Firefox/C3/Popups/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 मोझिल्ला फैर् फाक्स् (Mozilla Firefox) मध्ये सेट्टिंग् पाप् अप् तथा इमेज् आप्षन् इति विषयस्य पाठेऽस्मिन् भवद्भ्यः स्वागतम् ।
00:07 अस्मिन् पाठे वयं पाप् अप् तथा इमेज् प्रिफरेन्स् इत्यस्य सेट्टिंग् करणं,
00:13 तथा टूल् बार् इत्यस्य स्वानुकूलतासम्पादनं कथम् इति पठामः ।
00:15 पाप् अप् विंडोस् अथवा पाप् अप् इत्येते भवताम् अनुमतिं विना गोचराः भवन्ति ।
00:21 विभिन्नमानयुक्ताः ते पूर्णतया पटलम् आवृत्य न तिष्ठन्ति ।
00:27 कानिचन पाप् अप्स्, फैर् फाक्स् विंडो मध्ये उपरितन भागे दृग्गोचराः भवन्ति, कानिचन अधोभागे । (पाप् अण्डर्स्)
00:37 पाप् अप्स् भवन्तं क्रुद्धं कर्तुम् अर्हन्ति अतः भवन्तः तान् निष्क्रियान् कर्तुमिच्छन्ति ।
00:42 अस्मिन् पाठे वयम् उबन्टु 10.04 मध्ये फैर् फाक्स् 7.0 आवृत्तिम् उपयुञ्जानाः स्मः ।
00:50 अधुना फैर् फाक्स् ब्रौशर् उद्घाटयामः ।
00:53 यु आर् एल् पट्टिकायां www.poptest.com (डब्ल्यु डब्ल्यु डब्ल्यु डाट् पापप् टेस्ट् डाट् काम्) इति टङ्कयन्तु।
01:01 Enter (एंटर्) कीलं नुदामः ।
01:03 इदं जालपुटं, पाप् अप् इत्युक्ते किम् इति बोधयति ।
01:07 ‘multi-popup test’ (मल्टि पाप् अप् टेस्ट्) इति लिंक् नुदन्तु ।
01:12 भवन्तः पाप् अप् षट्कं द्रष्टुम् अर्हन्ति ।
01:20 Back (ब्याक्) नुदन्तु ।
01:22 इतोपि पाप् अप् द्वयं दृश्यते । पश्यन्तु कथमिदं तुदति !
01:28 फैर् फाक्स्, पाप् अप्स् तथा पाप् अण्डर्स् इत्येतदुभयमपि नियन्त्रितुम् अवकाशं प्रददाति । Edit (एडिट्) नोदनं कृत्वा Preferences (प्रिफेरेन्स्) उपरि नोदनद्वारा एतस्य नियन्त्रणं शक्यम् ।
01:37 विंडोस् उपयोक्ताराः कृपया Tools (टूल्स्) नोदनं कृत्वा अनन्तरं Options (आप्षन्) नुदन्तु ।
01:43 (preference) प्रिफरेन्स् विण्डो मध्ये Content (कनेक्ट्) ट्याब् नुदन्तु ।
01:48 Block pop-up windows (ब्लाक् पाप् अप् विण्डोस्) इति विकल्पः एतावता एव उत्सर्गेण चितं भवति ।
01:53 यदि न चितं भवति, तर्हि भवन्तः एव तत् कुर्वन्तु ।
01:56 यदि एवं क्रियते तर्हि फैर् फाक्स् मध्ये पाप् अप् इत्यस्य नियन्त्रणविषये चिन्ता करणस्य अपेक्षा एव न अवशिष्यते ।
02:02 इदानीं भवन्तः फैर् फाक्स् प्रिफरेन्स् विण्डो पिधातुं Close (क्लोस्) इत्यत्र नुदन्तु ।
02:09 भवन्तः एक्सेप्षन् अपि चेतुं शक्नुवन्ति ।
02:12 भवद्भिः अनुमतानि पाप् अप् जालपुटानि एव एक्सेप्षन्स् ।
02:17 Edit (एडिट्) इत्यत्र नुदन्तु तदनन्तरं Preferences (प्रिफरेन्स्) इत्यत्र नुदन्तु ।
02:20 विंडोस् उपयोक्ताराः कृपया Tools (टूल्स्) इत्यत्र नुत्त्वा अनन्तरं Options (आप्षन्) इत्यत्र नुदन्तु।
02:26 एक्सेप्षन् इत्येतेषां योजनं कर्तुं, Block pop-up windows (ब्लाक् पाप् अप् विण्डोस्) इत्यस्य पुरतः विद्यमानं Exceptions (एक्सेप्षन्) इति इत्यत्र नुदन्तु ।
02:34 इदं, किञ्चन संवादपेटीकाम् उद्घाटयति ।
02:37 Address of website (अड्रेस् आफ् वेब् सैट्) इत्यत्र www.google.com (डम्ब्ल्यु डब्ल्यु डब्ल्यु डाट् गूगल् डाट् काम्) इति टङ्कयन्तु ।
02:44 Allow (अलो) इत्यत्र नुदन्तु ।
02:46 संवादपेटिकां पिधातुं Close (क्लोस्) इत्यत्र नुदन्तु ।
02:50 preferences (प्रिफरेन्स्) संवादपेटिकां पिधातुं Close (क्लोस्) इत्यत्र नुदन्तु ।
02:55 इदानीं पाप् अप्, गूगल् डाट् काम् विहाय अन्यस्मात् सर्वस्मात् जालपुटात् निष्कासितं वर्तते ।
03:01 इदानीं यु आर् एल् पट्टिकायां, ‘www.popuptest.com’ (डब्ल्यु डब्ल्यु डब्ल्यु डाट् पाप् अप् टेस्ट् डाट् काम् ) इति लिखित्वा Enter (एंटर्) नुदन्तु ।
03:09 ‘Multi-PopUp Test’ इति लिंक् उपरि नुदन्तु ।
03:12 एकमपि पाप् अप् न दृग्गोचरं न भवति ।
03:15 भवतां पाप् अप् नियन्त्रकं जागृतं वर्तते ।
03:20 चित्राणामवचयनाय अधिकं समयं तथा अधिकं बेंड्विड्थ् अपि स्वीकरोति ।
03:24 मोझिल्ला फैर् फाक्स् (Mozilla Firefox) मध्ये चित्राणाम् अवचयनप्रतिबन्धनस्य चयनमपि वर्तते ।
03:30 Edit (एडिट्) इत्यत्र नुत्त्वा Preferences (प्रिफरेन्स्) इत्यत्रÇ नुदन्तु ।
03:33 विंडोस् उपयोक्ताराः कृपया Tools (टूल्स्) इत्यत्र नुत्त्वा अनन्तरं Options (आप्षन्) इत्यत्र नुदन्तु।
03:39 Preferences (प्रिफरेन्स्) संवादपेटिकायां Content (कण्टेण्ट्) ट्याब् चिन्वन्तु ।
03:44 Load images automatically (लोड् इमेज् आटोमिटिकलि) इति चेक्बाक्स् निष्क्रियं कुर्वन्तु ।
03:49 संवादपेटिकां पिधानं कर्तुं Close (क्लोस्) इत्यत्र नुदन्तु ।
03:53 इदानीम् अन्वेषणपट्टिकायां, Flowers (फ्लवर्स्) इति टङ्कयित्वा Enter (एंटर्) नुदन्तु ।
04:00 गूगल् मुखपृष्ठे, 'Images' (इमेजस्) इत्यत्र नुदन्तु ।
04:04 प्रथमं दृश्यमानस्य चित्रस्य लिंक् नुदन्तु ।
04:08 पश्यन्तु , चित्रं इतोपि न आरोपितम् ।
04:12 टूल बार् इत्यस्य स्वानुकूलतासम्पादनाय बहूनि विधानानि फैर् फाक्स् मध्ये वर्तन्ते ।
04:18 वयं यत्किञ्चित् टूल् बार् मध्ये गोपयितुमिच्छामः इति चिन्तयामः । उदाहरणार्थं मेन्यु बार् ।
04:23 मेन्यु बार् इत्यत्र रिक्तस्थाने रैट् क्लिक् कुर्मः ।
04:27 तत्र मेन्यु बार् इति अन् चेक् कुर्वन्तु । तावदेव !
04:30 पुनः मेन्यु बार् द्रष्टुं टूल् बार् इत्यस्य रिक्तस्थाने रैट् क्लिक् कुर्वन्तु ।
04:36 इदानीं मेन्यु बार् विकल्पं चेक् कुर्वन्तु ।
04:40 फैर् फाक्स् मध्ये टूल् बार् इत्यस्य स्वानुकूलतासम्पादनार्थं सुवर्धिताः विकल्पाः अपि सन्ति । कानिचन अत्र पश्यामः ।
04:46 टूल् बार् प्रति चित्रकमेकं (icon) योजयामः । इदम् एकनोदनेन जालपुटस्य मुद्रणं कर्तुम् अवकाशं कल्पयति ।
04:54 टूल् बार् मध्ये रिक्तस्थाने रैट् क्लिक् कुर्वन्तु ।
04:58 Customize (कस्टमैस्) नुदन्तु ।
05:00 Customize Toolbar (कस्टमैस् टूल् बार्) इति संवादपेटिका दृग्गोचरं भवति ।
05:04 संवादपेटिकायां, Print (प्रिंट्) इति चित्रकं द्रष्टुं शक्यते ।
05:09 टूल् बार् प्रति तत् चित्रकं कर्षयन्तु ।
05:12 Done (डन्) इत्यस्य उपरि नोदनेन संवादपेटिकायाः पिधानं कुर्वन्तु ।
05:17 टूल् बार् मध्ये विद्यमानस्य प्रिंट् चित्रकं नुदन्तु ।
05:21 इदं Print (प्रिंट्) इति संवादपेटिकाम् उद्घाटयति ।
05:25 वयमिदानीं मुद्रणं न कुर्मः ।
05:28 अतः संवादपेटिकां पिधातुं Cancel (क्यान्सल्) नुदामः ।
05:32 भवन्तः टूल् बार् योजयितुं निष्कासयितुं वा शक्नुवन्ति ।
05:35 एवं कर्तुं, टूल् बार् मध्ये रैट् क्लिक् कृत्वा Customize (कस्टमैस्) चिन्वन्तु ।
05:40 Add New Toolbar (आड् न्यू टोल् बार्) इत्यत्र नुदन्तु ।
05:44 नूतनस्य टूल् बार् कृते नाम प्रयच्छन्तु । वयमिदानीं Sample tool bar (स्यांपल् टूल् बार्) इति दद्मः ।
05:50 OK (ओके) इत्यत्र नुदन्तु ।
05:53 इदानीम् एकम् चित्रकं कर्षयन्तु । Downloads (डौन् लोड्) इत्येतं (sample tool bar) स्यांपल् टूल् बार् उपरि कर्षयन्तु ।
06:01 पश्यन्तु ! नूतनं टूल् बार् ब्रौसर् मध्ये विद्यते ।
06:04 टूल् बार् निष्कासितुं Restore Default Set (रिस्टोर् डिफाल्ट् सेट्) इति इत्यत्र नुदन्तु ।
06:10 कंटेन्ट् स्थानं अधिकं कर्तुं वयं चित्रणं न्यूनं कुर्मः ।
06:16 Use Small Icons (यूस् स्माल् ऐकान्स्) इति नामयुक्तं चेक् बाक्स् नुदन्तु ।
06:22 वाचनपेटिकां पिधातुं Done (डन्) नुदन्तु ।
06:27 चित्रणस्य गात्रे लघुभवनं द्रष्टुं शक्यते ।
06:32 इदानीं वयं पाठस्यास्य अन्तिमघट्टे स्मः ।
06:36 अस्मिन् पाठे वयं पाप् अप्स् तथा इमेज् प्रिफरेन्स् इत्येतेषां सेट् करणम्
06:41 तथा टूल् बार् कस्टमैस् करणं पठितवन्तः ।
06:43 अत्र भवद्भ्यः अभ्यासः वत्रते ।
06:46 मोझिल्ला फैर् फाक्स् (Mozilla Firefox) मध्ये नूतनं विंडो उद्घाटयन्तु ।www.yahoo.com इत्यत्र विद्यमानानि विहाय अन्यानि सर्वाणि पाप् अप्स् प्रतिबध्नन्तु । Book marks tool bar (बुक्मार्क्स् टूल् बार्) इत्येतत् योजयन्तु ।
06:59 अधो निर्दिष्टे लिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु ।
07:02 इदं स्पोकन् ट्युटोरियल् इत्यस्य सारांशं वदति ।
07:05 भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अवचिन्वन्तु ।
07:10 इमं पाठमाधारीकृत्य स्पोकन् ट्य़ुटोरियल् गणः कार्यशालां प्रचालयति ।
07:15 आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
07:18 अधिकज्ञानार्थं contact @spoken-tutorial.org इति अन्तर्जालद्वारा सम्पर्कं कुर्वन्तु ।
07:25 अयं पाठः टाक् टु ए टीचर् इति परियोजनायाः भागः वर्तते ।
07:29 इमं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारत सर्वकारः इति संस्था समर्थयति ।
07:38 अस्य विषये अधिकज्ञानार्थं अधो विद्यमानं लिंक् पश्यन्तु । http://spoken-tutorial.org/NMEICT-Intro.
07:48 अस्य पाठस्य अनुवादकः प्रवाचकश्च बेंगलूरुतः शशाङ्कः। सहयोगाय धन्यवादाः ।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal