Difference between revisions of "KTouch/S1/Getting-Started-with-Ktouch/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 !Time !Narration |- |00.00 | KTouch इत्यस्य परिचयात्मकस्य spoken tutorial मध्ये स्वागतम्। |- |00…')
 
Line 163: Line 163:
 
|-
 
|-
 
|03.33
 
|03.33
| बृहदक्षरनिमित्तं caps lock कीलं नुदतु।  
+
|बृहदक्षरनिमित्तं caps lock कीलं नुदतु।  
  
 
|-
 
|-
Line 306: Line 306:
 
|-
 
|-
 
|06.31
 
|06.31
| english.ktouch.xml इति चित्वा Open इति नुदतु।  
+
|english.ktouch.xml इति चित्वा Open इति नुदतु।  
  
 
|-
 
|-
Line 326: Line 326:
 
|-
 
|-
 
|06.55
 
|06.55
|पश्यन्तु यत् cursor इति Student’s Line मध्ये अस्ति इति।  
+
|पश्यन्तु यत् cursor अस्ति Student’s Line मध्ये अस्ति इति।  
  
 
|-
 
|-

Revision as of 10:20, 1 April 2014

Time Narration
00.00 KTouch इत्यस्य परिचयात्मकस्य spoken tutorial मध्ये स्वागतम्।
00.04 पाठेऽस्मिन् भवान् KTouch विषये KTouch interface इत्यस्य विषये च ज्ञास्यति।
00.10 भवान् अत्र ज्ञास्यति यत्,
00.11 सङ्गणकस्य आङ्ग्लाक्षरयुक्ते कीलफलके कथं स्पष्टतया, वेगेन कुशलतया च टङ्कनीयम् इति।
00.18 भवान् एतदपि अत्र ज्ञास्यति यत्,
00.20 कथं प्रतिवारं विना कीलफलकदर्शनं टङ्कनीयम् इति।
00.24 किं नाम KTouch?
00.27 KTouch इत्येतत् किञ्चन टङ्कनबोधकम् अस्ति। एतत् भवन्तं अदिगमयति यत् online संवादात्मक-कीलफलकमुपयुज्य कथं टङ्कनीयमिति।
00.33 भवान् भवतः स्वकीयवेगेन एतत् अधिगन्तुं शक्नोति।
00.36 अनेन भवान् क्रमशः भवतः टङ्कणगतिं परिशुद्धतया वर्धयितुं शक्नोति
00.43 KTouch इत्यत्र भवतः अभ्यासाय काठिन्यस्य विभिन्नस्तरेषु पाठाः टङ्कणप्रकाराः च उपलभ्यन्ते।
00.50 अत्र वयं Ubuntu Linux 11.10 इत्यस्मिन् KTouch 1.7.1 इत्यस्य उपयोगं कुर्वन्तः स्मः।
00.59 Ubuntu तन्त्रांशकेन्द्रात् भवान् KTouch इत्येतत् संस्थापयितुं शक्नोति।
01.03 Ubuntu तन्त्रांशकेन्द्रस्य अधिकावगमनार्थं कृपया एतज्जालपुटस्थं Ubuntu Linux इति पाठं पश्यतु।
01.11 अधुना KTouch उद्घाटयामः।.
01.13 प्रथमतया Dash Home नुदतु, यच्च सङ्गणकस्य उत्पीठे (desktop) उपरि वामपार्श्वे गोलाकारेण वर्तते।
01.21 किञ्चन अन्वेषणपेटिका (Search box) दृश्यते।
01.24 तस्मिन् KTouch इति टङ्कयतु।
01.28 KTouch इत्यस्य चित्रकं (Icon) अन्वेषणपेटिकायाः (search box) अधः दृश्यते। तदुपरि नुदतु।
01.34 KTouch इत्यस्य गवाक्षः दृश्यते।
01.36 विकल्पेन भवान् Terminal इत्यस्य साहाय्येन KTouch उद्घाटयतु।
01.41 Terminal उद्घाटयितुं CTRL, ALT T च सह नुदतु।
01.47 KTouch उद्घाटयितुं Terminal मध्ये ktouch इति समादेशं टङ्कयित्वा Enter नुदन्तु।
01.55 अधुना वयं KTouch interface इत्यस्मात् परिचिताः भवेम।
01.59 मुख्यसूचिकायां File, Training, Settings, Help सूचिकाश्च समाविष्टाः सन्ति।
02.06 टङ्कणाभ्यासाय Start New Session इत्यत्र नुत्त्वा नूतनकालांशमारभ्यताम्।
02.11 टङ्कणसमये स्थगयितुं Pause Session इत्यत्र नुदतु।
02.14 भवतः टङ्कणस्तरं द्रष्टुं Lecture Statistics इत्यत्र नुदतु।
02.19 Level इति जटिलतायाः स्तरं दर्शयति यच्च टङ्कनसमये प्रयुक्तकीलानां सम्बद्धमस्ति।
02.27 Speed इति भवान् प्रतिनिमेषं कीयन्ति अक्षराणि टङ्कितवान् इति दर्शयति।
02.32 Correctness सङ्केतकं भवता कियन्ति अक्षराणि शुद्धतया टङ्कितम् इति सङ्केतयति।
02.39 The New Characters in This Level इति क्षेत्रं तानि अक्षराणि दर्शयति येषां अभ्यासः भवता चितस्तरे अभ्यस्तव्यमस्ति।
02.47 The Teacher’s Line इत्येतत् यानि अक्षराणि टङ्कनीयानि तानि दर्शयति।
02.51 The Student’s Line इत्येतत् भवता कीलफलकमुपयुज्य यानि आक्षराणि टङ्कितानि तानि दर्शयति।
02.58 मध्ये कीलफलकं दृष्टं भवति।
03.02 कीलफलकस्य प्रथमपङ्क्तौ सङ्ख्याः, विशिष्टाक्षराणि backspace कीलं च दृश्यते।
03.09 टङ्किताक्षराणि मार्जयितुं Backspace कीलं नुदतु।.
03.13 कीलफलकस्य द्वितीयपङ्क्तौ कतिचन विशिष्टाक्षराणि अपि च Tab कीलम् अस्ति।
03.20 कीलफलकस्य तृतीयपङ्क्तौ कतिचन अक्षराणि colon, semicolon अपि च Caps lock कीलं भवति।
03.28 टङ्कणसमये अधोपङ्क्तिं गन्तुं Enter कीलं नुदतु।
03.33 बृहदक्षरनिमित्तं caps lock कीलं नुदतु।
03.37 कीलफलकस्य चतुर्थपङ्क्तौ अक्षराणि, विशिष्टाक्षराणि अपि च shift कीले च स्तः।
03.45 बृहदक्षरेण टङ्कयितुम् shift कीलेन सह अक्षरं टङ्कयतु।
03.52 कीलेषु उपरि विद्यमानानि अक्षराणि टङ्कयितुं Shift कीलेन सह तानि अक्षराणि टङ्कयतु।
03.59 उदाहरणार्थम्, 1 इति सङ्ख्यायुतकीले आश्चर्यसूचकचिह्नमपि अस्ति।

तर्हि आश्चर्यसूचकचिह्नं टङ्कयितुं Shift कीलेन सह १ नुदतु।

04.11 कीलफलकस्य पञ्चमपङ्क्तौ Ctrl, Alt, अपि च Function कीलानि सन्ति। अत्र space कीलमपि अस्ति।
04.20 अधुना वयं KTouch कीलफलकं, laptop कीलफलकम् अपि च desktop कीलफलकम् इत्येतेषु काः भिन्नताः सन्ति इति पश्यामः।
04.29 एतत् मनसि तिष्ठतु यत् KTouch कीलफलकं अपि च यत् कीलफलकं desktops laptops मध्ये उपयुज्यते तच्च उभयमपि समानम् इति।
04.36 अधुना वयं कीलफलके अङ्गुलीनाम् उचितस्थानं किम् इति पश्यामः।
04.41 एतत् slide पश्यन्तु।
04.42 एतत् अङ्गुल्यः तेषां नामनि च दर्शयति।
04.46 वामतः दक्षिणे स्थितस्य अङुलीनां नाम अस्ति -

कनिष्ठिका (Little finger),


04.51 अनामिका (Ring finger),

मध्यमा (Middle finger),

04.54 तर्जनी (Index finger) अपि च

अङ्गुष्ठिका

04.59 भवतः कीलफलके भवतः वामहस्तं कीलफलकस्य वामभागे स्थापयतु।
05.03 दृढीकरोतु यत् भवतः कनिष्ठिका ‘A’ इति कीलस्य उपरि अस्ति इति।
05.07 अनामिका (Ring finger) ‘S’ इति कीलस्य उपरि,
05.10 मध्यमा (Middle finger) ‘D’ इति कीलस्य उपरि,
05.13 तर्जनी (Index finger)) ‘F’ इति कीलस्य उपरि भवेत्।
05.17 अधुना भवतः दक्षिणहस्तं कीलफलकस्य दक्षिणभागे स्थापयतु।
05.20 दृढीकरोतु यत् कनिष्ठिका (little finger) colon/semi-colon कीलस्य उपरि अस्ति इति।
05.25 अनामिका (Ring finger) ‘L’ इति कीलस्य उपरि.
05.28 मध्यमा (Middle finger) ‘K’ इति कीलस्य उपरि.
05.30 तर्जनी (Index finger) ‘J’ इति कीलस्य उपरि भवेत्।
05.34 भवतः दक्षिणाङ्गुष्ठिकां (right thumb) space इति कीलं नोदयितुं उपयुज्यताम्।
05.37 प्रथमवारं यदा भवान् KTouch इत्येतत् उद्घाटयति तदा Teacher’s Line इत्यस्य उत्सर्गलेखः (default text) दृश्यते।
05.44 एषः लेखः कथं पाठाः चेतव्याः अपि च टङ्कणीयाः इति निर्देशान् सूचीबद्धं करोति।
05.51 एतमनुशिक्षणमुद्दिश्य वयं अस्य औत्सर्गिकलेखस्य टङ्कणं परित्यज्य पाठं चिनुमः।
05.57 यदि इच्छति, भवान् इदमनुशिक्षणं स्थगयित्वा उत्सर्गलेखं टङ्कयितुं शक्नोति।
06.02 अधुना पाठान् टङ्कयितुं lecture चिनुमः।
06.07 Main menu मध्ये, File इति चित्वा Open Lecture नुदतु।
06.12 The Select Training Lecture File – ‘KTouch’ इति संवादपेटिकायां (dialog box) दृश्यते।
06.17 अधस्थसञ्चयं गवेषयतु

Root->usr->share->kde4->apps->Ktouch

06.31 english.ktouch.xml इति चित्वा Open इति नुदतु।
06.36 अत्र Teacher’s Line इति अधुना अक्षराणाम् अन्यविन्यासं दर्शयति।
06.41 अधुना टङ्कणमारभामहे।
06.43 उत्सर्गतया स्तरः प्रथमः भवति वेगः च शून्यं भवति।
06.49 अस्मिन् स्तरे नूतनाक्षराणि सन्ति यानि वयं अत्र अधिगच्छामः।
06.55 पश्यन्तु यत् cursor अस्ति Student’s Line मध्ये अस्ति इति।
06.58 भवतः कीलफलकमुपयुज्य teacher's line मध्ये प्रदर्शिताक्षराणि टङ्कयतु।


07.09 यथा यथा वयं टङ्कयामः तथा तथा अक्षराणि Student’s Line मध्ये दृश्यन्ते।
07.14 अधुना वेगस्थानं पश्यतु।
07.16 यदा भवान् टङ्कयति तदा भवतः टङ्कणगत्यनुसारं वेगस्थाने सङ्ख्या वर्धते क्षीयते वा।
07.22 यदि भवान् टङ्कणं स्थगयति तर्हि वेगगणना स्थगिता भवति।
07.25 अधुना वयं ७ अपि च ८ सङ्ख्यां टङ्कयामः यच्च Teacher’s Line मध्ये नास्ति।
07.31 Student Line रक्तं जातम्।
07.34 किमर्थम्? यतोहि वयं दुष्टु टङ्कितवन्तः अथवा टङ्कणे कश्चन दोषः अस्ति।
07.40 दोषं मार्जयामः अपि च टङ्कणं अनुवर्तयामः।
07.56 यदा भवान् पङ्क्तेः अन्तं प्राप्नोति तदा द्वितीयपङ्क्तिं गन्तुं Enter कीलं नुदतु।
08.02 अत्र Teacher’s Line इत्येतत् अक्षराणां द्वितीयसमूहं दर्शयति।
08.07 Student’s line टङ्किताक्षरात् स्वच्छः अस्ति।
08.11 अधुना वयं कियत् सम्यक् टङ्कितवन्तः इति पश्यामः।
08.14 Correctness इति क्षेत्रं भवता कियत् प्रतिशतं परिशुद्धतया टङ्कितमिति दर्शयति। यथा, कदाचित ८० प्रतिशतमिति।
08.23 वयम् अस्माकं प्रथमटङ्कणपाठं समापितवन्तः स्मः।
08.26 प्रथमतः मन्दगत्या परिशुद्धतया टङ्कणाभ्यासं कर्तुं एषा उत्तमा पद्धतिः।
08.31 यदि वयं विनादोषं सम्यक्तया टङ्कणम् अभ्यस्तवन्तः तर्हि टङ्कणवेगं सुलभतया वर्धयितुं शक्नुमः।
08.37 अधुना नूतनटङ्कणपाठं आरभामः।
08.40 Start New Session इत्यत्र नुदतु।
08.42 Start New Training Session – ‘KTouch’ इति संवादपेटिकायां (dialog box) Start from First Level इति नुदतु।
08.50 भवान् किं पश्यति?
08.52 कश्चन अक्षराणां समूहः Teacher’s Line मध्ये दृश्यते।
08.55 Student’s Line इत्येतत् तु अक्षरेभ्यः स्वच्छं सत् रिक्तम् अस्ति।
09.00 अधुना टङ्कणमारभामहे।
09.05 अभ्याससमये कदाचित् भवान् स्थगयित्वा अनन्तर आरब्धुम् इच्छेत्।
09.09 तदा कथं कालांशं स्थगयति?
09.12 pause session इत्यत्र नुदतु।
09.14 इदानीं पश्यतु यत् वेगः नैव क्षीणः इति।
09.17 स्मरन्तु यत्, वेगक्षीणता तदा भवति यदा भवान् कालांशस्य स्थगनेन विना टङ्कणं स्थगयति।
09.23 पुनः टङ्कणं अनुवर्तयितुं Teacher’s line मध्यस्थं अग्रिमाक्षरं पदं वा टङ्कयतु।
09.39 यदा भवान् टङ्कनं परिसमाप्नोति तदा Correctness क्षेत्रं परिशीलयतु। एतत् भवतः टङ्कणपरिशुद्धतां दर्शयति।
09.46 एतेन वयं KTouch इत्यस्य परिचयात्मकपाठस्य अन्तम् आगतवन्तः।
09.50 पाठेऽस्मिन् वयं KTouch interface विषये ज्ञातवन्तः। तेन समं वयं कीलफलके अस्माकम् अङ्गुलीः कथं संस्थापनीयाः इत्यपि ज्ञातवन्तः।
09.59 Teacher’s Line दृष्ट्वा अक्षराणि टङ्कयन्तु येन भवतः प्रथमपाठं समापयतु।
10.04 अत्र भवतः कृते किञ्चन कार्यमस्ति।
10.06 KTouch उद्घाट्य प्रथमस्तरस्य टङ्कणपाठं समापयतु। अस्मिन् स्तरे टङ्कणाभ्यासं करोतु।
10.13 प्रतिकीलं समीचीनाङ्गुल्याः प्रयोगं स्मरन्तु।
10.18 अधोलिखिते link मध्ये विद्यमानं दृश्यचित्रं पश्यन्तु। एतत् पाठस्य सारांशं दर्शयति।
10.24 यदि भवतः समीपे उत्तम bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
10.28 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति। ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
10.37 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
10.43 पाठोऽयं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
10.47 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
10.55 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
11.06 अस्य अनुवादकः प्रवाचकः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Vasudeva ahitanal