Tux-Typing/S1/Getting-started-with-Tux-Typing/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:00 | Tux Typing इत्यस्य परिचयात्मकेऽस्मिन् ट्यूटोरियल मध्ये भवते स्वागतम्। |
00:04 | अस्मिन् ट्यूटोरियल मध्ये भवान् Tux Typing अपि च Tux typing इंटरफेस इत्यनयोः विषये ज्ञास्यति। |
00:10 | भवान्, |
00:12 | सङ्गणकीये आङ्ग्लाक्षरयुक्ते कीलफलके वेगेन, स्पष्टेन, निपुणतया च कथं टङ्कनीयम् इति ज्ञास्यति। |
00:19 | भवान् टङ्कनसमये प्रतिवारं विनाकीलफलकदर्शनं कथं टङ्कनीयमित्यपि अभ्यस्यति। |
00:25 | Tux Typing नाम किम्? |
00:27 | Tux Typing इति किञ्चन टङ्कनबोधकमस्ति। |
00:30 | एतत् भवते संवादात्मकटङ्कनक्रीडाद्वारा टङ्कनं बोधयति अपि च भवते विभिन्नाक्षराणामपि परिचयं कारयति। |
00:38 | भवान् भवतः गत्यनुसारं टङ्कनमभ्यस्तुं शक्नोति। |
00:41 | अपि च मन्दं मन्दं स्वटङ्कनगतिं विशुद्धतया वर्धयितुं शक्नोति। |
00:46 | Tux Typing भवतः अभ्यासाय नूतनशब्दम् अपि च टङ्कनाय भाषामपि सेट् कर्तुं सक्षमं करोति। |
00:54 | अत्र अहं उबंटू लिनक्स 11.10 इत्यस्मिन् Tux Typing 1.8.0 इत्यस्य उपयोगं कुर्वाणः अस्मि। |
01:02 | भवान् उबंटू सॉफ्टवेयर सेंटर इत्यस्य उपयोगद्वारा Tux Typing संस्थापयितुं शक्नोति |
01:07 | उबंटू सॉफ्टवेयर सेंटर इत्यस्य अधिकज्ञानार्थं भवान् एतस्मिन् वेबसाइट मध्ये उबंटू लिनक्स इत्यस्य टयूटोरियल्स अनुसर्तुं शक्नोति। |
01:16 | Tux Typing उद्घाटयतु। |
01:19 | प्रथमम्, Dash Home इत्यत्र नुदतु, यच्च भवतः सङ्गणकस्य डेस्क्टाप् मध्ये उपरि दक्षिणकोणे गोलाकारस्य बटन् इव अस्ति। |
01:26 | Search बॉक्स प्रदृष्टं भवति। Dash Home इत्यस्य पुरतः सर्च बॉक्स मध्ये Tux Typing इति टङ्कयतु। |
01:34 | सर्च बॉक्स इत्यस्य अधः Tux Typing इति आइकन प्रदृष्टं भवति। |
01:39 | Tux Typing इति आइकन नुदतु। |
01:42 | Tux Typing इत्यस्य विंडो प्रदृष्टं भवति। |
01:46 | Tux Typing इत्यस्मिन् अधस्थं मेन्यू अन्तर्गतमस्ति। |
01:50 | Fish Cascade – क्रीडाक्षेत्रम् ।
Comet Zap – अपरं किञ्चन क्रीडाक्षेत्रम्। |
01:56 | Lessons – यत्र विभिन्नपाठाः अन्तर्गताः सन्ति, ये च अस्मभ्यं अक्षराभ्यासं कारयति। |
02:01 | Options – अत्र विद्यमानविकल्पाः अस्मभ्यं शब्दसम्पादनार्थं, वाक्यटङ्कनार्थं, टक्स टैपिङ्ग विषये ज्ञातुं अपि च भाषां निर्धारयितुं साहाय्यं करोति। |
02:13 | Quit – क्रीडां समापयितुं अत्र नोत्तव्यम्। |
02:16 | पाठानाम्पुपयोगेन टङ्कनाभ्यासम् आरभामहे। |
02:20 | मुख्य मेन्यू मध्ये, Lessons इत्यत्र नुदतु। |
02:23 | पाठसहितं किञ्चन विंडो प्रदृष्टं भवति। |
02:26 | प्रथमपाठात् अभ्यासस्य आरम्भं कुर्मः। |
02:30 | basic_lesson_01.xml इत्यत्र नुदतु। |
02:35 | निर्देशैः सह विंडो प्रदृष्टं भवति। निर्देशान् पठतु। |
02:41 | पाठारम्भणार्थं, space bar नुदतु। |
02:45 | कीलफलकेन समं विंडो प्रदृष्टं भवति। |
02:48 | अधुना वयं a इति अक्षरस्य अभ्यासं कुर्मः। |
02:52 | अभ्यासस्य आरम्भार्थं p इति नुदतु। |
02:56 | किञ्च्न विंडो दृश्यते यच्च अक्षराणि दर्शयति। |
03:01 | अत्र ‘aaa aaa…..’ इति पङ्क्तिः किं द्योतयति? |
03:07 | भवता एतानि अक्षराणि टङ्कनीयानि सन्ति इति। |
03:10 | एतस्याः पङ्क्तेः टीटर्स लाइन इति नाम दद्मः। |
03:13 | अधुना वयं आङ्ग्लकीलफलकं पश्यामः, यच्च अस्माभिः आधिक्क्येन उपयुक्तं स्तरीयकीलफलकमस्ति। |
03:19 | किम् भवान् a इत्येतत् परितः रक्तवर्णं पश्यन् अस्ति? एतत् द्योतयति यत् भवता अधुना एतदक्षरं टङ्कनीयमस्तीति। |
03:27 | कीलफलकस्य प्रथमपङ्क्तिः सङ्ख्यां, विशिष्टाक्षराणि अपि च बैकस्पेस कीलं दर्शयति। |
03:35 | टङ्कितं मार्जयितुं Backspace कीलं नोत्तव्यम्। |
03:39 | कीलफलके अपरं पङ्क्तित्रयं भवति यत्र वर्णमाला, सङ्ख्या अपि च अन्याक्षराणि भवन्ति। |
03:51 | कीलफलकस्य द्वितीयपङ्क्तौ वर्णमाला, कतिचन विशिष्टाक्षराणि अपि च Enter कीलम् अस्ति। |
03:58 | अग्रिमपङ्क्तिं गन्तुं भवता Enter कीलम् नोत्तव्यं भवति। |
04:02 | कीलफलकस्य तृतीयपङ्क्तौ वर्णमाला, colon, semicolon अपि च Caps lock कीलानि भवन्ति। |
04:10 | बृहदक्षरेण टङ्कयितुं Caps Lock कीलं उपयुज्यताम्। |
04:14 | कीलफलकस्य चतुर्थपङ्क्तौ वर्णमाला, विशिष्टाक्षराणि अपि च shift कीलमस्ति। |
04:21 | बृहदक्षरेण टङ्कयितुं किमपि अक्षरं Shift कीलेन सह नुदतु। |
04:27 | कीलेषु उपरि विद्यमानानि अक्षराणि टङ्कयितुं Shift कीलेन समं तदक्षरं नुदतु। |
04:34 | उदाहरणार्थम्, 1 इति कीले उपरि आश्चर्यसूचकचिह्नमपि अस्ति। |
04:39 | आश्चर्यसूचकचिह्नं टङ्कयितुं Shift कीलेन समं 1 नुदतु। |
04:44 | कीलफलकस्य पञ्चमपङ्क्तौ Ctrl, Alt, अपि च फंक्शन कीलानि सन्ति। अत्र स्पेस बार अपि अस्ति। |
04:52 | अधुना पश्यामः यत्, टक्स टाइपिंग कीलफलकम्, लैपटॉप कीलफलकम् अपि च डेस्कटॉप कीलफलकम् इत्येतेषां मध्ये अन्तरमस्ति वा इति। |
05:00 | अवगच्छन्तु यत्, टक्स टाइपिंग कीलफलकम् अपि च यानि च लैपटॉप्स तथा डेस्कटॉप मध्ये उपयुज्यन्ते तानि कीलफलकानि समानानि सन्ति इति। |
05:10 | अधुना कीलफलके अस्माकं अङ्गुलीनां स्थानानि किम् इति पश्यामः। |
05:14 | एतत् स्लाइड पश्यतु। |
05:16 | एतत् अङ्गुलयः अपि च तासां नामानि च दर्शयति। वामतः दक्षिणं विद्यमानायाः अङ्गुलीनां नामानि एवं सन्ति: |
05:21 | कनिष्ठिका (Little finger), अनामिका (Ring finger), मध्यमा (Middle finger), तर्जनी (Index finger) अपि च अङ्गुष्टिका (Thumb). |
05:27 | स्वकीयकीलफलके स्ववामहस्तं कीलफलकस्य वामपार्श्वे स्थापयतु। |
05:32 | कनिष्ठिका (Little finger) ‘A’ इति अक्षरस्योपरि अस्ति इति निश्चिनोतु। |
05:35 | अनामिका ‘S’ इत्यस्य उपरि, |
05:38 | मध्यमा ‘D’ इत्यस्य उपरि, |
05:41 | तर्जनी ‘F’ इत्यस्य उपरि भवतु। |
05:44 | अधुना दक्षिणहस्तं कीलफलकस्य दक्षिणपार्श्वे स्थापयतु। |
05:49 | कनिष्ठिका कॉलन/सेमीकॉलन कीलस्योपरि अस्तीति निश्चिनोतु। |
05:54 | अनामिका ‘L’ इत्यस्योपरि, |
05:56 | मध्यमा ‘K’ इत्यस्योपरि, |
06:00 | तर्जनी ‘J’ इत्यस्योपरि भवेत्। |
06:03 | स्पेस बार नोत्तुं दक्षिणाङ्गुष्ठिकाम् उपयुज्यताम्। |
06:08 | हस्तद्वयस्य चित्रं भवते उचिताङ्गुलेः उपयोगद्वारा टङ्कनं कर्तुं मार्गं निर्दिशति। |
06:14 | किम् भवान् कनिष्ठिकाम् उपयोक्तुं रक्तस्थानम् अन्विषन् अस्ति? |
06:19 | भवतः ऊहा समीचीना अस्ति, भवता a इति टङ्कयितुं तस्याः उपयोगः करणीयः। |
06:23 | कीलफलके पाठेऽस्मिन् यथा दर्शितं तथा स्वकीयाः अङ्गुलीः स्थापयन्तु। |
06:29 | अधुना टङ्कनमारभ्यताम्। |
06:32 | यथा यथा वयं टङ्कयामः तथा तथा अक्षराणि टीचर्स लाइन इत्यस्मात् अधस्थे लाइन मध्ये प्रदृष्टं भवति। |
06:39 | एतस्य कृते स्टुडेंट लाइन इति नाम दद्मः। |
06:42 | अधुना, यत् टीचर्स लाइन मध्ये नास्ति तदक्षरं टङ्कयतु। |
06:47 | किम्, दोषेण टङ्कितम् आक्षरं स्टुडेंट लाइन मध्ये प्रदृष्टं भवति? एतत् प्रदृष्टं न भवति। |
06:53 | एतत् स्थाने, कीलफलके दोषेण टङ्किते अक्षरे X इति चिह्नं किञ्चित् कालं दृश्यते। |
06:59 | अधुना कतिचन अक्षराणि टङ्कयतु। |
07:02 | अधुना अस्माकं टङ्कनस्य मैट्रिस इत्यस्य गणनां कुर्मः। |
07:07 | अधुना भवान् अनुमिनोतु यत् दक्षिणस्थं फील्ड्स किं दर्शयति। |
07:13 | Time – इति भवतः टङ्कनगतिं निर्दिष्टं करोति। |
07:17 | Chars – इति भवता टङ्कितनां अक्षराणां सङ्ख्यां दर्शयति। |
07:21 | CPM – इति भवता प्रतिनिमेषं कियन्ति अक्षराणि टङ्कितानि इति दर्शयति। |
07:26 | WPM – इति भवता टङ्कितशब्दानां सङ्ख्यां निर्दिष्टं करोति। |
07:31 | Errors – इति भवता कियन्ति दोषाक्षराणि टङ्कितानि इति दर्शयति। |
07:34 | Accuracy – इति भवतः टङ्कनशुद्धतां दर्शयति। |
07:40 | मुख्य मेन्यू प्रति गन्तुं Escape कीलं वारद्वयं नुदतु। |
07:45 | वयं अस्माकं प्रथमं टाइपिंग पाठं अभ्यस्तवन्तः स्मः। |
07:47 | मन्दगत्यां शुद्धरूपेण टैप कर्तुं प्रथमवारं अभ्यस्तुं च एतत् सम्यक् अस्ति। |
07:52 | एकवारं विनादोषं शुद्धरूपेण टङ्कनं अभ्यसामः चेत् वयं अस्माकं टङ्कनगतिं वर्धयितुं शक्नुमः। |
07:59 | एतेन समं वयं टक्स-टाइपिंग इति पाठस्य अन्तं प्राप्तवन्तः। |
08:03 | एतस्मिन् ट्यूटोरियल मध्ये वयं टक्स-टाइपिंग इंटरफेस विषये ज्ञातवन्तः। अस्माकं प्रथमटङ्कनपाठं सम्पूर्णं कृतवन्तः। |
08:11 | अत्र भवतः कृते किञ्चन नियतकार्यमस्ति। |
08:13 | basic_lesson_02.xml इत्यत्र गच्छतु। |
08:19 | एतस्मिन् स्तरे अभ्यासं करोतु। |
08:21 | अस्मिन् स्तरे विद्यमानानि सर्वाणि अक्षराणि टङ्कयतु अपि च Enter नुदतु। |
08:26 | एवमेव भवान् पाठान्तरस्य अभ्यासं कर्तुं शक्नोति। |
08:30 | अधस्थे लिंक मध्ये उपलब्धं विडियो पश्यन्तु।http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
08:33 | एषः स्पोकन ट्यूटोरियल इत्यस्य सारांशः अस्ति। |
08:36 | यदि भवतां समीपे उत्तमं बैंडविड्थ नास्ति तर्हि भवन्तः एतत् अवचित्यापि (डाउनलोड) द्रष्टुं शक्नुवन्ति। |
08:41 | स्पोकन ट्यूटोरियल प्रकल्पगणः (प्रोजेक्ट टीम) : |
08:43 | स्पोकन ट्यूटोरियल इत्यस्य उपयोगद्वारा कार्यशालाः अपि चालयति। |
08:46 | ये ऑनलाइन परीक्षाम् उत्तरन्ति तेभ्यः प्रमाणपत्रमपि दीयते। |
08:50 | अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु। |
08:56 | स्पोकन ट्युटोरियल प्रोजेक्ट टॉक-टू-अ-टीचर प्रोजेक्ट इत्यस्य भागः अस्ति। |
09:00 | एतत् भारतसर्वकारस्य एमएचआरडी इत्यस्य “आईसीटी माध्यमेन राष्ट्रीयसाक्षरतामिशन” द्वारा समर्थितमस्ति। |
09:08 | अस्य विषये अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इति लिंक मध्ये उपलब्धमस्ति। |
09:19 | अस्य प्रतेः अनुवादकः प्रवाचकश्च ऐ ऐ टि बांबे तः वासुदेवः अधुना आपृच्छति। समयदानाय धन्यवादः। |