KTurtle/C3/Control-Execution/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:56, 5 January 2015 by Vasudeva ahitanal (Talk | contribs)

Jump to: navigation, search
Time Narration
सर्वेभ्यः नमस्कारः ।
KTurtleइत्यस्मिन् Control Execution विषयके अस्मिन् प्रशिक्षणे भवद्भ्यः स्वागतम् ।
अस्मिन् प्रशिक्षणे वयं,
'while' लूप्
'for' लूप् च ज्ञास्यामः ।
प्रशिक्षणमेतं संरचयितुम् अहम् उबण्टु लिनक्स् इत्यस्य 12.04 इति आवृत्तेः, KTurtle इत्यस्य 0.8.1 बीटा इति आवृत्तेः च उपयोगं करोमि ।
Kturtle इत्यस्य प्राथमिकं ज्ञानं भवताम् अस्ति इति अहं भावयामि ।
यदि नास्ति, तत्सम्बद्ध-टुटोरियल्-प्राप्त्यै कृपया अस्माकं जालपुटस्य सम्पर्कं कुर्वन्तु - http://spoken-tutorial.org
एकं नूतनं KTurtle अप्लिकेषन् उद्घाटयाम ।
Dash home उपरि क्लिक् करवाम ।
सर्च् बार् उपरि KTurtle इति लिखाम ।
Option उपरि क्लिक् करोतु । KTurtle अप्लिकेषन् उद्घाटितं भवति ।
आदौ तावत् अहं control execution नाम किमिति विवृणोमि ।
Control execution, संविधेः (प्रोग्राम्) वेगं नियन्त्रयति ।
program execution नियन्त्रणाय विभिन्नप्रकारकाणि निबन्धनानि उपयुज्यन्ते ।
योग्यं निबन्धनं यावत् पूर्णं भवति, पुनः पुनः उत्पद्यमानः विध्यादेशसमुदायः (कोड्) लूप् इत्युच्यते ।
उदाहरणार्थं “while” लूप्, “for” लूप् च ।
“while” लूप्-तः प्रशिक्षणस्य आरम्भं करवाम ।
“while” लूप्-मध्ये, यावत् boolean मौल्यमापनं दोषयुतं न भवति तावत् विध्यादेशः (कोड्) पुनरावर्तते।
अहं “while” लूप् संरचनाक्रमं विवृणोमि ।

while loop condition भक्किकायां {

do something  

with loop increment variable }

पूर्वमेव मम समीपे पाठ्यसम्पादके (टेक्स्ट् एडिटर् मध्ये) विध्यादेशः अस्ति ।
अहं पाठ्यसम्पादकात् संविधेः (program) प्रतिलिपिं (copy) कृत्वा KTurtle सम्पादके लेपयामि (paste)।
कृपया अत्र प्रशिक्षणं स्थगयतु, संविधिं (program) भवतां KTurtle सम्पादके लिखतु च ।
संविधिलेखनस्य (program) अनन्तरं पुनः प्रशिक्षणम् अनुवर्तयतु।
अहं विधिपाठ्यं (program text) किञ्चित् अस्पष्टं दृश्यते इत्यतः उपसर्पणं (झूम्) करोमि ।
इदानीम् अहं विध्यादेशं (कोड्) विवृणोमि ।
# चिह्नम्, एतस्य अनन्तरं लिखितं वाक्यं विमृशति (कमेण्ट् करोति) ।
अर्थात्, संविधिः (प्रोग्राम्) यदा चलति तदा एतत् लैन् अत्र उत्पन्नं न भवति ।
reset आदेशः “Turtle” इत्येतम् उत्सर्गस्थितौ (डीफाल्ट्) नियोजयति ।
$x=0 (डालर् एक्स् ईक्वल् टु जीरो), x तः 0 पर्यन्तं विभिन्नप्रकारकं मूल्यम् (वेल्यू) उत्पादयति ।
keyword message इत्यस्य अनन्तरं विधौ मेसेज् " इति द्वयोः उद्धरणचिह्नयोः मध्ये दत्तम् अस्ति । “message” आदेशः “string” इत्येतं इन्पुट्-रूपेण स्वीकरोति ।
एतत् string तः पाठ्येन सहैव एकां पापप्-संवादपेटिकां (डयलाग् बाक्स्) दर्शयति ।
while $x<30 (वैल् डालर् एक्स् लेस्देन् थर्टि) “while” निर्बन्धं परिशीलयति ।
$x=$x+3 , $x बै 3 विभिन्नप्रकारकस्य मूल्यं (वेल्यू) वर्धयति ।
fontsize 15 आदेशः, print आदेशद्वारा उपयुक्तं फाण्ट्-सैज् सेट् करोति ।
Font size, इन्पुट्-रीत्या सङ्ख्यां स्वीकरोति । Pixels मध्ये सेट् करोति च (नियोजयति च) ।
forward 20 आदेशः क्यान्वास् उपरि 20 स्टेप्स् अग्रे गमनाय “Turtle” कृते अनुज्ञां ददाति ।
print $x क्यान्वास् उपरि x variable मूल्यं प्रदर्शयति ।
विधिं चालयितुं (रन्) “Run” बटन् उपरि क्लिक् करवाम ।
एका संवादपेटिका पापप् भवति । OK क्लिक् करोमि ।
त्रिगुणकानि 3 तः 30 पर्यन्तं क्यान्वास् उपरि दृश्यन्ते ।
“Turtle” क्यान्वास् उपरि 20 स्टेप्स् अग्रे चलति ।
अग्रे “for” लूप्-द्वारा कार्यं करवाम ।
“for” लूप् किञ्चन कौण्टिङ्ग् लूप् ।
“for” लूप्-मध्ये प्रतिवारम् अपि (सर्वदा अपि) विध्यादेशः (कोड्) उत्पद्यते ।
एतत् स्वस्य अन्तिम-वेल्यू यावत् प्राप्नोति, तावत्पर्यन्तं वेरियेबल् मूल्यं वर्धमानं भवति ।
इदानीमहं “for” लूप् संरचनां विवृणोमि ।
for variable = start number to end number भक्किकायां { Statement}
अहं विद्यमानविधिं मार्जयामि ।
अहं clear आदेशं टैप् करोमि । क्यान्वास् स्वच्छतायै चालयामि च (रन् करोमि) ।
इदानीम् अहं पाठ्यसम्पादकात् विधिं कापि कृत्वा KTurtle सम्पादके पेस्ट् करोमि ।
कृपया अत्र प्रशिक्षणं स्थगयतु । भवतां KTurtle सम्पादके विधिं लिखतु च ।
तन्त्रांशलेखनस्य अनन्तरं पुनः प्रशिक्षणस्य आरम्भं करवाम ।
अहं विधिपाठ्यं (program text) किञ्चिदिव अस्पष्टं दृश्यते इत्यतः झूम् करोमि ।
इदानीम् अहं विधिं विवृणोमि ।
# चिह्नम्, एतस्य अनन्तरं लिखितं वाक्यं विमृशति (कमेण्ट् करोति) ।
reset आदेशः “Turtle” इत्येतं default स्थितौ नियोजयति ।
$r=0 वेरियबल् मूल्यं r तः zero पर्यन्तम् उत्पादयति ।
for $x= 1 to 15 1 तः 15 पर्यन्तं “for” निर्बन्धं परिशीलयति ।
$r=$x*($x+1)/2 (डालर् आर् ईक्वल् टु डालर् एक्स् इन् टु डालर् एक्स् प्लस् ओन् बै टु) वेरियबल् r इत्यस्य मूल्यं गणयति ।
fontsize 18 आदेशः print आदेशद्वारा उपयुक्तस्य फाण्ट् इत्यस्य सैज् सेट् करोति ।
print $r आदेशः क्यान्वास् उपरि r वेरियेबल् मूल्यं प्रदर्शयति ।
forward 15 आदेशः Turtle इत्येतं क्यान्वास् उपरि 15 स्टेप्स् अग्रे चालयति ।
go 10,250 आदेशः क्यान्वास् वामभागात् 10 pixels, उपरिष्टात् 250 pixels अग्रे गमनाय Turtle कृते आदिशति ।
“Turtle” सर्वान् print आदेशान् किञ्चिदपि समयस्य अन्तरं विना प्रदर्शयति ।
“Wait 2” आदेशः, अग्रिमतन्त्रांशस्य एक्सिक्यूट्-करणात् पूर्वं Turtle इत्येतं 2 सेकेण्ड् “wait” कर्तुं सूचयति ।
“print” आदेशः “string” इत्यस्य उद्धरणचिह्नद्वयं दर्शयति, $r वेरियबल् अपि दर्शयति च ।
इदानीम् अहं तन्त्रांशस्य चालनाय (रन् करणाय) “ Run” कुड्मं (बटन्) क्लिक् करोमि ।
आदिमा 15 सहजसङ्ख्या, तेषां 15 सहजसङ्ख्यानां योगश्च क्यान्वास् उपरि दृश्यते ।
Turtle क्यान्वास् उपरि 15 स्टेप्स् अग्रे गच्छति ।
एतेन सह वयम् अस्य प्रशिक्षणस्य अन्तिमघट्टं प्रति आगताः स्मः ।
सङ्क्षेपतः,
अस्मिन् प्रशिक्षणे वयं,
“while”' लूप् “for” लूप् च, एतयोः उपयोगं ज्ञातवन्तः।
असैन्मेण्ट्-रूपेण लेखनाय अहं भवद्भ्यः कांश्चन तन्त्रांशान् वदामि,
“while” लूप् उपयुज्य 2 गुणनम्,
“for” लूप् उपयुज्य एकस्याः सङ्ख्यायाः गुणनकोष्ठकनिर्माणं कुर्वन्तु ।
अस्मिन् URL मध्ये लभ्यमानं विडियो पश्यन्तु - http://spoken-tutorial.org/What is a Spoken Tutorial
ट्युटोरियल् इत्यस्य सारांशः अत्र अस्ति ।
यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।
स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्)
एतत् उपयुज्य कार्यशालाः चालयति ।
आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।
अधिकविवरणार्थं, contact@spoken-tutorial.org लिखन्तु ।
अयं प्रकल्पः टाक् टु ए टीचर् परियोजनायाः कश्चन भागः अस्ति।
एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् ।
अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते - http://spoken-tutorial.org/NMEICT-Intro ]
अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः। धन्यवादाः ।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal