cursor निर्दिशति हस्ते परिवर्तते
04:20 इत्युक्ते परिसन्धानं यशस्वि आसीत् !
04:24 परिसन्धि -युत-लेख्यस्य नोदनं भवन्तं संबद्ध - अवसर्पिणीं प्रति नयति |
04:29 अन्य-प्रलेखं परिसन्धातुं , 'Table of Contents ' - अवसर्पिणीं प्रति गच्छाम: |
04:35 अधुना अन्यं पदं योजयतु - External Document इति |
04:40 पङ्क्तिं चिनोतु,तत: " Insert " तत: च " Hyperlink " नुदतु |
04:45 वामफलके , "Document" चिनोतु |
04:48 प्रलेख - सङ्केत- क्षेत्रस्य दक्षिणे " folder " - चित्रकं नुदतु |
04:55 प्रलेखं चिनोतु यं भवान् परिसन्धातुम् इच्छति |
04:58 वयं 'resume'odt चिनुम: यत् अस्माभि: 'Writer ' - मालिकायां निर्मितमस्ति ," Open " -पिञ्जं नुदतु च |
05:07 "Hyperlink " - संवादपिटके , "Apply " - पिञ्जं नुदतु , तत: च " Close " - पिञ्जं नुदतु |
05:14 अवसर्पिण्यां कुत्रापि नुदतु |
05:17 अधुना यदा भवान् लेख्योपरि cursor परिसर्पयति, तदा cursor निर्दिशति हस्ते परिवर्तते
05:22 इत्युक्ते परिसन्धानं यशस्वि आसीत् !
05:26 परिसन्धि -युत-लेख्यस्य नोदनं भवन्तं संबद्ध - प्रलेखं प्रति नयति |
05:31 अस्मिन् सन्दर्भे , इदम् अस्मान् 'resume.odt ' प्रति नयेत् |
05:36 जाल-पर्णस्य परिसन्धानं यथावत् करणीयम् |
05:40 प्रस्तुते: अन्ते नूतनाम् अवसर्पिणीं निवेशयतु |
05:43 ‘Essential Open Source Software’ -इति इत्थं शीर्षकं परिवर्तयतु |
05:48 "Body " - लेखनपिटके 'Ubuntu Libre Office ' इति टङ्कयतु |
05:53 लेख्ये द्वितीय-पङ्क्तिं चिनोतु , तत: "Insert " तत: च "Hyperlink" नुदतु |
06:00 वाम - फलके , "Internet " चिनोतु |
06:03 Hyperlink type मध्ये "Web" चिनोतु |
06:07 ' Target ' - क्षेत्रे , ‘www.libreoffice.org’ टङ्कयतु |
06:16 'Hyperlink' - संवादपिटके "Apply " - पिञ्जं नुदतु , तत: च "Close " -पिञ्जं नुदतु |
06:23 अवसर्पिण्यां कुत्रापि नुदतु |
06:26 अधुना यदा भवान् लेख्योपरि cursor परिसर्पयति , तदा cursor निर्दिशति हस्ते परिवर्तते |
06:32 इत्युक्ते परिसन्धानं यशस्वि आसीत् !
06:37 अधुना परिसन्धि -युत-लेख्यस्य नोदनं भवन्तं संबद्ध - जालपर्णं प्रति नयेत् |
06:44 पङ्क्ति-स्तंभयो: सामग्रीं व्यवस्थापयितुं तालिका: उपयुज्यन्ते |
06:49 अधुना LibreOffice Impress - मध्ये तालिका कथं निवेशनीया इति पठाम: |
06:54 अवसर्पिणी-फलकात् ‘Development up to the present’ - नाम्न: अवसर्पिणीं चिनोतु |
07:00 Layout section - त: 'Tasks ' - फलके, 'Title and 2 Content'- चित्रकं चिनोतु |
07:07 वाम-भागस्थ- लेखन- पिटके लेख्यं चिनोतु |
07:14 font - आकारं २६ इत्येवं न्यूनीकरोतु |
07:17 दक्षिण-भागस्थ-लेखन -पिटके केन्द्रस्थ - "Insert toolbar " त: ‘Insert Table’ - चित्रकं नुदतु |
07:25 उत्सर्गेण , स्तम्भानां संख्या ५ इति आविर्भवति , पङ्क्तीनां संख्या च २ इति आविर्भवति |
07:33 वयं स्तंभसङ्ख्यां २ , पङ्क्तिसङ्ख्यां ५ इति परिवर्तयाम: |
07:41 "OK " - पिञ्जं नुदतु |
07:44 तालिकां वितनुम: येन लेख्यं पठ्यं भवेत् |
07:49 तालिकायाम् इत्थं सामग्रीं निवेशयतु |
07:51 Implementation Year %
07:56 2006 10%
07:59 2007 20%
08:02 2008 30%
08:05 2009 40%
08:08 अधुना header row इत्यस्य font , स्थूलं कुर्म: | लेख्यं मध्यभागे आनयाम: च |
08:17 तालिकाया: वर्णं परिवर्तयितुं प्रथमं सर्वं लेख्यं चिनोतु |
08:22 'Tasks ' - फलके "Table Design " - त: , तालिका-प्रकारं चिनोतु | अहं एनं चिनोमि |
08:30 पश्यतु , तालिका इदानीं कथं दृश्यते |
08:33 अत्र अस्माकम् इदं tutorial समाप्यते |
08:37 अस्माभि: पठितं संक्षेपेण - चित्राणां निवेशनं तत्-प्रारूपणं च
08:43 प्रस्तुतौ , तस्या: बहि: च परिसन्धिनिर्माणं (Hyperlink) , तालिका-निवेशनं च |
08:49 व्यापक-परीक्षा|
08:53 नूतनां प्रस्तुतिं निर्मातु |
08:55 तृतीय-अवसर्पिण्यां चित्रं निवेशयतु |
08:58 चतुर्थ - अवसर्पिण्यां पङ्क्ति-द्वयस्य स्तम्भ-त्रयस्य च तालिकां निर्मातु |
09:03 तालिकाया: पङ्क्तिस्तंभयो: द्वितीये ‘slide 3’ इति टङ्कयतु | तृतीय- अवसर्पिण्या सह च इदं लेख्यं परिसन्दधातु |
09:14 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
09:17 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
09:20 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
09:25 spoken tutorial गण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
09:30 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
09:34 कृपया अधिकज्ञानार्थं spoken hyphen tutorial dot org संपर्कं करोतु |
09:41 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:
09:46 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
09:53 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
10:05 एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
10:11 संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

Nancyvarkey, PoojaMoolya, Sneha