Linux/C2/Simple-filters/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
0:00 नमस्ते, ‘Simple Filters with Linux’ इत्याख्यपाठे सर्वेषां स्वागतम्।
0:08 अत्र एतान् अंशान् ज्ञास्यामः - ‘head, tail, sort, cut and paste’।
0:17 एते आदेशाः command line इत्यत्र अक्षरसमूहानां विपरिणमनाय उपयुज्यन्ते।
0:22 terminal इत्यत्र hash # इति चिह्नम् अस्ति चेत् आदेशनिर्वहणाय भवान् मूलोपयोक्ता भवेत्। (sudo su ಅಥವಾ su root)
0:29 फलके dollar $ इति चिह्नम् अस्ति चेत् आदेशनिर्वहणाय सामान्योपयोक्ता भवति चेत् अलम्।
0:38 यत्र च सञ्चिकाः रक्षिताः भवन्ति तत्र भवन्तः path इत्यस्य परिवर्तनेन विना औत्सर्गिक संस्थापनं मात्रं कृतवन्तः इति अहं चिन्तयामि।
0:46 अहम् Ubuntu 10.10 इति तन्त्रांशम् उपयुञ्जामि।
0:51 Mouse, key board अपि च window मध्ये maximize minimize इत्येतेषां पूर्वज्ञानं वर्गाय अनिवार्यम् अस्ति।
1:02 उत्सर्गेण सञ्चिकायाः प्रथमदशपङ्क्तिप्रदर्शनार्थं ascii file इति नाम्ना अनुसृतम् head इति आदेशं उपयुञ्ज्महे।
1:10 अधुना सञ्चिकां (file) सृजामः। एतस्य प्रात्यक्षिकतार्थं ESC (escape) इति नुदामि।
1:17 अथ गच्छन्तु Aplications>Accessories>Text Editor
1:24 समयाभावात् अहं एतावता एव इमां सङ्ख्याम् अपरसञ्चिकायाम् उद्घाटितवान् अस्मि।
1:30 अधुना copy कृत्वा paste करोमि।
1:38 File नुत्त्वा Save नुदन्तु।
1:41 numbers dot txt इति सञ्चिकानाम दत्त्वा save इति नुदन्तु।
1:48 सञ्चिकां पिदधतु।
1:53 अथ गच्छन्तु Application>Accessories>Terminal
2:01 अधुना सृष्टसञ्चिका (File) दृश्यते उत न इति पश्यामः।
2:05 Ls इति टङ्कयित्वा enter नुदन्तु।
2:09 एतेन गृह-सन्धारिकायां विद्यमानानां सर्वासां धारिकानां सञ्चिकानां च सूचीं निर्मितवन्तः।
2:15 सृष्टसञ्चिकास्थविषयान् पठितुं cat इति आदेशम् उपयुञ्ज्महे।
2:21 Cat n-u-m, संचिकानाम्नः स्वयं पूरणाय (autofill) tab नुदन्तु। enter नुदन्तु।
2:29 एवमेव head इति आदेशे अपि कुर्मः।
2:33 head numbers dot txt इति टङ्कयित्वा enter नुदन्तु।
2:39 अधुना प्रथमदशपङ्क्तयः दर्शिताः।
2:43 प्रथमपञ्चपङ्क्तीः द्रष्टुं hyphen n5 इति विकल्पम् head इति आदेशस्य सञ्चिकानाम्नः च मध्ये उपयुज्यताम्।
2:52 Up कीलं नुत्त्वा मध्ये आगत्य hyphen n5 इति टङ्कयित्वा enter नुदन्तु।
2:58 अधुना केवलं प्रथमपञ्चपङ्क्तयः दृष्टाः अभवन्।
3:02 अधुना presentation प्रति गच्छामः।
3:08 F5
3:14 tail इति आदेशः head इति आदेशस्य विरुद्धतया प्रवर्तते। एषः उत्सर्गेण सञ्चिकायाः अन्तिमदशपङ्क्तीः दर्शयति।
3:22 Terminal प्रतिगन्तुम् अहं ALT अपि च Tab इति नुदामि।
3:27 tail numbers dot txt
3:31 केवलम् अन्तिमपञ्चपङ्क्तीः द्रष्टुम् tail आदेशस्य सञ्चिकानाम्न: च मध्ये hyphen n5 इति विकल्पः उपयोक्तव्यः।
3:40 Hyphen n5 इति विलिख्य enter नुदन्तु।
3:45 Slides प्रति गच्छन्तु।
3:50 उपकरणे घटितवृत्तं Log इति सञ्चिकायां भवति।
3:55 उपयोक्तॄणां निर्गमनप्रवेशयोः विवरणम् auth dot log इति सञ्चिका निर्वहति।
4:01 hyphen f इति विकल्पप्रयोगेन इतिवृत्तसञ्चिकानां (log files) अन्तज्ञानमेव tail इति आदेशस्य प्रमुखोपयोगः।
4:09 इतिवृत्तसञ्चिकायां नूतनपङ्क्तिः युक्ता भवति चेत् tail आदेशः उत्सर्गेण तां पङ्क्तिम् अन्तिमत्वेन स्वीकृत्य ततः पूर्वतनदशपङ्क्तीः दर्शयति।
4:18 Terminal प्रति गच्छन्तु।
4:21 tail hyphen f forward slash var slash log slash auth dot log
4:31 अधुना पटलाकृतिं न्यूनं करोमि।
4:39 अधुना अपरं terminal उद्घाटयाम, Application>Accessories>Terminal
4:46 अधुना पटलाकृतिं न्यूनं करोमि।
4:52 येन च tail इति आदेशः कथम् इतिवृत्तसञ्चिकायाम् अन्तिमपङ्क्तिम् अनुसरति इति एकपटले एव प्रदर्शयितुं शक्नोमि।
5:00 Su रूपेण स्वोपयोक्तृनाम दत्वा enter नुदन्तु।
5:05 कञ्चित् दुष्टं कूटशब्दं विलिख्य enter नुदन्तु।
5:08 tail इति यत्र कार्यं करोति तत्र काचित् नूतना पङ्क्तिः युक्ता वर्तते इति द्रष्टुं शक्नुवन्ति।
5:15 दिनाङ्कसमयौ दृढीकरणवैफल्यं कदा जातम् इति सूचयति।
5:23 उपकरणस्य दिनाङ्कसमयनिश्चयार्थम् date इति टङ्कयित्वा enter नुदन्तु।
5:32 terminal पिधातुं exit इति टङ्कयन्तु।
5:36 प्रचलितं tail इति आदेशं पिधातुं Ctrl C नुदन्तु अपि च पटलं बृहत्कुर्वन्तु।
5:51 वयं पूर्वोदाहरणे केवलं auth dot log file इति दृष्टवन्तः।
5:57 एताः linux मध्ये सामान्यतः उपयोग्याः इतिवृत्तसञ्चिकाः।
6:01 Linux उपकरणप्रशासकः इमाः इतिवृत्तसञ्चिकाः वीक्षते येन च सः यन्त्रे समस्यानिवारणार्थं विवरणं प्राप्नुयात्।
6:12 Sort इति आदेशः अन्वर्थरूपेण आरोहणावरोहणक्रमयोः वा सञ्चिकास्थविषयान् व्यवस्थापयति।
6:23 sort numbers dot txt इति आदेशः number dot txt इति सञ्चिकाम् आरोहणक्रमेण वर्गीकरोति।
6:31 अत्र किञ्चित् विचित्रमवधेयं भवद्भिः, sort इति आदेशः केवलं प्रथमाक्षरं पश्यति। अतः १०, ११, १२ इति सङ्ख्याः २ इति सङ्ख्यायाः प्राक्दृश्यन्ते।
6:43 तन्निवारणाय hyphen n इति विकल्पं योजयन्तु। hyphen n इति विलिख्य enter नुदन्तु।
6:53 अधुना sort आदेशः सम्पूर्णां सङ्ख्यां पश्यति।
6:58 number dot txt इत्येतं व्युत्क्रमेण वर्गीकर्तुम् hyphen r इति विकल्पं योजयन्तु।
7:09 अत्र काश्चन सङ्ख्याः पुनरावृत्ताः सन्ति इति द्रष्टुं शक्नुमः। तन्निवारणाय hyphen u इति विकल्पं योजयन्तु।
7:17 Terminal प्रति गच्छन्तु।
7:20 Up कीलं नुदन्तु।
7:22 u इति विलिख्य enter नुदन्तु।
7:26 पूर्वं वारद्वयम् २ इति प्रदृष्टमासीत्। अधुना तु एकवारमेव प्रदृष्टमस्ति।
7:38 अधुना स्तम्भाधारेण सञ्चिकाव्यवस्थापनं कथम् इति पश्यामः।
7:44 अधुना अधोनिर्दिष्टमनुसृत्य सञ्चिकां सृजामः।
7:48 गच्छन्तु Applications>Accessories>Text Editor
7:57 समयरक्षणाय एतावता एव अन्यसञ्चिकायां विद्यमानं दत्ताशं copy कृत्वा paste करोमि। Ctrl + C; Ctrl + V
8:11 File, इति नुत्त्वा इदम् marks dot txt नाम्ना रक्षामः, Save इति नुदन्तु।
8:21 अत्रस्थाङ्कानां विषये अवधानस्य आवश्यकता नास्ति।
8:28 इमां सञ्चिकां पिदधातु।
8:33 marks dot txt इति सञ्चिकां द्वितीयस्तम्भस्य (second column) आधारेण व्यवस्थापयामः (sort)।
8:40 Terminal प्रति गच्छन्तु।
8:42 Sort space marks dot txt space hyphen t space open inverted commas space close inverted commas space
8:53 अत्र hyphen t इति सीमानिर्धारणार्थम् अस्ति। उद्धरणचिह्नयोर्मध्यस्थरिक्तस्थानं तत्प्रतिनिधीकरोति।
9:02 Hyphen k2 इति द्वितीयस्तम्भनिमित्तम् अस्ति यत्र च sort भवेत्।
9:14 Enter नुदन्तु।
9:20 cat marks dot txt
9:24 यदा द्वितीयस्तम्भस्य आधारेण sort कुर्मः तदा यदि avir इति bala इत्यस्मात् उपरि आगच्छति तर्हि एषा मूलसञ्चिका अस्ति इति ज्ञातुं शक्नुमः।
9:43 cut इति आदेशः सञ्चिकायां निर्दिष्टसूचनाः कर्तयितुम् उपयुज्यते।
9:51 अथ marks dot txt इत्यस्मात् कतिचन नामानि कर्तयामः।
9:55 अधुना terminal प्रति गच्छामः, Alt Tab
9:58 cut space marks dot txt space hyphen d space open inverted commas space close inverted commas space.
10:08 अत्र cut इति आदेशे d इति सीमां निर्धारयति अपि च उद्धरणचिह्नयोर्मध्यस्थरिक्तस्थानं नियामकं प्रतिनिधीकरोति।
10:20 Hyphen f2 इति द्वितीयस्तम्भाय अस्ति। enter नुदन्तु।
10:31 paste इति आदेशः अनेकसञ्चिकायाः पङ्क्तीः एकस्यां सञ्चिकायां विलयनं करोति।
10:36 अधुना number dot txt, marks dot txt इति सञ्चिकयोः उपयोगं कुर्मः।
10:41 Terminal प्रति गच्छन्तु।
10:43 paste numbers dot txt marks dot txt इति विलिख्य enter नुदन्तु।
10:50 अधुना marks dot txt इत्यस्य प्रथमपङ्क्तिः number dot txt इत्यस्य प्रथमपङ्क्तौ युक्तम् अभवत्।
10:57 एतत्फलितम् (output) concate file इति नामकसञ्चिकां प्रति विचालयितुं redirect कुञ्चिका उपयुज्यते।
11:06 Terminal प्रति गच्छन्तु।
11:08 Up इति कीलं नुदन्तु। redirect अर्थात् greater than चिह्नं concatfile dot txt इति च टङ्कयित्वा enter नुदन्तु।
11:18 cat concatfile dot txt
11:22 अधुना slides प्रति गच्छामः।
11:25 क्रमशः नियमितानां सङ्ख्यानां निर्माणं paste द्वारा यदि मुद्रापयितुमिच्छामः तर्हि
11:34 paste hyphen s
11:39 numbers dot txt
11:43 slides प्रति गच्छन्तु।
11:45 Spoken Tutorial इत्येतत् ‘talk to a teacher’ इति प्रकल्पस्य भागः अस्ति।
11:49 यच्च National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: अस्ति।
11:55 अधिकविवरणं जालपुटेऽस्मिन् उपलभ्यते।
11:59 अस्याः लेखनप्रतेः अनुवादकर्त्री संस्कृतभारती अस्ति। अस्यप्रवाचकः देहलीतः वासुदेवः आपृच्छति। सम्पर्कार्थं धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Vasudeva ahitanal