BOSS-Linux/C2/Basic-Commands/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00:00 | प्रिय मित्राणि,spoken tutorial इत्यस्य Linux Operating system मध्ये स्वागतम् |
00:05 | अस्मिन् Tutorial मध्ये वयं कतिचनमूलभूत-आदेशानां विषये ज्ञास्यामः |
00:10 | अहं Linux Opetating System इत्यस्य उपयोगं कुर्वन् अस्मि |
00:12 | भवन्तः Linux Opetating System इत्यस्य चालनं जानन्ति इति आशासे |
00:17 | यदि इच्छन्ति तर्हि तत् http://spoken-tutorial.org इत्याख्ये जालपुटे Spoken Tutorial द्वारा उपल्भ्यमस्ति |
00:26 | अस्मिन् Tutorial मध्ये वयम् आदेशानाम् अपि च आदेशनिर्वाहकाणां विषये ज्ञास्यामः |
00:33 | अनन्तरं वयं Man आदेशेन Linux इत्यस्मिन् कथं साहाय्यं स्वीकरणीयम् इति ज्ञास्यामः |
00:39 | अत्र प्रश्नः अस्ति यत् “आदेशाः नाम के?” इति |
00:43 | सरलतया वक्तव्यं चेत्, Linux आदेशाः पदानि सन्ति येषाम् प्रयोगेण कतिचन कार्याणि सम्भवन्ति |
00:51 | Linux इत्यस्य आदेशाः सामान्यतया अक्षरचतुष्टयात् अधिकाः न भवन्ति। यथा ls, who, ps इत्यादयः |
00:59 | आदेशाः Lower Case मध्ये भवन्ति अपि च ते Case Sensitive भवन्ति। अधुना किञ्चन उदाहरणं पश्यामः |
01:05 | Application Menu गच्छन्तु |
01:08 | Accessories इति चित्वा तत्र विद्यमानेषु विकल्पेषु Terminal इत्यत्र नुदन्तु |
01:14 | अधुना अत्र prompt($) इति अपि च तदनु Blinking Cursor इति दृश्यते। अत्रैव अस्माभिः आदेशाः टङ्कनीयाः |
01:22 | who इति पदं लिखित्वा Enter नुदन्तु |
01:28 | वयं सङ्गणके प्रविष्टानां नामानि द्रष्टुं शक्नुमः। यथार्थतया वयं केवलं who इति आदेशं चालितवन्तः यश्च के के सङ्गणकं प्रविष्टाः सन्ति इति सूचयति |
01:41 | परं तादृशं किं वस्तु अस्ति यत् आदेशान् कार्यरूपेण परिवर्तयति? |
01:47 | एतत् Command Interpreter इत्यस्य कार्यमस्ति यस्य Shell इत्यपि नाम अस्ति |
01:53 | Shell इति कश्चन कार्यक्रमः अस्ति यच्च उपयोगकर्तुः अपि च Linux व्यवस्थायाः अन्तरे सम्पर्कं कल्पयति इति निर्वक्तुं शक्नुमः |
02:02 | एतत् अस्मभ्यं Operating System द्वारा चालयितुं सौलभ्यं कल्पयति |
02:07 | Linux मध्ये विविधान् Shells संस्थापयितुं शक्नुमः येषां च चयनम् उपयोगकर्ता स्वस्य इच्छानुसारं कर्तुं शक्नोति। |
02:16 | Linux मध्ये Standard Shells यानि सर्वदा /bin/sh इति स्थाने संस्थापितानि भवन्ति तानि bash (GNU Bourne-Again Shell) इति उच्यन्ते यानि च GNU suite of tools मध्ये सन्ति |
02:29 | अस्मिन् Tutorial मध्ये यान् आदेशान् वयं पश्यामः ते सर्वगणीयाः सन्ति अपि च ते लघुपरिवर्तनेन सह सर्वविध Linux Shells मध्ये चलन्ति |
02:38 | एवं सत्यपि वयम् अस्मिन् Tutorial मध्ये Shell इत्यस्य प्रदर्शनार्थम् bash इत्यस्य उपयोगं कुर्मः |
02:44 | यतो हि bash इति किञ्चन जनप्रियं Shell अस्ति अपि च विविधानां UNIX मध्ये कार्यं करोति |
02:52 | Original Shell, C Shell, Korn Shell इत्येतेषु अपि Bourne Shells भवन्ति |
03:02 | वयं किम् Shell उपयुञ्ज्महे इति द्रष्टुम् |
03:08 | Terminal इत्यत्र गत्वा echo $SHELL इति टङ्कयित्वा Enter नुदामः |
03:21 | सामान्यतया /bin/bash इति out put भवति यच्च bash shell अस्ति |
03:28 | तत्र तावत् विविधान् Shells कार्यगतान् कर्तुं बहवः प्रकाराः सन्ति। तान् अग्रिमे Tutorial मध्ये पश्यामः |
03:36 | आदेशाः इत्युक्ते Program Files सन्ति ये च C इति परिभाषायां भवन्ति |
03:41 | Files इत्येतानि Directories मध्ये भवन्ति। आदेशाः कुत्र सङ्गृहीताः सन्ति इति ज्ञातुं वयम् Type आदेशस्य उपयोगं कुर्मः |
03:48 | Command Prompt इत्यत्र Type space ps इति टङ्कयित्वा enter इति नुदामः |
03:58 | एतत् ps इति यथार्थतया /bin directory इत्यस्मिन् सङ्गृहीतम् अस्ति इति दर्शयति |
04:03 | यदा आदेशान् prompt इत्यत्र टङ्कयामः तदा Shell इत्याख्यम् Directories इत्यस्य सूच्यां विद्यमाननामसु टङ्कितं नाम अन्विष्यति |
04:12 | यदि तुल्यं file प्राप्यते तर्हि तदनुगुणं कार्यं निरुह्यते। नो चेत् “Command not found” इति error दर्श्यते |
04:21 | अन्विष्टा Directories इत्यस्य सूची Path Variable द्वारा स्पष्टरूपेण उक्तम् अस्ति। अस्य विषये वयम् अग्रे पश्यामः |
04:28 | अधुना यदि वयं सूचीं द्रष्टुम् इच्छामः तर्हि echo space $PATH इति capital मध्ये टङ्कयित्वा |
04:41 | enter इति नुदामः |
04:45 | यदा आदेशानां विषये चर्चा भवति तदा मुख्यतया ज्ञातव्यः अंशः इत्युक्ते |
04:51 | Linux आदेशाः द्विधा विभज्यन्ते, External आदेशाः Internal आदेशाः चेति |
04:56 | अत्र External आदेशानाम् अस्तित्वं file अथवा program रूपेण भवति |
05:00 | Linux मध्ये बहवः आदेशाः एवम् एव सन्ति, परं कतीनाञ्चन आदेशानां कार्यान्वयनम् shell इत्यस्य अन्तः लिखितं भवति अपि च ते प्रत्येकं file रूपेण न भवन्ति |
05:12 | एते एव Internal आदेशाः |
05:14 | echo इति आदेशः, अस्य विषये वयम् अनन्तरं पश्यामः, वास्तवेन एषः कश्चन Internal आदेशः अस्ति |
05:18 | Terminal इत्यत्र गच्छन्तु, आदेशं टङ्कयन्तु च |
05:26 | Type space echo इति टङ्कयित्वा enter नुदन्तु |
05:34 | फलितरूपेण echo इत्येतत् shell built in इति दृश्यते |
05:43 | अत्र file इत्यस्य नाम न दृश्यते अपि तु echo इति आदेशस्य व्यवस्थापनम् shell इत्यस्मिन् अन्तर्गतम् इति दृश्यते। अतः एतत् अन्तस्थादेशः इत्युच्यते |
05:50 | आदेशानां संरचना इत्येतदपि कश्चन प्रमुखः ज्ञातव्यः अंशः अस्ति |
05:55 | आदेशाः एकपदे अनेकपदेषु वा भवितुम् अर्हन्ति। अपि च ते white space इत्यस्य उपयोगेन भिन्नाः तिष्ठन्ति |
06:02 | यत्र अनेकपदानि सन्ति तत्र प्रथमपदम् आदेशः भवति अपि च अवशिष्टानि arguments भवन्ति |
06:09 | Arguments इत्येतानि Options अथवा Expressions अथवा files इत्येतेषां नामानि भवन्ति |
06:14 | प्रयुक्तविकल्पस्य आधारेण एकः आदेशः विविधानि कार्याणि निर्वहति |
06:20 | ते सामान्यतया एकेन अथवा द्वाभ्यां “–“ इति चिह्नाभ्यां दर्शितं भवति यस्य च यथाक्रमं short अपि च long इति नाम अस्ति |
06:28 | Terminal window इत्यत्र गत्वा आदेशं लिखित्वा तस्य फलितांशं पश्यन्तु |
06:34 | Terminal window इत्येतत् मार्जयितुम् clear इति टङ्कयन्तु |
06:37 | ls इति टङ्कयित्वा enter नुदन्तु |
06:43 | पुनः clear इति टङ्कयित्वा enter नुदन्तु |
06:49 | ls space minus a इति टङ्कयित्वा enter नुदन्तु |
06:58 | Terminal window इत्येतत् मार्जयितुं clear इति लिखन्तु |
07:04 | अधुना ls space minus minus all इति टङ्कयित्वा enter नुदन्तु |
07:13 | Terminal इत्येतत् मार्जयितुम् clear इति टङ्कयन्तु |
07:18 | अधुना ls space minus d इति टङ्कयित्वा enter नुदन्तु |
07:26 | अस्मिन् स्तरे कथं विकल्पानां परिवर्तनेन आदेशानां व्यवहारः परिवर्त्यते इति केवलं जानीमः |
07:33 | Linux मध्ये बहवः आदेशाः सन्ति |
07:39 | प्रत्येकम् अपि आदेशस्य विविधाः विकल्पाः सन्ति |
07:42 | आदेशाः संयुक्तरूपेण अपि भवितुम् अर्हन्ति। अस्य विषये अनन्तरं पश्यामः। सर्वमपि कथं स्मरणे स्थापयितुं शक्यम्? |
07:48 | वास्तविकतया स्मरणे स्थापनीयमिति नास्ति यतो हि linux मध्ये समीचीना Online Help व्यवस्था अस्ति |
07:55 | System मध्ये विद्यमानानाम् आदेशानां विषये man इति आदेशः विवरणं ददाति |
08:01 | उदाहरणार्थम् ls इति आदेशस्य विषये ज्ञातव्यं चेत् terminal इत्यत्र गन्तव्यं भवति |
08:09 | अपि च man इति आदेशं ls इति argument सह टङ्कयन्तु अर्थात्, man space ls इति टङ्कयित्वा enter नुदन्तु |
08:23 | ततः बहिरागन्तुं q इति नुदन्तु |
08:29 | man इत्येतत् system इत्यस्य किञ्चन manual pager अस्ति। man इति आदेशाय दीयमानं प्रत्येकम् अपि argument सामान्यतया program, utility, function इत्यस्य वा नाम भवति |
08:37 | Argument अनुसारं Manual Page अन्विष्य दर्श्यते |
08:43 | यदि विभागः सूच्यते तर्हि man आदेशः तस्मिन् विभागे केवलम् अन्विष्यति |
08:49 | सूचनाभावे सति सम्पूर्णं पूर्वनिर्दिष्टानुसारम् अन्विष्यति। अपि च यद्यपि बहूनि पृष्ठानि सन्ति तथापि प्रथमपृष्ठं दर्शयति |
09:00 | भवन्तः man इति आदेशमुपयुज्य एव man आदेशस्य विषये अधिकं ज्ञातुं शक्नुवन्ति |
09:07 | Terminal इत्यत्र गत्वा man space man इति टङ्कयित्वा enter नुदन्तु |
09:16 | बहिरागन्तुं q इति नुदन्तु |
09:20 | man इत्यस्मिन् आदेशे बहवः विकल्पाः सन्ति |
09:23 | तेषु कतिचन प्रमुखान् अंशान् वदामि। कदाचित् वयं चिकीर्षितं कर्तुम् आदेशान् न जानीमः। तदा अस्माभिः किं करणीयम् |
09:35 | man इत्येतत् –k इति कञ्चन विकल्पं प्रददाति। एषः किञ्चन मुख्यपदं स्वीकृत्य आदेशसूचीं तस्य सङ्क्षिप्त-उद्देश्यम् च प्रददाति |
09:44 | यथा- कस्यचन directory इत्यस्य रचनायै निर्दिष्टम् आदेशं यदा न जानीमः, |
09:50 | तदा वयम् आदेशस्य prompt इत्यत्र गत्वा man space minus k space directories इति टङ्कयित्वा enter इति नुदामः |
10:06 | अधुना वयम् अस्मभ्यं यद् अपेक्षितं तत् द्रष्टुं प्रत्येकमपि आदेशम् अन्वेष्टुं शक्नुमः |
10:11 | समानं विषयं apropos इति आदेशम् उपयुज्य अपि साधयितुं शक्नुमः |
10:15 | prompt मध्ये apropos space directories इति टङ्कयित्वा enter नुदन्तु, फलितं पश्यन्तु |
10:29 | कदाचित् अस्मभ्यम् अधिकविवरणस्य अपेक्षा न भवति, केवलम् आदेशः किं करोति इति ज्ञातव्यं भवति |
10:35 | तदर्थं वयं whatis अथवा man –f इति आदेशम् उपयोक्तुं शक्नुमः। एतद्द्वयमपि आदेशमधिकृत्य सङ्क्षिप्तविवरणं प्रददाति |
10:45 | Terminal इत्यत्र गच्छन्तु, मार्जयितुम् clear इति टङ्कयन्तु |
10:51 | अधुना whatis space ls इति टङ्कयित्वा enter नुदन्तु |
10:59 | कतिपयेषु आदेशेषु बहवः विकल्पाः भवन्ति। आदेशस्य विकल्पानां सूचीं प्राप्तुं, |
11:07 | minus help इत्यस्य विकल्पस्य उपयोगं कुर्मः |
11:12 | अधुना prompt इत्यत्र गत्वा ls space minus minus help इति टङ्कयित्वा enter नुदन्तु |
11:23 | उपरि गत्वा वयं manual page मध्ये विद्यमानान् सर्वान् अपि विकल्पान् द्रष्टुं शक्नुमः |
11:38 | अलमतिविस्तरेण। Spoken Tutorial(स्पोकन् ट्युटोरियल्) इत्ययं प्रकल्पः Talk to a Teacher(टाक् टु ए टीचर्) इत्यस्य प्रकल्पस्य भागः अस्ति। यस्य विषये राष्ट्रियसाक्षरतामिशन् इति संस्था ICT(आइ.सी.टि) इत्यस्य माध्यमेन कर्तुं समर्थितवती अस्ति |
11:49 | अधिकविवरणं निम्नलिखिते जालपुटे उपलभ्यमस्ति। "http://spoken-tutorial.org/NMEICT- Intro |
11:54 | अस्य प्रतेः अनुवादकर्त्री संस्कृतभारती अस्ति। अस्य प्रवाचकः देहलीतः वासुदेवः अस्ति। Tutorial(ट्युटोरियल्) इत्यस्मिन् भागं गृहीतवद्भ्यः सर्वेभ्यः धन्यवादाः |