Java/C2/Programming-features-Eclipse/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
00:02 | एक्लिप्स् मध्ये प्रोग्राम-वैशिष्ट्यानां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्। |
00:07 | पाठेऽस्मिन् वयम्, |
00:10 | एक्लिप्स् इत्यस्य सरलानि प्रोग्राम-वैशिष्ट्यानि ज्ञास्यामः। |
00:15 | अत्र वयं Ubuntu 11.0, JDK 1.6 अपि च Eclipse 3.7.0 इत्येतेषाम् उपयोगं कुर्मः। |
00:23 | पाठमिममनुसर्तुम् अस्माकं यन्त्रे, |
00:26 | एक्लिप्स् संस्थापितं भवेत् अपि च, |
00:28 | भवन्तः एक्लिप्स् मध्ये सरलं जावा प्रोग्राम् कथं लेखनीयं तत्कथं चालनीयमित्यपि जानीयुः। |
00:32 | नो चेत्, एतत्सम्बद्धपाठार्थं कृपया अधो विद्यमानं जालपत्रं पश्यन्तु। |
00:40 | एक्लिप्स् IDE इत्यस्मिन् बहुसरलवैषिष्ट्यानि सन्ति। उदाजरणार्थं, |
00:44 | Auto completion, Syntax highlighting, |
00:46 | Error dialog box अपि च Shortcut keys. |
00:49 | वयं प्रत्येकमपि वैशिष्ट्यं विस्तृतरूपेण पश्यामः। |
00:59 | अहं Features इति नाम्ना क्लास रचितवान् अस्मि अपि च मैन् मेथेड् अत्र योजितवान् अस्मि। |
01:05 | वयं प्राथम्येन एक्लिप्स मध्ये Auto completion इति वैषिष्ट्यस्य विषये पश्यामः। |
01:10 | मैन मेथेड् इत्यस्य अन्तः ओपनिंग् ब्रेस् टङ्कयित्वा Enter नुदन्तु। |
01:17 | पश्यन्तु, एतत् स्वयं तत्सम्बद्धं क्लोसिंग् ब्रेस् अपि च कर्सर इत्यस्य स्थानं व्यवस्थापयति। |
01:25 | एतत्, यानि कोड्स् युगलेषु कार्यं कुर्वन्ति तानि पूर्णानि करोति। |
01:29 | उदाहरणार्थं, पेरांथिसिस्, ओपन् पेरंथिसिस् टङ्कयन्तु, |
01:35 | अत्र वयं पश्यामः यत्, वयं केवलं ओपन् पेरांथिसिस् टङ्कियवन्तः अपि च एक्लिप्स्, स्वयं क्लोसिंग् पेरांथिसिस् योजयति। |
01:42 | अत्र अवधेयं यत्, यदि वयं द्वितीयवारमपि क्लोसिंग् पेरंथिसिस् टङ्कयामः तदा एतत् वारद्वयं क्लोसिंग् पेरांथिसिस् यथा न आगच्छेत् तथा अवदधाति। |
01:52 | अहमधुना क्लोसिंग् पेरांथिसिस् टङ्कयामि। अधुना पश्यन्तु, केवलं कर्सर् वामतः गच्छति, अपरं पेरांथिसिस् न युज्यते। |
02:02 | एवमेव डबल् कोट् मध्ये अपि भवति। |
02:06 | यदि ओपनिंग् कोट् टङ्कयामः तर्हि तत् स्वयं क्लोसिंग् कोट् टङ्कयति। |
02:12 | यदि वयं क्लोसिंग् कोट् अपि टङ्कयामः तर्हि तत् यथा द्वितीयं क्लोसिंग् कोट् न आगच्छेत् तथा अवदधाति। |
02:19 | अधुना अहं कोट् टङ्कयामि। तदा कर्सर वामपार्श्वं सरति अपि च अपर कोट् न युज्यते। |
02:27 | Auto-completion इति बहुमुखि वैशिष्ट्यं सत् एतत् कोड् इत्यस्य रचनानिर्वहणे महत् साहाय्यं करोति। |
02:32 | अपि च पेरांथिसिस्, ब्रेस्, क्लोसिंग् कोट् इत्येतेषाम् अदर्शनेन उद्भाव्याः दोषाः परिह्रियन्ते। |
02:44 | अग्रिमवैशिष्ट्यं suggestion इति। |
02:48 | एतावत् पर्यन्तं टङ्कितं सर्वमपि मार्जयामः। |
02:54 | वयं hello इत्येतत् प्रिंट् कर्तुं औट्पुट् स्टेट्मेंट् लिखामः। System dot …. |
03:07 | पश्यन्तु, एक्लिप्स् इति ड्राप्डौन्-सूचीं दर्शयति, |
03:11 | यत्र च स्टेट्मेंट् इत्यस्य पूरणाय अपेक्षिताः err, in, out, console इत्यादयः सर्वाः सम्भावनाः सूचयति। |
03:19 | अधः out इत्यत्र गत्वा Enter नुदन्तु। पुनः dot इति टङ्कयन्तु। |
03:28 | अधुना एक्लिप्स् औट् मड्यूल् तः सलहां ददाति। |
03:33 | अधः println() इत्यत्र गत्वा Enter नुदन्तु। अधुना पेरांथिसिस् इत्यस्य अन्तः कोट् इत्यनयोरन्तरे Hello इति टङ्कयन्तु। |
03:57 | अग्रिमम्, Syntax highlighting इति वैशिष्ट्यम्। |
04:02 | अत्र अवधीयताम्, public class, public static void इति द्वे कीवर्ड् विभिन्न-वर्णे स्तः |
04:09 | अपि च Hello इति नीलवर्णे अस्ति। एतेन एतत् स्ट्रिंग् इति ज्ञायते। |
04:16 | एतत् Syntax highlighting इति वैशिष्ट्यं कीवर्ड अपि च कोड् इत्येतेषां विविधान् भागान् पृथक् करोति। |
04:27 | एक्लिप्स् इति प्रोग्रामर् कृते दोषान्वेषणे अपि साहाय्यं करोति। |
04:31 | प्रोग्राम् मध्ये दोषः वामभागे रेड् क्रास् चिह्नरूपेण सूचितः भवति। |
04:36 | वयम् अस्मिन् प्रोग्राम् मध्ये दोषः अस्ति इति दृष्टुं शक्नुमः। दोषस्योपरि मौस् नयन्तु। |
04:46 | तत्र वयं सेमिकोलोन् नष्टमस्ति इति दोषं पश्यामः। तस्य परिहारमपि वयं तत्र पश्यामः। |
04:57 | वयं यदि दोषम् अपरिहृत्य अग्रे सरामः, यथा, रैट् क्लिक् कृत्वा run as इति चित्वा तत्र application इति चिन्वन्तु …. |
05:12 | ….तर्हि वयं Error इति कांश्चन संवादपेटिकां पश्यामः यत्र च, “अत्र कश्चन दोषः अस्ति, अतः अग्रे गन्तव्यम् उत न” इति पृच्छा भवति। |
05:16 | अधुना वयम् अग्रे सरामः। वयमत्र दोषं दर्शयत् फलितं पश्यामः अपि च, |
05:35 | वयं यदि प्रोब्लम् कन्सोल् प्रति गच्छामः तर्हि तत्र सर्वान् दोषान् तेषां परिहारान् च सूचिबद्धं पश्यामः। |
05:43 | वयम् अधुना सेमिकलोन् योजनेन दोषं परिहरामः। रक्षितुं Ctrl S नुदन्तु। |
05:53 | एक्लिप्स् मध्ये विद्यमानस्य प्रोग्राम् कृते साहाय्यीभूतम् अपरं वैशिष्ट्यं नाम shortcut-keys. |
06:01 | सर्वस्मिन् प्रोग्राम् मध्ये विद्यमानं सामान्यं shortcut-key इत्युक्ते रक्षितुं Ctrl+S अपि च उद्घाटयितुं Ctrl+O. |
06:07 | एक्लिप्स् मध्ये अपि सामान्यतया उपयुज्यमानाभ्यः प्रक्रियाभ्यः shortcut key सन्ति। |
06:12 | Control F11. एतत् कोड् इत्येतत् रन् कर्तुं अस्ति। |
06:16 | इदं प्रयतामहे। Ctrl कीलं गृहीत्वा F11 कीलं नुदन्तु, पश्यन्तु अधुना कोड् इत्येतत् रन् भूत्वा फलिते Hello इति प्रिंट् जातमस्ति। |
06:27 | विभिन्नविकल्पेभ्य विद्यमानः शार्ट्कट् मेन्यु मध्ये दृश्यते। Run इत्यत्र नुदन्तु। |
06:33 | अत्र पश्यन्तु, विकल्पानां वामभागे तेश्ःआं शार्ट्कट्स् सन्ति। |
06:40 | अत्र Debug कृते विद्यामानं शार्ट्कट् इत्युक्ते F11. |
06:45 | एषा बह्वी लघ्वी परं एक्लिप्स् मध्ये बहुधा उपयुज्यमाना प्रोग्रामिंग् वैशिष्ट्यानां सूची वर्तते। वयम् इतोऽप्यधिकानि वैशिष्ट्यानि अग्रिमेषु पाठेषु ज्ञास्यामः। |
06:56 | अत्र असौ पाठ समाप्यते। अस्मिन् पाठे वयं एक्लिप्स् मध्यस्थानि प्रोग्रामिंग् वैशिष्ट्यानि यथा, |
07:04 | Auto completion, Syntax highlighting, |
07:06 | Error dialog box, अपि च Shortcut keys इत्यादीनि कथम् उपयोक्तव्यानि इति ज्ञातवन्तः। |
07:10 | पाठस्यास्य अभ्यासाय, |
07:12 | क्लास् मध्ये Hello इति प्रिंट् कर्तुं किञ्चन प्रोग्राम् लिखन्तु। |
07:17 | एतस्यां प्रक्रियायां एक्लिप्स् इत्यस्य सर्वाणि प्रोग्रामिंग् वैशिष्ट्यानि उपयुज्यताम्। |
07:22 | तेषां प्रक्रियां अवगच्छन्तु। |
07:25 | स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु। |
07:30 | एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति। |
07:33 | यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु। |
07:37 | spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति। |
07:42 | ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति। |
07:45 | अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। |
07:52 | स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। |
07:56 | इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति। |
08:02 | अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु। |
08:07 | अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः। |