LibreOffice-Suite-Calc/C2/Working-with-Cells/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 LibreOffice Calc - कक्षै: सह कार्यम् इत्यस्मिन् spoken tutorial मध्ये स्वागतम् |
00:06 अस्मिन पाठे वयं पठाम: -
00:08 spreadsheet मध्ये संख्या:, लेख्यं , लेख्यत्वेन संख्या:, दिनाङ्क: समय: च कथं निवेशनीय: |
00:16 Format Cells - संवादपिटक: कथम् उपयोजनीय: |
00:19 कक्षेषु, sheets मध्ये च कथं सञ्चरणीयम् |
00:23 पङ्क्तिस्तम्भयो:, sheets मध्ये च पदानि कथं चेतव्यानि |
00:29 वयं operating system - त्वेन Ubuntu 10.04 , LibreOffice-सम्पुट -संस्करणं 3.3.4 च उपयुञ्ज्महे |
00:39 अथ प्रथमं पठाम:, कक्षेषु सामग्री कथं निवेशनीया |
00:43 वयं अस्माकं “personal finance tracker.ods” - सञ्चिकाम् उद्घाटयेम |
00:49 भवान् केवलं कक्षं नुदित्वा ततश्च कीलफ़लकम् उपयुज्य प्रत्येकं कक्षे यत्किञ्चित् लेख्यं टङ्कयितुं शक्नोति |
00:59 लेख्यम् उत्सर्गेण वाम - संरेखितं भवति | Formatting Bar मध्ये alignment tabs नुदित्वा संरेखने परिवर्तनं शक्यम् |
01:08 इदम् अपाकुर्म: |
01:11 अधुना spreadsheet मध्ये “A1”- संबद्धं कक्षं नुदतु |
01:15 भवान् पश्यति यत् चित: कक्ष: प्रकाशते |
01:20 अत्र अस्माभि: पूर्वमेव स्तम्भशीर्षकाणि टङ्कितानि सन्ति |
01:24 “Items” इति शीर्षकस्य अध: वयं कतिचनपदानां नामानि एकस्य अध: एकं टङ्कयाम: ,यथा “Salary”, “House rent”, “Electricity bill”, “Phone bill”, “Laundry” , “Miscellaneous” च |
01:38 कक्षे संख्यां निवेशयितुं कक्षं नुदतु , संख्यां च टङ्कयतु |
01:43 ऋणसंख्यां निवेशयितुं तस्या: पृष्ठत: ऋणचिह्नं टङ्कयतु अथवा गोलाभिवारे (parentheses) आवृणोतु |
01:53 उत्सर्गेण संख्या: दक्षिणे संरेखिता: भवन्ति ,ऋणसंख्यानाम् आदौ च ऋणचिह्नं भवति |
02:01 वयं परिवर्तनानि अपाकुर्म: |
02:04 अधुना अस्माकं “personal finance tracker.ods” spreadsheet मध्ये “SN” इति लक्षितस्य Serial Number - शीर्षकस्य अध: , वयं प्रत्येकं पदस्य एकस्य अध: एकं क्रमश: अङ्कनम् इच्छाम: |
02:17 अत: “A2” संबद्धं कक्षं नुदतु ,1,2,3 इति एकस्या: अध: एकां संख्यां लिखतु च |
02:27 क्रमश: स्वयंचलित-क्रमाङ्कनार्थं , “A4” कक्षं नुदतु | कक्षस्य अधस्तन-दक्षिण-कोणे एक: कृष्णपिटक: आविर्भवति | तं “A7” कक्षपर्यन्तं कर्षतु , मूषकपिञ्जं त्यजतु च |
02:42 भवान् पश्यति यत् “A5” - त: “A7” - पर्यन्तं विद्यमाना: कक्षा: उत्तरवर्तिक्रमाङ्केण सह आविर्भवन्ति |
02:51 पदानां क्रमाङ्कानन्तरं ,वयमिदानीं “Cost” शीर्षकस्य अध: प्रत्येकं पदस्य मूल्यं निवेशयाम:|
02:59 अथ वयं “C3” - बद्धं कक्षं नुदाम: , गृहभाटकार्थं (“House rent”) च 6000 रूप्यकाणि (“Rupees 6000”) टङ्कयाम: |
03:07 अधुना ,यदि वयं संख्याया: पूर्वं रूप्य - चिह्नम् इच्छाम: तर्हि किं करणीयम्  ?
03:11 चिन्तयाम: , वयं विद्युत्-देयकार्थं (“Electricity bill”) अष्टशतं रूप्यकाणि (“Rupees 800”) निवेशयितुम् इच्छाम: | अत: C4 कक्षं दक्षिणेन नुदतु , “Format Cells” पर्यायं नुदतु च |
03:23 इदम् “Format Cells” संवादपिटकम् उद्घाटयिष्यति |
03:27 “Numbers” इति प्रथमं tab अस्ति | तद् आदावेव चितं नास्ति चेत् नुदतु |
03:32 “Category” इत्यस्य अध: विविध - वर्गान् द्रष्टुं शक्नुम: यथा संख्या , प्रतिशतं , मुद्रां , दिनाङ्कं , समयं अन्यान् बहून् च |
03:41 वयं मुद्रां चिनुम: |
03:44 अधुना Format पर्यायस्य अध: अधोगमं बाणं नुदतु | इदं विश्वस्थानि विविध - मुद्रा - चिह्नानि दर्शयिष्यति |
03:53 उपरि गच्छाम: , INR Rupees English India च चिनुम: | उत्सर्गेण , drop-down मध्ये Rupee 1234 इति चितमस्ति |
04:04 भवान् दक्षिणे लघु - पूर्वदर्शन - क्षेत्रे अस्य पूर्वदर्शनं कर्तुं शक्नोति |
04:10 पर्यायेषु अस्मत्सविधे इष्टां दशक-संख्यां , शून्येन आरब्धां संख्यां च योक्तुं पर्याय: अस्ति |
04:20 लक्षयतु यत् यदा वयं शून्यानां संख्यां वर्धयाम: तदा प्रारूपस्थं चयनं दशक-स्थानद्वयं दर्शयत् 1,234.00 इति एवं रूप्यकेषु परिवर्तते |
04:35 लक्षयतु यत् पूर्वदर्शनक्षेत्रे परिवर्तनम् आविर्भवति |
04:40 प्रत्येकं सहस्र - अङ्के "स्वल्प-विराम" - विभेदकं योक्तुं Thousands separator इत्यत्र नुदतु | पुनरेकवारं पूर्वदर्शनक्षेत्रस्थं परिवर्तनं लक्षयतु |
04:50 Font tab नुदित्वा font- शैलीम् अपि परिवर्तयितुं शक्नुम: | Font , Typeface आकार-निमित्तं च अस्मिन् विविध - पर्याया: सन्ति |
05:00 एतान् आधिक्येन पठितुं Font -परिणामान् अन्यानि tabs च विचिनोतु |
05:05 अन्यस्मिन् पाठे अनन्तरं वयं Alignment tab - स्थानां पर्यायाणां विषये अधिकं पठिष्याम: |
05:11 OK पिञ्जं नुदाम: |
05:15 800 टङ्कयाम: , Enter नुदाम: च | भवान् लक्षयिष्यति यत् 800 इति संख्या दशकस्थानद्वयेन सह 800 रूप्यकाणि इति संदर्श्यते|
05:26 अधुना C5 त: C7 पर्यन्तं कक्षान् चिनुम: | CTRL कीलं धरतु अपि च G2 कक्षं चिनोतु | लक्षयतु चिता: सर्वे कक्षा: प्रकाशन्ते |
05:39 प्रकाशितेषु कक्षेषु कञ्चित् दक्षिणेन नुदतु , format cells चिनोतु च |
05:46 यथा पूर्वं समानपर्यायान् चिनोतु | OK नुदतु |
05:51 अधुना वयं समेषाम् अन्यपदानां व्ययम् एकस्य अध: एकं टङ्कयाम: यथा “Phone bill” निमित्तं “Rupees 600” , “Laundry” - व्यय: ”Rupees 300” , “Miscellaneous” - व्यय: “Rupees 2000” च |
06:06 “Accounts” शीर्षकस्य अध: वयं मासवेतनं ३०००० (“Rupees 30000”) रूप्यकाणि टङ्कयाम: |
06:13 Calc मध्ये दिनाङ्कं निवेशयितुं , कक्षं चिनोतु , दिनाङ्कं च टङ्कयतु |
06:18 भवान् तिर्यक्- रेखया योजकचिह्नेन वा दिनाङ्कघटकान् विभक्तुं शक्नोति अथवा 10 October 2011 इत्येवं लेख्यमपि उपयोक्तुं शक्नोति |
06:27 Calc , विविधदिनाङ्कप्रारूपान् अवगच्छति |
06:32 अथवा कक्षं दक्षिणेन नुदित्वा “Format Cells” पर्यायं चेतुं शक्नुम: |
06:38 वर्गस्य अध: “Date” , “Format” इत्यस्य अध: च इष्टप्रारूपं चिनोतु | अहं 12, 31, 1999 चिनोमि | पूर्वदर्शनक्षेत्रे आविर्भवनं लक्षयतु |
06:51 अपि च MM, DD , YYYY चेत्येवं प्रारूपविध्यादेश:(format code) आविर्भवति | यथा आवश्यक: प्रारूपविध्यादेश: परिवर्तयितुं शक्य: |
07:02 अहं DD, MM , YYYY चेति टङ्कयिष्यामि | पूर्वदर्शनक्षेत्रे परिवर्तनं लक्षयतु |OK पिञ्जं नुदतु |
07:12 Calc मध्ये समयं निवेशयितुं कक्षं चिनोतु, समयं च टङ्कयतु |
07:18 भवान् 10 colon 43 colon 20 इति एवं colons उपयुज्य समयघटकान् विभक्तुं शक्नोति |
07:24 अथवा , कक्षं दक्षिणेन नुदित्वा “Format Cells” पर्यायं चेतुं शक्नुम: |
07:31 वर्गेषु “Time” चिनोतु , “Format” मध्ये च इष्टप्रारूपं चिनोतु | अहं 13, 37, 46 चेष्यामि | पूर्वदर्शनक्षेत्रे परिवर्तनं लक्षयतु |
07:43 अपि च HH:MM:SS इत्येवं प्रारूपविध्यादेश: आविर्भवति | यथा आवश्यक: , प्रारूपविध्यादेश: परिवर्तयितुं शक्य: | अहं HH:MM चेति टङ्कयिष्यामि |
07:57 पूर्वदर्शनक्षेत्रे परिवर्तनं लक्षयतु |OK पिञ्जं नुदतु |
08:03 परिवर्तनानि अपाकुर्म:
08:06 Calc मध्ये लेख्यं , संख्या: , दिनाङ्क: च कथं लेखनीय: इति पठनानान्तरं वयम् अधुना spreadsheet मध्ये एव कक्षात् कक्षं प्रति sheet त: sheet प्रति च सञ्चरणं कथं करणीयम् इति पठिष्याम: |
08:17 अथ वयं प्रथमं spreadsheet मध्ये एव कक्षात् कक्षं प्रति कथं सञ्चरणीयम् इति पठिष्याम: |
08:23 भवान् केवलं कक्षं नुदित्वा प्रत्येकं कक्षम् अभिगन्तुं शक्नोति |
08:29 भवान् पश्यति यत् स: कक्ष: प्रकाशते |
08:32 कक्षम् अभिगन्तुम् अन्या पद्धति: नाम कक्ष - सङ्केतस्य - उपयोग: करणीय: |
08:38 “Name Box” इत्यस्य दक्षिणे , निकटे एव अधस्तनं लघुं कृष्ण-बाणं नुदतु |
08:43 अधुना इष्टं कक्ष-सङ्केतं टङ्कयतु , “Enter” नुदतु च |
08:49 भवान् “Name box” अपि नुदितुं शक्नोति , विद्यमानं कक्ष - सङ्केतम् अपाकरोतु , इष्टे कक्ष - सङ्केते टङ्कयतु च “Enter” नुदतु च |
08:58 अग्रे वयं पठिष्याम: spreadsheet मध्ये कक्षेषु सञ्चरणं कथं करणीयमिति |
09:03 cursor उपयुज्य कक्षेषु सञ्चरणमिति प्रथमा पद्धति: |
09:09 cursor उपयुज्य ध्यानं(focus) सारयितुं लक्ष्यमाणम् इष्टं कक्षं प्रति केवलं cursor सारयतु , मूषकस्य वामपिञ्जं नुदतु च |
09:18 इदं नूतनं कक्षं प्रति ध्यानं नयेत् |
09:22 यदा द्वयो: कक्षयो: मध्ये महदन्तरं भवति तदा एषा पद्धति: बहु उपयुक्ता भवति |
09:28 कक्षेषु सञ्चरणस्य अन्या: पद्धतय: नाम - “Tab” पङ्क्तौ आगामिकक्षं प्रति गमनाय ,
09:35 ”Shift + Tab” पङ्क्तौ पूर्वतनं कक्षं प्रति गमनाय ,
09:39 “Enter” स्तम्भे आगामिकक्षं प्रति गमनाय ,
09:42 “Shift + Enter” स्तम्भे पूर्वतनं कक्षं प्रति गमनाय |
09:46 अग्रे वयं पठिष्याम: कीलफ़लकस्य उपयोगेन Calc मध्ये विविध - spreadsheets मध्ये सञ्चरणं कथं करणीयमिति |
09:53 सक्रियं sheet इत्यस्य दक्षिणस्थं sheet अभिगन्तुं , “Control” अधिकं “Page Down” कीलौ युगपत् नुदतु |
10:00 विद्यमानस्य sheet इत्यस्य वामस्थं sheet अभिगन्तुं , “Control” अधिकं “Page Up” कीलौ युगपत् नुदतु |
10:08 भवान् सारकम् ( cursor ) उपयुज्य अपि sheets मध्ये सञ्चरितुं शक्नोति |
10:13 अस्य सविस्तरं विवरणं “Working with Sheets” इत्यस्मिन् पाठे उपलभ्यते |
10:19 यदि भवत्सविधे बहूनि sheets भवन्ति तर्हि कतिचन sheet tabs पटलस्य अधोभागे समरेखस्य (horizontal ) scroll bar -स्य पृष्ठत: गुप्तानि भवन्ति |
10:28 यदि एवं स्यात् तर्हि sheet tabs इत्यस्य अधस्तनवामभागस्था: चत्वार: पिञ्जा: tabs दर्शयन्ति |
10:36 इमानि परिवर्तनानि अपाकुर्म: |
10:39 cursor इत्यनेन एकां मर्यादां पर्यन्तं निरन्तरं कक्षा: चेतव्या: चेत् प्रथमं , कक्षं नुदतु |
10:45 अधुना मूषकस्य वामपिञ्जं नुदन् भवतु |
10:48 पटले सर्वत्र cursor चालयतु ,कक्षाणाम् इष्टे संवर्गे प्रकाशिते सति मूषकस्य वामपिञ्जं त्यजतु |भवान् पश्यति यत् चिता: कक्षा: प्रकाशिता: |
11:00 अनेकान् निरन्तरं स्तम्भान् पङ्क्ती: च चेतुं संवर्गे प्रथमं स्तम्भम् अथवा पङ्क्तिं नुदतु |
11:09 अधुना “Shift” कीलं नुदन् भवतु |
11:12 संवर्गे अन्तिमं स्तम्भम् अथवा पङ्क्तिं नुदतु |
11:15 ये निरन्तरं न सन्ति तान् अनेकान् स्तम्भान् पङ्क्ती: वा चेतुं , संवर्गे प्रथमं स्तम्भं पङ्क्तिं वा नुदतु |
11:23 “Control” कीलं नुदन् भवतु ,तथा च “Control” कीलस्य नोदनेन सहैव सर्वान् अनुवर्तीन् स्तम्भान् पङ्क्ती: वा नुदतु |
11:31 अनेकानि निरन्तरं sheets चेतुम् इष्टं प्रथमं sheet निमित्तं sheet tab नुदतु |
11:39 अधुना अन्तिमम् इष्टं sheet निमित्तं sheet tab उपरि cursor नयतु |
11:43 “Shift” कीलं नुदन् भवतु , sheet tab नुदतु च |
11:48 एतयो: द्वयो: sheets मध्ये विद्यमानानि सर्वाणि tabs श्वेतानि भवन्ति येन तानि सर्वाणि चितानि इति सूच्यते |
11:56 भवान् यत् करिष्यति तस्य अधुना सर्वेषु प्रकाशितेषु sheets इत्येषु परिणाम: दृश्येत |
12:01 अनेकानि भिन्नानि sheets चेतुं , प्रथमं sheet निमित्तं sheet tab नुदतु |
12:08 अधुना तृतीयं sheet tab उपरि cursor नयतु |
12:12 “Control” कीलं नुदन् भवतु ,sheet tab नुदतु च |
12:16 चितानि tabs श्वेतानि भवन्ति अपि च यत्किमपि भवान् करिष्यति तस्य अधुना सर्वेषु प्रकाशितेषु sheets इत्येषु परिणाम: दृश्येत |
12:24 अत्र LibreOffice Calc - विषयकं Spoken Tutorial समाप्यते |
12:30 अस्माभि: पठितं संक्षेपेण -
12:33 spreadsheet मध्ये संख्या:, लेख्यं , लेख्यत्वेन संख्या:, दिनाङ्क: समय: च कथं निवेशनीय: |
12:40 Format Cells - संवादपिटक: कथम् उपयोजनीय: |
12:43 कक्षेषु, sheets मध्ये च कथं सञ्चरणीयम् |
12:47 पङ्क्तिस्तम्भयो:, sheets मध्ये च पदानि कथं चेतव्यानि |
12:52 व्यापिका परीक्षा
12:55 “Spreadsheet Practice.ods” उद्घाटयतु |
12:58 “Serial Numbers” इत्यस्य अध: एकस्य अध: एकमिति एकत: पञ्च-पर्यन्तं क्रमश: संख्यां टङ्कयतु |
13:04 कीलानि उपयुज्य कक्षेषु सञ्चरतु |
13:09 क्रमाङ्कस्य अध: सर्वाणि पदानि चिनोतु |
13:13 दिनाङ्कसमययो: कृते स्तम्भं योजयतु |
13:16 Format Cells -संवादपिटकस्य पर्यायान् उपयुज्य किञ्चित् परिमाणं तयो: निवेशयतु |
13:21 अधस्तनसंधाने उपलब्धं चलच्चित्रम् पश्यतु |
13:24 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
13:27 यदि यूष्म​त्सविधे उत्तमं bandwidth नास्ति तर्हि भवान् अवारोप्य द्रष्टुं शक्नोति |
13:32 spoken tutorial गण:
13:35 spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
13:38 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
13:41 कृपया अधिकज्ञानार्थं contact@spoken hyphen tutorial dot org संपर्कं करोतु |
13:48 Spoken Tutorial- प्रकल्प:, Talk to a Teacher - प्रकल्पभाग:
13:52 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीभूत: |
14:00 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org
14:03 slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
14:11 एतद्पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
14:16 संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Sneha