Java/C2/Errors-and-Debugging-in-Eclipse/Sanskrit

From Script | Spoken-Tutorial
Revision as of 16:02, 30 June 2014 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 एक्लिप्स् मध्ये दोषाः तेषां परिहाराश्च इत्याख्येऽस्मिन् पाठे भवतां स्वागतम्।
00:07 अस्मिन् पाठे वयं,
00:10 सामान्यस्य जावा प्रोग्राम् इत्यस्य लेखनसमये दृश्यमानानां दोषानां विषये,
00:14 ते दोषाः कथम् अभिज्ञातव्याः अपि च एक्लिप्स् इत्यस्य साहाय्येन ते कथं निवारणीयाः इत्यादिविषयान् अवगच्छामः।
00:20 पाठेऽस्मिन् वयं Ubuntu 11.10 अपि च Eclipse 3.7 इत्यस्य उपयोगं कुर्वन्तः स्मः।
00:27 पाठमिमम् अनुसर्तुं भवन्तः,
00:30 एक्लिप्स् मध्ये जावा प्रोग्राम् कथं रचयित्वा चालनीयं इत्यस्य ज्ञानं भवेत्।
00:33 यदि नास्ति तर्हि एतत्सम्बद्धपाठार्थं अधो निर्दिष्टं जालपुटं पश्यन्तु। [1]
00:41 जावा प्रोग्राम् मध्ये सामान्यतया,
00:45 सेमिकोलन् यदि न दृश्यते,
00:47 सन्देशम् उभयतः विद्यमानं डबल् कोट् (" ") यदि न दृश्यते,
00:50 फैल् अपि च क्लास् इत्यनयोः नाम्नि व्यत्यास्यः भवति चेत्, अपि च
00:52 प्रिंट् स्टेट्मेंट् इतीदं लोवर् केस् मध्येयदि लिख्यते तर्हि दोषाः भवन्ति।
00:55 वयं किञ्चन प्रोग्राम् विलिख्य तत्र प्रत्येकमपि दोषं कृत्वा तस्य परिणामं पश्यामः।
01:04 अस्मत्सविधे Eclipse IDE अपि च HelloWorld इति पाठाय उपयुक्तं प्रोजेक्ट् अस्ति।
01:11 वयं प्रोजेक्ट् मध्ये नूतनं क्लास् विरचय्य उपयोक्तुं शक्नुमः। New…… Class. वयं क्लास् निमित्तं Error Free इति नाम दत्त्वा methods stubs इतीदं public static Void main इति चिनुमः।
01:37 अधुना package explorer इतीदं लघु कुर्मः। कमेंट् निष्कासयित्वा कैश्चन दोषैः सह प्रिंट् स्टेट्मेंट् योजयामः।
02:23 एक्लिप्स् मध्ये दोढपूर्णपङ्क्तिः वामसीमायां रक्तचिह्नेन दृश्यते।
02:35 अत्र, System.out.println इत्यस्यां पङ्क्तौ दोषः अस्तीत्यः तस्य वामपार्श्वे रक्तचिह्नं परिदृश्यते।
02:44 तच्चिह्नोपरि यदि मौस नयन्ति तर्हि दोषानां सूची दृश्यते।
02:51 प्रथमदोषत्वेन “Syntax error, insert semi-colon to complete BlockStatements” इति दृश्यते।
02:58 यतोहि, प्रोग्राम् इत्यस्य प्रत्येकमपि पङ्क्तिः सेमिकोलन् इत्यनेन परिसमाप्तं भवेत्।
03:03 अतः, वयं पङ्क्तेः अन्ते सेमिकोलन् योजयामः।
03:08 Ctrl s इत्यस्य नोदनेन सञ्चिकां रक्षन्तु।
03:16 अवधीयताम्, यदा वयं सेमिकोलन् योजयित्वा रक्षामः तदा प्रथमः दोषः निवार्यते।
03:21 अधुना केवलं एकः दोषः वर्तते। सः, – “HelloWorld cannot be resolved to a variable” इति। अर्थात्, कश्चन अपि सन्देशः यदि कन्सोल् मध्ये दृश्येत तर्हि सह् सन्देशः डबल् कोट् इत्यस्यान्तरे भवेत् इति।
03:37 यदि कोट् नास्ति तर्हि जावा HelloWorld इतीदं वेरियेबल् इत्यस्य नाम इति चिन्तयति।
03:41 अहुना वयं सन्देशस्य आदौ अन्ते च डबल् कोट् योजयामः।
03:55 रक्षितुं Ctrl s नुदन्तु। वयमधुना रक्तचिह्नं गत्वा प्रोग्राम् दोषमुक्तम् अस्तीति दृष्टुं शक्नुमः। अतः वयं इदं प्रोग्राम् चालयित्वा परिणामं पश्यामः।
04:10 Run As ….. Java Applications …...
04:15 अत्र वयं सन्देशः कन्सोल् मध्ये मुद्रितः इति दृष्टुं शक्नुमः।
04:22 अधुना वयं अग्रिमं दोषं पश्यामः।
04:25 दोषोऽयं यदा फैल् अपि च क्लास् इत्यनयोः नाम विभिन्नं वर्तते तदा सम्भवति।
04:29 सामान्यतया एषः दोषः एक्लिप्स् मध्ये न भवति।
04:31 यतोहि, वयं फैल् इत्यस्य रचनाय New Class wizard उपयुञ्ज्महे अपि च एक्लिप्स् स्वयं फैल् रचयति।
04:41 परं, यदा वयं अन्यत्र जावा फै विरचय्य प्रोजेक्ट् कृते यदि योजयितुमिच्छामः तर्हि एषः दोषः सम्भवितुं शक्यते।
04:47 वयमधुना क्लास् इत्यस्य नाम परिवर्त्य दोषं कुर्मः।
04:59 जावा इति केस् सेन्सिटीव् अस्तीत्यतः क्लास् अपि च फैल् इत्यनयोः नाम परस्परं न मिलति।
05:09 पश्यन्तु, वामभागे रक्तचिह्नं दृश्यते।
05:14 अपि च तत्र “The public type errorfree must be defined in its own file” इति दृश्यते।
05:20 अपि च errorfree इति पदं रक्तवर्णे अस्तीत्यपि पश्यन्तु।
05:29 एक्लिप्स् अस्मभ्यं उत्तमान् परिहारान् सूचयति। वयमत्र परिहारद्वयं पश्यामः।
05:35 प्रथमः, Rename compilation unit to errorfree java.
05:39 द्वितीयः, “Rename type to ErrorFree”.
05:43 अस्मभ्यं द्वितीयमपेक्षितम् अपि च यदा वयं ErrorFree इति परिवर्तयामः तदा दोषः परिमार्ज्यते।
06:03 अग्रिमः दोषः यदा स्टेट्मेंट् मध्ये दुष्टं यत्किञ्चित् टङ्कयामः तदा भवति।
06:09 वयमधुना बृहत् S इतीदं लघु s प्रति परिवर्तयामः।
06:15 अधुना वयं रक्तचिह्नं पश्यामः।
06:18 अपि च तत् वदति यत्, system cannot be resolved इति।
06:23 अर्थात्, जावा, system इति नाम्ना क्लास्, आब्जेक्ट् अथवा वेरियेबल् इत्यस्य निरीक्षायामासीत्।
06:28 परं कोड् मध्ये तादृशं किञ्चन अपि आब्जेक्ट् नास्ति।
06:33 अतः, वयमधुना परिहारं पश्यामः।
06:39 वयमत्र एकादशपरिहारान् पश्यामः। तेषु वयम् अष्टमं इच्छामः।
06:48 Change to 'System' (java.lang)
06:58 पश्यन्तु। यदा वयं बृहत् S इतीदं परिवर्तयामः तदा दोषः परिमार्ज्यते।
07:06 एवं वयं एक्लिप्स् इत्यस्य साहाय्येन जावा मध्ये दोषान् पश्यामः अपि च परिमार्जयामः।
07:15 एतेन वयं अस्य पाठस्य अन्तमागतवन्तः।
07:18 अस्मिन् पाठे वयम्,
07:20 जावा प्रोग्राम् लेखनसमये ये दोषाः भवन्ति तान् अपि च,
07:23 एक्लिप्स् इत्यस्य साहाय्येन तेषां निवारणं कथमिति ज्ञातवन्तः।
07:30 अस्य पाठस्य अभ्यासाय, अधः विद्यमाने कोड् मध्ये दोषं अन्विश्यताम्।
07:39 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुं अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु। एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
07:48 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
07:53 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
07:57 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयतेअधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
08:07 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
08:11 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
08:17 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
08:23 अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal