LibreOffice-Suite-Writer/C2/Inserting-pictures-and-objects/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:53, 17 December 2013 by Nancyvarkey (Talk | contribs)

Jump to: navigation, search

Resources for recording Inserting Pictures and Formatting Features

Time Narration
00:00 LibreOffice Writer - चित्र-निवेशनम् इत्यस्मिन् मौखिकपाठे स्वागतम् |
00:06 अस्मिन् पाठे वयम् इदं पठेम -
00:09 प्रलेखे चित्र-सञ्चिका -निवेशनम्
00:12 Writer मध्ये तालिकानिवेशनम्
00:15 Writer मध्ये परिसन्धि - निवेशनम्
00:18 अत्र वयम् operating system - त्वेन Ubuntu Linux 10.04 इति, LibreOffice - संपुटसंस्करणं 3.3.4 च उपयुञ्ज्महे |
00:29 LibreOffice Writer मध्ये चित्र-सञ्चिका - निवेशनं कथमिति पाठेन आरभामहे |
00:36 अस्माकं resume.odt सञ्चिकाम् उद्घाटयेम |
00:39 प्रलेखे चित्रं निवेशयितुं प्रथमं “resume.odt” प्रलेखं नुदतु |
00:47 अधुना मेनुबारमध्ये “Insert” पर्यायं नुदतु ततश्च “Picture” नुदतु अन्ते च “From File” पर्यायं नुदतु |
00:56 भवान् पश्यति यत् “Insert picture” इति संवादपिटक: आविर्भूत: |
01:00 अधुना यदि स्वस्य system -मध्ये चित्रं रक्षितम् अस्ति तर्हि “Location” क्षेत्रे सञ्चिकानाम लिखित्वा तत् चिनोतु | यदि रक्षितं नास्ति तर्हि उत्सर्गेण उपपन्नेभ्य: चित्रेभ्य: वयम् एकं निवेशयेम |
01:16 अथ संवादपिटके वामस्थं “Pictures” इति पर्यायं नुदतु |
01:21 अधुना चित्रेषु एकं नुदतु अन्ते च “Open” पर्यायं नुदतु |
01:28 भवान् पश्यति यत् भवत​: प्रलेखे चित्रं निवेशितम् |
01:32 भवान् चित्रस्य आकारं परिवर्तयितुं तच्च resume मध्ये उपरितनदक्षिणकोणे स्थापयितुं शक्नोति |


01:38 अथ प्रथमं चित्रं नुदतु | भवान् पश्यति यत् वर्णितकीला: चित्रे आविर्भवन्ति |
01:44 कीलेषु एकस्य उपरि cursor स्थापयतु, मूषकस्य वामपिञ्जं च नुदतु |
01:50 cursor कर्षित्वा चित्रस्य आकारं परिवर्तयतु | परिवर्तनानन्तरं , चित्रे नुदतु , संपादनस्य उपरिष्टात् दक्षिणकोणं प्रति कर्षतु च |
02:01 clipboard अथवा scanner उपयुज्य अथवा वीथिकात् (gallery) इति चित्र-निवेशनस्य अन्या: पद्धतय: सन्ति |
02:09 अग्रे Writer -मध्ये तालिकानिवेशनं कथम् इति वयं पठेम |
02:13 LibreOffice writer - स्था तालिका उपयोक्तारं सूच्यांशं सारणीबद्धं कर्तुं समर्थीकरोति |
02:21 प्रलेखे तालिकां निवेशयितुं भवान् tool bar -मध्ये “Table” चित्रकं नुदतु,तालिकाया: आकारं चिनोतु च अथवा इदं भवान् menubar - स्थ- “Insert”- पर्यायेण कर्तुं शक्नोति |
02:36 ”Education Details”-शीर्षकस्य अध: तालिकां निवेशयितुं cursor तद्शीर्षकस्य अध: स्थापयतु |
02:44 अधुना menubar - मध्ये “Insert”पर्यायं नुदतु ततश्च “Tables”पर्यायं नुदतु |
02:51 इदं कतिपयक्षेत्रयुतं संवादपिटकम् उद्घाटयति |
02:55 “Name”- क्षेत्रे , तालिकाया: नाम “resume table” इति कुर्म: |
03:01 “Size” इति शीर्षकस्य अध:, “Columns” इत्यस्य क्रमाङ्क: “2” इति स्थापयाम: |
03:06 “Rows” क्षेत्रे ऊर्ध्वबाणं नुदतु ,“Rows” -क्रमाङ्क: “4” इति वर्धयतु च | इत्थं भवान् columns -स्थं rows - क्षेत्रस्थं च ऊर्ध्वतनम् अधस्तनं च बाणम् उपयुज्य तालिकाया: आकारं वर्धयितुं न्यूनीकर्तुं वा शक्नोति |


03:21 अधुना संवादपिटके “AutoFormat”- पिञ्जं नुदतु |
03:25 इदं नूतनं संवादपिटकम् उद्घाटयेत् यत्र भवान् यदृच्छया तालिकाप्रारूपं चेतुं शक्नोति |
03:33 Writer प्रारूपं चेतुं विविधपर्यायान् प्रददाति | वयं “Format” मध्ये "None " पर्यायं नुदाम: ततश्च " OK " पिञ्जं नुदाम: |
03:43 पुन: " OK " पिञ्जं नुदतु
03:45 भवान् पश्यति यत् स्तम्भद्वययुतातालिका , पङ्क्तिचतुष्टयं च शीर्षकस्य अध: निविष्टम् |
03:53 अधुना वयं तालिकायां यं कमपि सूच्यांशं कोष्टकप्रारूपे लेखितुं शक्नुम: |
03:58 यथा , प्रथमपङ्क्त्यां एकं कक्षं नुदतु , तालिकाया: च प्रथमस्तम्भं नुदतु |
04:04 वयमत्र “Secondary School Examination” टङ्कयाम:
04:08 अधुना समीपस्थं कक्षं नुदतु , “93 percent” लिखतु च |

इत्थम् इदं दर्शयति यत् रमेश: माध्यमिकशालीय-परीक्षायां 93 प्रतिशतं गुणान् प्राप्नोत् |

04:20 इत्थमेव वयम् अग्रिमशैक्षणिकवृत्तं तलिकायां टङ्कयितुं शक्नुम: |
04:25 यस्मिन् वयम् “Secondary School Examination” टङ्कितवन्त​: तस्य कक्षस्य अधस्तनकक्षं नुदतु |
04:31 अत्र वयम् “Higher Secondary School Examination” इति लिखाम: समीपस्थे कक्षे च “88 percent” इति लिखाम: |
04:41 अग्रिमकक्षम् अभिगन्तुं तृतीयपङ्क्त्यां प्रथमकक्षं नुदतु|अथवा कक्षात् कक्षं प्रति नेतुं भवान् TAB कीलं नुदितुं शक्नोति
04:52 अथ TAB नुदतु ,“Graduation” टङ्कयतु | समीपस्थे कक्षे “75%” गुणान् टङ्कयतु |


05:01 अन्ते ,अन्तिमपङ्क्त्यां प्रथमकक्षे वयं “Post Graduation” इति शीर्षकं टङ्कयाम: समीपस्थे कक्षे च “70 percent” |


05:12 वयं पश्याम: यत् resume मध्ये तालिका शैक्षणिकवृत्तेन सह आविर्भवति |
05:18 तालिकाया: अन्तिमकक्षे cursor स्थापयाम:|
05:24 अधुना यदि वयं अधिकपङ्क्तिं योजयितुम् इच्छाम: ,केवलं तालिकाया: अन्तिमपङ्क्ते: अध: ,कीलफलके “Tab” कीलं नुदतु |
05:33 भवान् पश्यति यत् नूतनपङ्क्ति: निवेशिता |
05:37 तालिकाया: वामभागे वयं प्राप्तां पदवीं “Phd” इति टङ्कयाम​:, दक्षिणभागे च प्राप्तान् गुणान् “65%” इति टङ्कयाम​: |
05:49 अथ वयं पश्याम: यत् बाणे अन्तिमकक्षे स्थापिते सति एकस्या: अध: अन्यां नूतनपङ्क्तिं योजयितुं "Tab” कील: बहु उपयुक्त: भवति |
06:00 Tab ,Shift+Tab च उपयुज्य तालिकायां कक्षं कक्षं प्रति संचरणं शक्यम् |
06:07 “Optimal Column Width” इति पर्याय: तलिकाया: अन्यत् वैशिष्ट्यं यत् तत् स्वत: एव कक्षस्य विषयानुगुणं स्तम्भविस्तारं समीकरोति |
06:18 तालिकाया: द्वितीये अथवा दक्षिणभागस्थस्तम्भे एनं विशेषम् अन्वेतुं प्रथमं द्वितीयेस्तम्भे कुत्रापि cursor नुदतु स्थापयतु च |
06:30 अथ अन्तिमकक्षे “65%” इत्यस्मात् अनन्तरं cursor स्थापयाम: |
06:35 अधुना menubar मध्ये “Table” मेनु नुदतु ततश्च “Autofit” पर्यायं प्रति गच्छतु |
06:42 पटले यत् menu आविर्भवति , तत्र “Optimal Column Width” पर्यायं नुदतु |
06:49 भवान् पश्यति यत् स्तम्भविस्तार: स्तम्भस्थकक्षस्य विषयानुगुणं स्वयमेव समीभवति|
06:58 तालिकायां कस्य अपि स्तम्भस्य कृते वयं इदं तथैव कर्तुं शक्नुम: |


07:02 भवान् तालिकाया: कृते विविधप्रकारकसीमा: विन्यासयितुं शक्नोति, भवदीयतालिकायां सर्वथा सीमा: न स्यु:, अन्त:सीमा: स्यु: अथवा केवलं बहिर् सीमा: भवितुम् अर्हन्ति |


07:15 एतदर्थं , मुख्यमेनुमध्ये Table tab , Table Properties ,तथा च योग्यं पर्यायं चेतुं Borders tab पर्यायं चिनोतु |
07:25 अग्रे वयं परिसन्धि: कथं निर्मातव्य: इति पठेम |
07:30 परिसन्धीन् अनुकर्ता उपयोक्ता परिपाठ्यं संचारयितुं गवेषयितुं वा उक्त: भवति |
07:35 परिसन्धि: नाम प्रलेखस्य सङ्केत: यं वाचक: साक्षात् अनुकर्तुं शक्नोति अथवा तत् स्वत: एव अनुकरोति |
07:43 परिसन्धि: संपूर्णं प्रलेखम् अथवा तत्रस्थं विशिष्टम् अंशं निर्दिशति |
07:49 सञ्चिकायां परिसन्धे: निर्माणात् पूर्वं , वयं प्रथमं परिसन्धियुतं प्रलेखं निर्मापयाम: |


07:56 अथ , toolbar मध्ये “New” चित्रकं नुदतु |


08:00 नूतन: अक्षर - प्रलेख: उद्घटति | अधुना अस्मिन् वयं “Hobbies” निमित्तं तालिकां निर्मापयाम: |


08:06 अथ वयं “HOBBIES” इति शीर्षकं लिखेम |
08:09 Enter -कीलं नुदतु |
08:11 अधुना वयं कतिचन-अभिरुचीन् एकस्य अध: एकं लिखेम यथा “Listening to music”, ”Playing table tennis”,“Painting” .
08:20 अथ इमां सञ्चिकां रक्षेम |
08:24 toolbar मध्ये “Save”-चित्रकं नुदतु |“Name” -क्षेत्रे ,सञ्चिकानाम “hobby” इति टङ्कयेम |
08:30 “Save in folder” मध्ये अधस्तनबाणं नुदतु ,“Desktop” -पर्यायं नुदतु च | अधुना “Save” पिञ्जं नुदतु |


08:40 अथ सञ्चिका उत्पीठे रक्षिता भवति |
08:43 अधुना वयं इमां सञ्चिकां पिदधाम: | अधुना “resume.odt” सञ्चिकायां परिसन्धिं निर्मापयाम: यत् एतं प्रलेखम् उद्घाटयेत् |
08:53 अधुना वयं शिक्षणवृत्तयुताया: तालिकाया: अध: “HOBBIES” इति शीर्षकं लिखेम |
09:00 “HOBBIES” इति शब्दं परिसन्धिं कर्तुं ,प्रथमं शीर्षकेण सहैव बाणं कर्षित्वा “HOBBIES” इति शब्दं चिनोतु |
09:09 अधुना मेनुबारमध्ये “Insert” menu नुदतु ततश्च​ “Hyperlink” पर्यायं नुदतु |
09:15 एक: संवादपिटक: उद्घटति यस्मिन् “Internet”,”Mails and news”,”Document” ,“New Document” चादिपर्याया: सन्ति |
09:24 वयं text document निमित्तं परिसन्धिं निर्मापयन्त: स्म:,अत: वयं “Document” पर्यायं नुदाम: |
09:30 अधुना “Path” क्षेत्रे “Open file”पिञ्जं नुदतु |
09:36 अधुना अस्माभि: य: नूतन: प्रलेख: निर्मित: आसीत् तम् अभिगन्तुं संवादपिटके “Desktop” पर्यायं नुदाम​: |
09:44 अधुना “hobby.odt” पर्यायं नुदतु ततश्च “Open” पिञ्जं नुदतु |
09:52 भवान् पश्यति यत् “Path” क्षेत्रे सञ्चिकाया: सङ्केत: निवेशित: |
09:57 “Apply” क्षेत्रे नुदतु ततश्च “Close” पिञ्जं नुदतु |
10:02 भवान् पश्यति यत् “HOBBIES” - शब्द: अधोरेखित: नीलवर्णित: च अस्ति | अत: असौ शब्द: अधुना परिसन्धि: अस्ति |
10:11 अधुना “HOBBIES” इति शीर्षके बाणं स्थापयतु ,“Control”कीलं, मूषकस्य वामपिञ्जं च युगपत् नुदतु|


10:19 भवान् पश्यति यत् अभिरुचि - विषय-युतासञ्चिका उद्घटति |
10:23 तथैव भवान् चित्राणां जालपुटानां च कृते अपि परिसन्धीन् निर्मातुं शक्नोति |
10:30 अत्र LibreOffice writer विषयकं spoken tutorial समाप्यते |
10:35 अस्माभि: यद् पठितं तद् संक्षेपेण -
10:37 प्रलेखे चित्र-सञ्चिका -निवेशनम्


10:39 Writer मध्ये तालिकानिवेशनम्
10:42 Writer मध्ये परिसन्धि - निवेशनम्


10:48 व्यापिका परीक्षा
10:50 “practice.odt” उद्घाटयतु |
10:53 सञ्चिकायां चित्रं निवेशयतु |
10:57 स्तम्भद्वयेन पङ्क्तित्रयेण च युतां तलिकां निवेशयतु |
11:01 यदा भवान् सञ्चिकास्थं चित्रं नुदति ,तदा “www.google.com”जालपुटम् उद्घाटयितुं परिसन्धिं निर्मातु |
11:11 http://spoken-tutorial.org/What_is_a_Spoken_Tutorial अत्र उपलब्धं चलत्-चित्रं पश्यतु |इदं Spoken Tutorial प्रकल्पं संक्षेपयति |


11:17 यदि भव​द्सविधे उत्तमं bandwidth नास्ति तर्हि भवान् अवारोप्य द्रष्टुं शक्नोति |


11:22 वयं spoken tutorials उपयुज्य कार्यशाला: आयोजयाम: |


11:27 online - परीक्षाम् उत्तीर्णेभ्य: वयं प्रमाणपत्रमपि दद्म: |
11:31 अधिक ज्ञानार्थं contact@spoken-tutorial.org इत्यत्र लिखतु|


11:37 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:

य: National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीभूत: |


11:50 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org

slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |


एतद्पाठाय घाग - नन्दिन्या योगदानं कृतम् |


संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

Nancyvarkey, PoojaMoolya, Sneha