BOSS-Linux/C2/BOSS-Linux-Desktop/Sanskrit
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00:00 | ‘BOSS Desktop’ अधिकृत्य ‘Spoken Tutorial’ इत्यस्मिन् वर्गे भवतां स्वागतम्। |
00:06 | अस्मिन् पाठे वयं BOSS Desktop इत्यस्य परिचयं प्राप्स्यामः। |
00:12 | अस्य कृते BOSS Linux 3.4.2 इत्यस्य प्रयोगः मया क्रियते। |
00:21 | अहं स्लैड्स् अवनयामि। |
00:24 | अधुना भवन्तः BOSS Desktop पश्यन्तः सन्ति। |
00:28 | भवन्तः उपरि वामभागे कोणे Main Menu इति द्रष्टुं शक्नुवन्ति। |
00:33 | तत् उद्घाटयितुं Alt + F1 नोत्तुं शक्नुवन्ति, अथवा Application इत्यस्य उपरि नोत्तुं शक्नुवन्ति। |
00:46 | Application Menu इत्यस्मिन् ये प्रयोगाः स्थापिताः सन्ति ते वर्गीकृतरूपेण दृश्यन्ते। |
00:54 | Menu इत्यस्मिन् स्थितानां मुख्यानां प्रयोगानां विषये परिचिताः भवामः। |
01:01 | तर्हि क्रमशः Applications>Accessories>Calculator इत्यत्र गच्छामः। |
01:08 | 'Calculator' इत्येतत् अङ्कगणितस्य वैज्ञानिकस्य आर्थिकस्य च गणनायाः साहाय्यं करोति |
01:16 | वयम् ‘Calculator’ इत्यस्य उपरि नुत्वा तत् उद्घाटयामः। |
01:20 | किञ्चित् सरलाकलनस्य अभ्यासं कुर्मः। |
01:23 | '5 * 8' इति टङ्कयित्वा '=' चिह्नं नुदामः। |
01:29 | '=' इत्यस्य चिह्नस्य स्थाने 'Enter' अपि नोत्तुं शक्नुमः। |
01:35 | अधुना पिधानस्य चिह्नं नुत्त्वा 'Calculator' तः बहिः आगच्छामः। |
01:40 | अधुना अपरं कञ्चन प्रयोगं पश्यामः। |
01:43 | तन्निमित्तं Applications प्रति गत्वा पुनः Accessories प्रति गच्छतु। |
01:49 | तत्र gedit Text Editor इत्यस्य उपरि नुत्वा उद्घातयतु। |
01:56 | अधुना screen मध्ये gedit text editor पश्यामः। |
02:02 | अहम् अधुना किञ्चित् टङ्कयामि रक्षामि च। |
02:06 | "H-e-l-l-o W-o-r-l-d" इति टङ्कयामि। |
02:11 | रक्षणार्थं Ctrl + s नोत्तुं शक्नुमः अथवा File उपरि गत्वा Save नोत्तुं शक्नुमः। |
02:20 | पश्यतु, अहं File उपरि गत्वा Save नुदामि। |
02:26 | अधुना किञ्चन लघु Dialog Box उद्घटति। |
02:29 | एतत् File इत्यस्य नाम, तस्य रक्षणस्थानं च पृच्छति। |
02:36 | अहं नामनिमित्तं "hello.txt" इति टङ्कयामि, रक्षणस्थानार्थं Desktop इति चिनोमि, |
02:47 | अनन्तरं Save इत्यस्य उपरि नुदामि। |
02:49 | अधुना gedit पिधानं कृत्वा अस्माभिः निर्मितं File, 'Desktop' मध्ये रक्षितम् उत न इति पश्यामः। इदानीं पिदधातु। |
02:58 | अधुना Desktop मध्ये hello.txt इति File दृष्टुं शक्नुमः। |
03:05 | अर्थात् निर्मितं text file रक्षितम् अभवत्। |
03:10 | एतत् चिह्नोपरि वारद्वयं नुत्वा उद्घाटयामः। |
03:14 | अहो! अस्माभिः यत् टङ्कितं तत् आगतम्। |
03:18 | एवं वयं विविधासु स्थानीयभाषासु अपि अत्र लेखितुं शक्नुमः। |
03:24 | अधुना तत्कथं करणीयमिति पश्यामः। |
03:27 | gedit Text Editor मध्ये CTRL अपि च space bar नुदतु। |
03:33 | भवन्तः दक्षिणपार्श्वे अधः लघु बोक्स् पश्यन्ति। |
03:39 | तस्योपरि नुदन्तु। |
03:41 | तत्र Hindi इति चिन्वन्तु। |
03:43 | Inscript इति चिन्वन्तु। |
03:45 | अहं Hello world इति टङ्कयामि। |
03:49 | पश्यन्तु, लेखः Hindi Inscript प्रति परिवर्तितमस्ति। |
03:53 | अधुना अहं Hindi इति चित्वा Phonetic इति चिनोमि। |
03:59 | अहं phonetic उपयुज्य welcome इति टङ्कयामि। |
04:03 | पश्यन्तु, welcome इति पदं हिन्द्यां टङ्कितमस्ति। |
04:08 | अधुना रक्षितुं save इत्यत्र नुदन्तु। |
04:11 | अधुना Text editor पिधाय Accessories मध्ये Terminal इत्यस्य विषये पश्यामः। |
04:20 | तर्हि क्रमशः Application>Accessories>Terminal इत्यत्र गच्छामः। |
04:27 | Terminal इत्यस्य अपरं नाम Command Line इति अस्ति। यतोहि इतः वयं सङ्गणकाय आदेशं दातुं शक्नुमः। यथार्थतया एतत् 'GUI' अपेक्षया शक्तियुतम् अस्ति। |
04:40 | तर्हि एतदनुभवार्थं सरलादेशं दद्मः। |
04:45 | ls टङ्कयामः, Enter नुदामः च। |
04:50 | इदानीं वर्तमाने 'Directory' इत्यस्मिन् विद्यमानानि Files Folders च दृष्टुम् शक्नुवन्ति। |
04:57 | अत्र 'Home Folder' इत्यस्मिन् विद्यमानानि Files, Folders च दर्शयति। |
05:02 | वयं किम् नाम 'Home Folder' इति अग्रे पश्यामः। |
05:07 | एतत्सम्बद्धे Linux Spoken Tutorial मध्ये Terminal Commands विषये सम्यक्तया विवरणम् दत्तम् अस्ति। |
05:15 | Terminal इति प्रयोगस्य पिधानं कुर्वन्तु। |
05:18 | अधुना वयम् अपरं प्रयोगं प्रति गच्छामः। सः प्रयोगः अस्ति 'Iceweasel Web Browser' । |
05:25 | एतत् BOSS operating system मध्ये औत्सर्गिकं browser अस्ति। |
05:30 | एतदुद्घाटयितुं क्रमशः Applications>Internet>Iceweasel Web Browser. इत्यत्र नुदामः। |
05:36 | Iceweasel इत्येतत् firefox इतस्य re-branded आवृत्तिः अस्ति। |
05:41 | एतस्य उपयोगेन वयं अस्माकं ई-मैल् दृष्टुम् अपि च आवश्यकविषयज्ञानं च प्राप्तुं शक्नुमः। |
05:49 | अधुना google जालपुटं गच्छामः। |
05:51 | address bar इत्यत्र शीघ्रं गन्तुं F6 नुदतु, अथवा अत्र address baar इत्यत्र नुदतु। |
06:00 | अहं www.google.co.in इति टङ्कयामि। |
06:07 | टङ्कणावसरे Iceweasel कांश्चन विकल्पान् सूचयति। |
06:11 | तेषु एकं चेतुं शक्नोति, |
06:14 | अथवा सम्पूर्णम् अपि टङ्कयित्वा enter नुदतु। |
06:19 | वयमधुना google इतस्य अन्वेषकपृष्ठे स्मः। अधुना अन्वेषकपृष्ठे spoken tutorial इति टङ्कयतु। |
06:27 | स्पोकन् ट्युटोरियल् जालपुटं प्राथम्येन सूच्यां दृश्यते, तस्योपरि नुदन्तु। |
06:34 | तदा वयं स्पोकन् ट्युटोरियल् इत्यस्य होम् पेज् प्रति गच्छामः। |
06:38 | अधुना एतत् पिधाय अग्रे सरामः। |
06:42 | इदानीं क्रमशः Applications>Office इत्यत्र गच्छामः। |
06:48 | अत्र लिब्रे आफीस् इत्यस्य विकल्पाः यथा Writer, Calc, Impress इत्यादयः सन्ति। |
06:57 | एते लिब्रे आफीस् सूट् इत्यस्य Word Processor, Spreadsheet, Presentation चेति प्रयोगाः सन्ति। |
07:04 | अस्माकं जालपुटे एतेषां विषये Spoken Tutorials सन्ति। वयं तानि दृष्टुं प्रेरयामः। |
07:12 | अधुना वयं Sound and Video Menu पश्यामः। एतदर्थं Application गत्वा Sound and Video गच्छामः। |
07:19 | एषः विकल्पः BOSS operating system मध्ये विद्यमानानि विविधप्रकारकाणि प्लेयर्स् सूचिबद्धं करोति। |
07:27 | भवन्तः एतेषु यत्किमपि एकं विकल्पं भवतां वीडियो अथवा आडियो सञ्चिकां चालयितुम् उपयोक्तुं शक्नुवन्ति। |
07:33 | अधुना कतिचन महत्वपूर्णविषयान् पश्यामः। तन्निमित्तं, Places इत्यत्र गच्छन्तु। |
07:41 | अत्रत्यः प्रथमविकल्पः अस्ति Home Folder इति। |
07:45 | तत् उद्घाटयामः। |
07:47 | प्रत्येकमपि उपयोगकर्तुः BOSS OS मध्ये किञ्चन Home Folder भवत्येव। |
07:52 | Home Folder इत्युक्ते किञ्चन गृहमिव यत्र च सर्वाः सञ्चिकाः सन्धारिकाः च सङ्गृहीतुं शक्नुमः। |
08:00 | तत्र अस्माकम् अनुमतिं विना न केनापि आगन्तुं शक्यते। |
08:04 | अनुमतिविषयकम् अधिकविवरणं भवन्तः अस्माकं जालपुटे लिनक्स् स्पोकन् ट्योटोरियल् मध्ये प्राप्तुं शक्नुवन्ति। |
08:14 | वयम् अस्माकं Home Folder मध्ये Desktop, Document, Downloads, Music इत्यादयः सन्धारिकाः दृष्टुं शक्नुमः। |
08:25 | लिनक्स् मध्ये सर्वमपि सञ्चिका एव भवति। |
08:29 | अधुना Desktop सन्धारिकां तस्योपरि वारद्वयं नोदनेन उद्घाटयामः। |
08:35 | अहो, अत्र वयं hello.txt सञ्चिकां दृष्टुं शक्नुमः यत् च gedit text editor मध्ये रक्षितवन्तः आस्म। |
08:44 | अतः एषा सन्धारिका अपि च डेस्क्टोप् इति एते समाने स्तः। |
08:49 | अधुना अहम् इमां सन्धारिकां पिदधामि। |
08:52 | इदानीं वयं डेस्क्टोप् इत्यस्य थीम् परिवर्तयामः। |
08:55 | दक्षिणकोणे विद्यमानं username इतीदं नुदतु। |
09:02 | अत्र उपयोक्तृनाम Spoken इति अस्ति। अतः अहं Spoken इत्यस्योपरि नुदामि। |
09:09 | अधुना System Setting विकल्पस्योपरि नुदन्तु। |
09:13 | System Setting नाम्ना किञ्चन संवादपेटिका दृश्यते। |
09:16 | Background Icon इत्यस्योपरि नुदन्तु। |
09:19 | दृश्यमानसूच्यां यत्किमपि background चिन्वन्तु। |
09:23 | अधुना भवतां नूतनं background प्रदृश्यते। |
09:27 | संवादपेटिकां पिदध्मः। |
09:29 | वयमधुना Application मेन्यु इत्यस्याधः विद्यमानं System Tool इति विकल्पं पश्यामः। |
09:36 | अस्मिन् मेन्यु मध्ये बहु मुख्यविकल्पाः सन्ति ये च भवतां डेस्क्टोप् अपि च विविधानि अप्लिकेशन्स् व्यवस्थापयितुं साहाय्यं करोति। |
09:44 | अधुना क्रमशः System Tools > Administrations > Synaptic Package Manager इत्यत्र गच्छन्तु। |
09:51 | अधुना अनुक्षणं भवन्तः पास्वर्ड् दृढीकरणार्थं पृष्टाः भवन्ति। |
09:57 | भवन्तः भवताम् आड्मिन् पास्वर्ड् नुत्वा Authentication इत्यत्र नुदन्तु। |
10:02 | Synaptic Package Manager विषये अस्यामेव शृङ्खलायाम् अपरपाठे विवरणमं विद्यते। |
10:10 | अत्र असौ पाठः समाप्यते। |
10:14 | अस्मिन् पाठे BOSS Desktop, Main Menu अपि च BOSS Desktop मध्ये विद्यमानानि बहुविधवैशिष्ट्यानि ज्ञातवन्तः। |
10:25 | अधोविद्यमाने लिंक् मध्ये उपलभ्यमानं वीडियो पश्यन्तु। |
10:28 | एतत् प्रकल्पस्यास्य सारांशं वदति। |
10:31 | भवतां समीपे यदि उत्तमं बैंड्विड्त् नास्ति तर्हि एतत् अवचित्य पश्यन्तु। |
10:36 | स्पोकन् ट्युटोरियल् प्रकल्पगणः एतान् पाठान् उपयुज्य कार्यशालाः चालयति। |
10:41 | ये च आन्लैन् परीक्षायाम् उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते। |
10:45 | अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु। |
10:53 | Spoken Tutorial इत्ययं प्रकल्पः Talk To a Teacher इत्यस्य प्रकल्पस्य भागः अस्ति। यस्य विषये राष्ट्रियसाक्षरतामिशन् इति संस्था ICT इत्यस्य माध्यमेन कर्तुं समर्थितवती अस्ति। |
11:05 | अस्य विषये http://spoken-tutorial.org/NMEICT-Intro इति जालपुटे अधिकविवरणम् उपलभ्यम् अस्ति। |
11:11 | अस्य पाठस्य अनुवादकः प्रवाचकश्चऐ ऐ टी बाम्बे तः वासुदेवः अस्ति। सर्वेभ्यः धन्यवादः। |