LibreOffice-Suite-Writer/C3/Typing-in-local-languages/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:40, 26 December 2014 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording Search And Replace Auto Correct

Time Narration
सर्वेभ्यः नमस्कारः। लिब्रे आफीस रैटर मध्ये स्थानीयभाषाटङ्कनविषये विद्यमाने अस्मिन् पाठे भवद्भ्यः स्वागतम्।
अस्मिन् पाठे अहं लिब्रे आफीस मध्ये कन्नडस्य टङ्कनं कथमिति परिचाययामि।
अत्र अहम् उबंटु लिनक्स 10.04 इत्यस्मिन् लिब्रे आफीस् सूट् 3.3.4 इति तन्त्रांशं उपयुञ्जे।
अधुना अहं लिब्रे आफीस् मध्ये कन्नडटङ्कनं कथं संरचनीयमिति विवृणोमि। भवन्तः एवं प्रकारेण यस्यकस्याः अपि भाषायाः टङ्कनसंरचनाम् अत्र कर्तुं शक्नुवन्ति।
प्याकेज इत्येतेषां संस्थापनाय सिनाप्टिक् प्याकेज् मेनेजर् इतीदम् उपयुज्यताम्।
अधिकविवरणार्थं, स्पोकन् ट्युटोरियल् इत्यस्य जालपत्रे उपलभ्यमानं सिनाप्टिक् प्याकेज् मेनेजर् विषयकं पाठं पश्यन्तु।
संरचना स्तरचतुष्टये भवति -
भवतां सङ्गणके SCIM (स्किम्) संस्थापितमस्ति वा इति परिशीलयन्तु।
नो चेत्, सिनाप्टिक् प्याकेज् मेनेजर् इत्यस्य साहाय्येन प्याकेज् इत्येतान् मार्क् कृत्वा SCIM इत्यस्य संस्थापनं कुर्वन्तु।
प्रक्रियामेतां यदा कुर्वन्ति तदा पाठमिमं स्थगयित्वा समाप्त्यूर्ध्वम् अग्रे सरन्तु।
अनन्तरं SCIM-immodule (स्किम्-इमोड्यूल्) इति कीबोर्ड इन्पुट् विधानं चिन्वन्तु।
कन्नडं टेक्स्ट् इन्पुट् भाषारूपेण चेतुं SCIM इत्येतत् संरचयन्तु।
Complex Text layout रूपेण कन्नडं चेतुं लिब्रे आफीस् इत्येतेत् संरचयन्तु।
अहमधुना स्तरान् दर्शयामि।
अधुना क्रमेण, System, Administration अपि च Language support इत्यस्य उपरि नुदन्तु।
यदि पटलस्योपरि 'Remind me later' अथवा 'Install now' इति दृश्यते तर्हि, 'Remind me later' इत्यस्योपरि नुदन्तु।
Keyboard input method system मध्ये scim-immodule इति चिन्वन्तु।
अत्र एतावता एव तत् चितमित्यतः अस्माभिः न किमपि कर्तव्यम्।
तृतीयस्तरः, SCIM इत्यस्य संरचनाय क्रमेण System, Preferences अपि च SCIM Input Method इत्यस्योपरि नुदन्तु।
भवन्तः इदं पटले दृष्टुं न शक्नुवन्ति, परम् इदं यदि भवन्तः सङ्गणके यत्नं कुर्वन्ति तर्हि भवन्तः दृष्टुं शक्नुवन्ति।
IMEngine इत्यस्य अधः, Global Setup इत्यस्योपरि नुदन्तु।
SCIM इति, टेक्स्ट् प्रोसेसर् कृते याः भाषाः सहकुर्वन्ति ताः सर्वाः सूचयति।
अत्र आधिक्येन उपयुज्यमानाः सर्वाः भारतीयभाषाः यथा, हिन्दी, कन्नड, बेंगालि, गुजराति, तलिळ, मळयालम्, उर्दु इत्यादिभाषाः अन्तर्गताः सन्ति।
अस्मदीयपाठार्थं हिन्दी अपि च कन्नडं चिन्वन्तु।
भवतां संरचनां संरक्षितुं OK इत्यत्र नुदन्तु।
SCIM इत्यत्र परिणामः जातः वा इति दृष्टुं वयम् अस्माकं यन्त्रं पुनरारभामहे।
कृपया पुनरारभ्य पाठं प्रति पुनरायान्तु।
वयमधुना लिब्रे आफीस मध्ये कन्नडस्य प्रोसेसिंग संरचयाम।
Applications इत्यत्र नुत्वा Office अपि च LibreOffice Writer इत्यत्र नुदन्तु।
अधुना भवन्तः मुख्यमेन्युमध्ये Tools इत्यत्र नुत्वा तत्र Options इत्यत्र नुदन्तु।
भवन्तः Options इति संवादपेटिकां पश्यन्ति।
तस्यां, Language Settings इत्यत्र नुत्वा तत्र Languages इति विकल्पं चिन्वन्तु।
Enabled for complex text layout इति यदि न चितं वर्तते तर्हि कृपया चिन्वन्तु।
CTL इति ड्राप्डौन् मेन्यु तः Kannada इति चिन्वन्तु।
उत्सर्गेन भवतां स्थानियभाषा कन्नडभाषा चिता अस्ति।
OK इत्यत्र नुदन्तु।
अधुना वयं कन्नड अपि च आङ्ग्लभाषायां वाक्यमेकं टङ्कयामः।
वयं Baraha, Nudi अपि च UNICODE विधानानि उपयुञ्ज्महे। अन्ते च सञ्चिकां रक्षामः।
अधुना तत् दर्शयामि।
उद्घाटितायां लेखसञ्चिकायां “Ubuntu GNU/Linux supports multiple languages with LibreOffice." इति टङ्कयन्तु।
CONTROL कीलं नुत्वा स्पेस बार अपि नुदन्तु।
पटलस्य अधः दक्षिणपार्श्वे किञ्चन विंडो उद्घटते।
Baraha विधानेन तुल्यं फोनेटिक्-विधानेन लेखं टङ्कयितुं Kannada KN-ITRANS इति चिन्वन्तु।
यदि भवन्तः Nudi keyboard layout इच्छन्ति तर्हि Kannada – KN KGP इत्यत्र नुदन्तु।
अहं KN-ITRANS इति इन्पुट्-विधानं चिनोमि। एतत् सरलम् अपि च आरम्भिकाणां कृते सुलभाय अस्ति।
“Sarvajanika Tantramsha” इति आङ्ग्लभाषायां टङ्कयन्तु।
भवद्भ्यः पटले कन्नड-लेखः दृश्यते।
CONTROL नुत्त्वा स्पेसबार नुदन्तु।
विंडो अदृश्यतां याति।
अधुना वयम् आङ्ग्लभाषायां टङ्कयितुं शक्नुमः।
अर्थात्, CONTROL कीलम् अपि च स्पेसबार इति, आङ्ग्लभाषा अपि च चिताः अन्यभाषाः अनयोः मध्ये शृङ्खला इव कार्यं करोति।
कन्नड-टेक्स्ट् प्रोसेसिंग् विषये ज्ञातुं, कन्नड-टङ्कन-विषये निखरविवरणं ज्ञातुं तथा च 'arkavathu' इति लिपिमुपयुज्य नुडि-तन्त्रांशे टङ्कनं कर्तुं कृपया www.Public-Software.in/Kannada इति लिंक् मध्ये लभ्यमानां सञ्चिकां परिशीलयन्तु।
UNICODE इति जागतिकरूपेण अङ्गीकृता लिपिः (Font) इत्यतः वयं भारतीयभाषां यदा टङ्कयामः तदा UNICODE इत्यस्य उपयोगं कुर्मः।
Lohit Kannada इति काचित् UNICODE लिपिः अस्ति। तामेव अत्राहम् उपयुञ्जे।
अहमधुना भवद्भ्यःकन्नडस्य टेक्स्ट् प्रोसेसिंग् दर्शितवान् अस्मि।
एवं प्रकारेण वयं लिब्रे आफीस् रैटर् उपयुज्य SCIM इन्पुट् विधानान्तर्गततया विद्यमानां कामपि भाषां टङ्कयितुं शक्नुमः।
अन्ते भवद्भ्यः किञ्चन नियतकार्यम्।
कन्नडस्य पुस्तकत्रयस्य नाम टङ्कयन्तु।
तेषाम् आङ्ग्ललिप्यनुवादं च लिखन्तु।
अहम् एतावता एव अत्र नियतकार्यं सज्जीकृतवान् अस्मि।
सारंशरूपेण, पाठेऽस्मिन् वयं,
उबंटु अपि च लिब्रे आफीस् इति तन्त्रांशद्वयमपि भाषाव्यवस्थापनार्थं कथं संरचनीयमिति ज्ञातवन्तः।
वयं बरह नुडि इत्यादिविधानैः कथं टङ्कनीयमित्यपि दृष्टवन्तः।
वयं सञ्चिकां भाषाद्वये कथं टङ्कनीयमित्यपि ज्ञातवन्तः।
अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति।
यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु।
अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये च आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति।
अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु।
स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति।
अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal