Difference between revisions of "LibreOffice-Writer-on-BOSS-Linux/C4/Headers-Footers-and-Notes/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 54: Line 54:
 
||भवन्तः अत्र बहून् फुटर् विकल्पान् पश्यन्ति।
 
||भवन्तः अत्र बहून् फुटर् विकल्पान् पश्यन्ति।
 
|-
 
|-
||01;19
+
||01:19
 
||सञ्चिकायां पुटसङ्ख्यां योजयितुं Page Number इत्यस्योपरि नुदन्तु।
 
||सञ्चिकायां पुटसङ्ख्यां योजयितुं Page Number इत्यस्योपरि नुदन्तु।
 
|-
 
|-
Line 87: Line 87:
 
||अधुना Insert विकल्पं चित्वा अनन्तरं Header विकल्पं चिन्वन्तु।
 
||अधुना Insert विकल्पं चित्वा अनन्तरं Header विकल्पं चिन्वन्तु।
 
|-
 
|-
||02;23
+
||02:23
 
||तत्र Default विकल्पं चिन्वन्तु।
 
||तत्र Default विकल्पं चिन्वन्तु।
 
|-
 
|-
Line 159: Line 159:
 
||पुनः OK नुत्वा अधुना पश्यन्तु, फुटर् मध्ये परिणामः दृश्यते।  
 
||पुनः OK नुत्वा अधुना पश्यन्तु, फुटर् मध्ये परिणामः दृश्यते।  
 
|-
 
|-
||04;36
+
||04:36
 
||पुरोगमनात् प्राक् अस्माकं सञ्चिकायाम् अपरमेकं पुटं योजयामः।
 
||पुरोगमनात् प्राक् अस्माकं सञ्चिकायाम् अपरमेकं पुटं योजयामः।
 
|-
 
|-

Revision as of 14:18, 6 January 2015

Time Narration
00:00 लिब्रे आफीस रैटर् मध्ये हेडर, फूटर अपि च एंड नोट इत्येतेषां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
00:07 अस्मिन् पाठे वयम्,
00:09 सञ्चिकायां, हेडर कथं योजनीयम्,
00:12 फूटर कथं योजनीयम्,
00:15 हेडर इत्येतत् प्रथमपृष्टात् कथं निष्कासनीयम् तथा च
00:19 सञ्चिकायां फुट्नोट अपि च एंड नोट इत्येतानि कथं योजनीयानि इत्यादिविषयान् ज्ञास्यामः।
00:24 अत्र वयम् GNU लिनक्स इत्यस्य अपि च लिब्रे आफीस सूट 3.3.4 इत्यस्य उपयोगं कुर्मः।
00:33 लिब्रे आफीस् रैटर् मध्ये वयं सञ्चिकायां प्रतिपुटं सङ्ख्यां योजयितुं शक्नुमः।
00:38 वयम् अस्माकम् resume.odt इति सञ्चिकाम् उद्घाटयामः।
00:42 फुटर् मध्ये पुटसङ्ख्यां योजयितुं भवदीष्टपुटस्योपरि नोत्तव्यम्।
00:49 अतः, वयं सञ्चिकायाः पुटस्योपरि नुदामः।
00:51 अधुना मेन्युबार मध्ये Insert इति विकल्पोपरि नुत्वा तत्र Footer इति विकल्पं चिन्वन्तु।
00:58 अनन्तरं Default इति विकल्पं नुदन्तु।
01:01 अधुना वयं पुटस्याधः फुटर योजितमस्तीति दृष्टुं शक्नुमः।
01:06 तत्र पुटसङ्ख्यां योजयितुं प्रथमतया Insert विकल्पं चिनुमः।
01:12 अनन्तरं Fields इत्यस्योपरि नुदन्तु।
01:15 भवन्तः अत्र बहून् फुटर् विकल्पान् पश्यन्ति।
01:19 सञ्चिकायां पुटसङ्ख्यां योजयितुं Page Number इत्यस्योपरि नुदन्तु।
01:24 अनुक्षणं वयं फुटर् मध्ये 1 इति दृष्टुं शक्नुमः।
01:29 पुटसङ्ख्यां विविधशैल्याम् उपयोक्तुं पुटसङ्ख्यायाः उपरि डबल् क्लिक् कुर्वन्तु।
01:35 वयं Edit Fields: Document इति संवादपेटिकां पश्यामः।
01:41 Format विकल्पस्याधः A B C इति अप्पर् केस् मध्ये, a b c इति लोवर् केस् मध्ये, Arabic 1 2 3” इत्यादीः बह्वीः शैलीः पश्यामः।
01:53 अत्र स्वेच्छानुसारं सङ्ख्याशैलीं चेतुं शक्नुवन्ति।
01:58 वयं अत्र Roman i,ii,iii इति विकल्पं चित्वा OK इति पिञ्जस्योपरि नुदामः।
02:05 अधुना पश्यन्तु, पुटसङ्ख्यायाः शैली परिवर्तिता अस्ति।
02:09 एवमेव, वयं सञ्चिकायां हेडर् योजयितुं शक्नुमः।
02:13 प्रथमतया भवन्तः, यत्र हेडर् योजयितुमिच्छन्ति तत्पुटस्योपरि नुदन्तु।
02:17 अधुना Insert विकल्पं चित्वा अनन्तरं Header विकल्पं चिन्वन्तु।
02:23 तत्र Default विकल्पं चिन्वन्तु।
02:26 पुटस्य उपरि हेडर् योजितमस्ति इति भवन्तः दृष्टुं शक्नुवन्ति।
02:30 हेडर् मध्ये दिनाङ्कं योजयितुं क्रमशः “Insert” इत्यस्य उपरि अपि च “Fields” इत्यस्य उपरि नुदन्तु।
02:37 तत्र दृश्यमाने मेन्युबार-मध्ये “Date” इत्यस्योपरि नुदन्तु।
02:42 अधुना दिनाङ्कः हेडर् मध्ये दृश्यते।
02:45 तस्योपरि वारद्वयं नोदनेन वयं दिनाङ्क-प्रदर्शनार्थं याः सम्भवनीय-शैल्यः सन्ति ताः शैलीः दृष्टुं शक्नुमः।
02:51 अत्र वयं 31 Dec, 1999 इति चित्वा OK नुदामः।
02:58 अधुना मेन्युबार मध्ये “File” इत्यस्योपरि नुत्वा तत्र “Page preview” विकल्पस्योपरि नुदामः।
03:05 अधुना सञ्चिकां 50 प्रतिशतं यावत् बृहत् कुर्मः।
03:09 अधुना पश्यन्तु, पुटस्य उपरि दिनाङ्कः अपि च अधः पुटसङ्ख्या दृश्यते।
03:15 एवं एतत् सञ्चिकायाः प्रतिपुटम् अन्वेति।
03:19 मूलसञ्चिकां प्रति गन्तुं “Close Preview” इति पिञ्जं नुदन्तु।
03:25 वयं हेडर अथवा फुटर मध्ये विद्यमानलेखभागस्य स्पेसिंग् अपि सम्यक् कर्तुं शक्नुमः।
03:30 अथवा वयं हेडर् अथवा फुटर् निमित्तं सीमाम् अपि योजयितुं शक्नुमः।
03:34 मेन्युबार मध्ये “Format” इति विकल्पस्योपरि नुत्वा अनन्तरं “Page” इत्यत्र नुदन्तु।
03:40 संवादपेटिकायां “Footer” इति ट्याब् चिन्वन्तु।
03:43 Left margin इत्यस्य मैल्यं 1 सेंटिमीटर कृत्वा स्पेसिंग् व्यवस्थापयन्तु।
03:52 फुटर् निमित्तं सीमां छायां वा योजयितुं “More” इति विकल्पस्य उपरि नुत्वा अनन्तरं फुटर् कृते किञ्चन मौल्यं निर्धारयन्तु।
04:03 उदाहरणार्थम्, फुटर् कृते छायाशैलीं योजयितुं वयं, “Cast Shadow to Top Right” इति चित्रकस्योपरि नुदामः।
04:10 एतत्, Shadow style इति विकल्पस्य Position इति ट्याब् इत्यस्य अधः विद्यमानेषु विविधचित्रकेषु अन्यतमं वर्तते।
04:18 भवन्तः अत्र सीमायाः अपि च छायायाः वर्णं चेतुं शक्नुवन्ति।
04:23 उपलभ्यमानं प्रत्येकमपि विकल्पं ज्ञातुम् इमां संवादपेटिकाम् अन्विषन्तु।
04:28 अधुना “OK” इत्यस्योपरि नुदन्तु।
04:30 पुनः OK नुत्वा अधुना पश्यन्तु, फुटर् मध्ये परिणामः दृश्यते।
04:36 पुरोगमनात् प्राक् अस्माकं सञ्चिकायाम् अपरमेकं पुटं योजयामः।
04:41 योजयितुं, Insert इति अपि च तत्र Manual Break इति नुत्वा तत्र Page break इति विकल्पं चिन्वन्तु।
04:47 अनन्तरं “OK” नुदन्तु।
04:50 पश्यन्तु, पुटसङ्ख्या 2 इति दृश्यते।
04:54 यदि भवन्तः सञ्चिकायाः प्रथमपुटे फुटर् न इच्छन्ति तर्हि कर्सर् इत्येतत् प्रथमपुटे स्थापयन्तु।
05:01 तथा च मेन्युबार मध्ये “Format” इत्यत्र नुत्वा अनन्तरम् “Styles and Formatting” इति विकल्पस्योपरि नुदन्तु।
05:08 इदानीं दृश्यमानायां संवादपेटिकायां उपरि Page Styles इति नाम्न्याः चतुर्थं चित्रकं नुदन्तु।
05:16 अनन्तरं First Page इति विकल्पस्योपरि रैट क्लिक् कुर्वन्तु।
05:20 तत्र New इत्यस्योपरि क्लिक् कृत्वा ततः Organiser ट्याब् उपरि नुदन्तु।
05:25 Name इत्यत्र स्वेच्छानुसारं शैलीनाम टङ्कयन्तु।
04:30 वयमत्र new first page इति टङ्कयामः।
05:35 Next Style इति उत्सर्गरूपेण तथैव स्थापयन्तु।
05:38 अधुना संवादपेटिकायां Footer ट्याब् इत्यस्योपरि नुदन्तु।
05:42 तत्रस्थं Footer on इति चिह्नकं (check box) उत्सर्गरूपेण यदि अन्चेक् नास्ति तर्हि अन्चेक् कुर्वन्तु।
05:48 अन्ते च, OK पिञ्जं नुदन्तु।
05:51 वयमधुना Styles and Formatting इति संवादपेटिकां प्रति आगतवन्तः स्मः।
05:55 पश्यन्तु, पेज स्टैल इति विकल्पस्याधः new first page इति दृश्यते।
06:01 अधुना new first page इत्यस्योपरि वारद्वयं नुदन्तु।
06:04 अधुना पश्यन्तु, अस्माकं सञ्चिकायां प्रथमपुटं विहाय अन्येषु सर्वेषु अपि पुटेषु फुटर् अस्ति।
06:11 एवं भवन्तः उपलभ्यमानाः सर्वाः अपि शैलीः नवीकर्तुं शक्नुवन्ति तथा च तां सञ्चिकायाः प्रतिपुटम् अन्वयितुं शक्नुवन्ति।
06:19 अधुना संवादपेटिकामिमं पिदध्मः
06:22 अधुना, लिब्रे आफीस् रैटर् मध्ये फुट् नोट् अपि च एंड् नोट् इत्येतेषां विषये ज्ञास्यामः।
06:27 फुट्नोट् इति उल्लेखसूचीं पुटस्यान्ते दर्शयति।
06:31 एंड्नोट् इति तां सञ्चिकायाः अन्ते दर्शयति।
06:35 उल्लेखस्य आधारः यत्र कर्सर अस्ति तत्र योजितं भवति।
06:40 भवन्तः आधाराय सङ्ख्यां वा चिह्नं वा चेतुं शक्नुवन्ति।
06:45 विकल्पमिम् उपयोक्तुं प्रथमं मेन्युबार मध्ये “Insert” इति विकल्पं नुदन्तु।
06:51 अनन्तरं Footnote/Endnote इति विकल्पस्योपरि नुदन्तु।
06:55 Numbering अपि च Type इति शीर्षकयुता काचित् संवादपेटिका दृश्यते।
07:02 अत्र Automatic, Character, Footnote अपि च Endnote इति चिह्नकानि दृश्यन्ते।
07:08 Numbering इति विकल्पः फुट्नोट् अपि च एंड्नोट् एतयोः कृते सङ्ख्याप्रकारं चेतुं साहाय्यं करोति।
07:15 Automatic इति विकल्पः फुट्नोट् अपि च एंड्नोट् इत्येतयोः कृते स्वयं क्रमशः सङ्ख्यां ददाति।
07:24 अधुना संवादपेटिकां पिदध्मः।
07:26 अटोमेटिक् नंबरिंग् इत्यस्य व्यवस्थां परिवर्तयितुं मेन्युबार् मध्ये Tools इति विकल्पं नुदन्तु।
07:33 अनन्तरम् Footnotes/Endnotes इत्यत्र नुदन्तु।
07:37 अत्र भवतां कृते AutoNumbering अपि च Styles इत्यनयोः कृते अटोमेटिक् व्यवस्था विद्यते।
07:42 भवन्तः स्वेच्छानुसारं विकल्पान् चित्वा OK नुदन्तु।
07:49 अधुना Insert Footnote/Endnote option इत्यत्र प्रतिगच्छामः।
07:54 Character इति विकल्पः फुट्नोट् कृते अक्षरं चिह्नं वा निश्चिनोति।
08:00 एतत् सङ्ख्या भवितुमर्हति अथवा अक्षरमपि भवितुमर्हति।
08:03 विशिष्टाक्षरं योजयितुं अक्षरस्थानात् अधः विद्यमानं पिञ्जं नुदन्तु।
08:09 अत्र भवन्तः भवदीप्सितविशिष्टाक्षरं चित्वा OK नुदन्तु।
08:17 Type इति विकल्पस्याधः Footnote अथवा Endnote इति चिन्वन्तु।
08:24 अत्र वयं Numbering इत्यस्याधः Automatic इति अपि च Type इत्यस्याधः Footnote इति चिनुमः।
08:29 अधुना OK पिञ्जस्योपरि नुदन्तु।
08:32 पश्यन्तु, फुट्नोट् इति पुटस्य अधः सङ्ख्यया सह दृश्यते।
08:39 भवन्तः This is the end of first page इति तत्र लेखितुं शक्नुवन्ति।
08:45 अनन्तरं, कीलफलके Enter कीलं नुदन्तु।
08:48 भवन्तः भवदीप्सित फुट्नोट् इतीदं लेखेन सह पुटस्याधः दृष्टुं शक्नुवन्ति।
08:55 एवमेव भवन्तः सञ्चिकायाः अन्ते एंड्नोट् अपि योजयितुं शक्नुवन्ति।
09:00 एवं च वयम् अस्य पाठस्यान्तं प्राप्तवन्तः।
09:04 सारांशरूपेण वयमत्र,
09:06 सञ्चिकायां हेडर् कथ योजनीयम्,
09:09 फुटर् कथं योजनीयम्,
09:12 प्रथमपुटात् हेडर् कथं निष्कासनीयम्,
09:15 सञ्चिकायां फुट्नोट् अपि च एंड्नोट् कथं योजनीयं इत्यादिविषयान् ज्ञातवन्तः।
09:19 अभ्यासाः,
09:22 practice.odt इति सञ्चिकाम् उद्घाटयन्तु।
09:25 सञ्चिकायां हेडर् अपि च फुटर् योजयन्तु।
09:28 हेडर् मध्ये author इति नाम योजयन्तु।
09:31 फुटर् मध्ये Page Count योजयन्तु।
09:35 page ends इति किञ्चन एंड्नोट् स्थापयन्तु।
09:39 सञ्चिकायाः प्रथमपुटात् हेडर् निष्कासयन्तु।
09:43 अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति।
09:49 यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु।
09:54 अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति।
10:04 अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु।
10:10 स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति।
10:22 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
10:33 पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal