Tux-Typing/S1/Getting-started-with-Tux-Typing/Sanskrit

From Script | Spoken-Tutorial
Revision as of 16:41, 27 March 2014 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00.00 Tux Typing इत्यस्य परिचयात्मकेऽस्मिन् ट्यूटोरियल मध्ये भवते स्वागतम्।
00.04 अस्मिन् ट्यूटोरियल मध्ये भवान् Tux Typing अपि च Tux typing इंटरफेस इत्यनयोः विषये ज्ञास्यति।
00.10 भवान्,
00.12 सङ्गणकीये आङ्ग्लाक्षरयुक्ते कीलफलके वेगेन, स्पष्टेन, निपुणतया च कथं टङ्कनीयम् इति ज्ञास्यति।
00.19 भवान् टङ्कनसमये प्रतिवारं विनाकीलफलकदर्शनं कथं टङ्कनीयमित्यपि अभ्यस्यति।
00.25 Tux Typing नाम किम्?
00.27 Tux Typing इति किञ्चन टङ्कनबोधकमस्ति।
00.30 एतत् भवते संवादात्मकटङ्कनक्रीडाद्वारा टङ्कनं बोधयति अपि च भवते विभिन्नाक्षराणामपि परिचयं कारयति।
00.38 भवान् भवतः गत्यनुसारं टङ्कनमभ्यस्तुं शक्नोति।
00.41 अपि च मन्दं मन्दं स्वटङ्कनगतिं विशुद्धतया वर्धयितुं शक्नोति।
00.46 Tux Typing भवतः अभ्यासाय नूतनशब्दम् अपि च टङ्कनाय भाषामपि सेट् कर्तुं सक्षमं करोति।
00.54 अत्र अहं उबंटू लिनक्स 11.10 इत्यस्मिन् Tux Typing 1.8.0 इत्यस्य उपयोगं कुर्वाणः अस्मि।
01.02 भवान् उबंटू सॉफ्टवेयर सेंटर इत्यस्य उपयोगद्वारा Tux Typing संस्थापयितुं शक्नोति
01.07 उबंटू सॉफ्टवेयर सेंटर इत्यस्य अधिकज्ञानार्थं भवान् एतस्मिन् वेबसाइट मध्ये उबंटू लिनक्स इत्यस्य टयूटोरियल्स अनुसर्तुं शक्नोति।
01.16 Tux Typing उद्घाटयतु।
01.19 प्रथमम्, Dash Home इत्यत्र नुदतु, यच्च भवतः सङ्गणकस्य डेस्क्टाप् मध्ये उपरि दक्षिणकोणे गोलाकारस्य बटन् इव अस्ति।
01.26 Search बॉक्स प्रदृष्टं भवति। Dash Home इत्यस्य पुरतः सर्च बॉक्स मध्ये Tux Typing इति टङ्कयतु।
01.34 सर्च बॉक्स इत्यस्य अधः Tux Typing इति आइकन प्रदृष्टं भवति।
01.39 Tux Typing इति आइकन नुदतु।
01.42 Tux Typing इत्यस्य विंडो प्रदृष्टं भवति।
01.46 Tux Typing इत्यस्मिन् अधस्थं मेन्यू अन्तर्गतमस्ति।
01.50 Fish Cascade – क्रीडाक्षेत्रम् ।

Comet Zap – अपरं किञ्चन क्रीडाक्षेत्रम्।

01.56 Lessons – यत्र विभिन्नपाठाः अन्तर्गताः सन्ति, ये च अस्मभ्यं अक्षराभ्यासं कारयति।
02.01 Options – अत्र विद्यमानविकल्पाः अस्मभ्यं शब्दसम्पादनार्थं, वाक्यटङ्कनार्थं, टक्स टैपिङ्ग विषये ज्ञातुं अपि च भाषां निर्धारयितुं साहाय्यं करोति।
02.13 Quit – क्रीडां समापयितुं अत्र नोत्तव्यम्।
02.16 पाठानाम्पुपयोगेन टङ्कनाभ्यासम् आरभामहे।
02.20 मुख्य मेन्यू मध्ये, Lessons इत्यत्र नुदतु।
02.23 पाठसहितं किञ्चन विंडो प्रदृष्टं भवति।
02.26 प्रथमपाठात् अभ्यासस्य आरम्भं कुर्मः।
02.30 basic_lesson_01.xml इत्यत्र नुदतु।
02.35 निर्देशैः सह विंडो प्रदृष्टं भवति। निर्देशान् पठतु।
02.41 पाठारम्भणार्थं, space bar नुदतु।
02.45 कीलफलकेन समं विंडो प्रदृष्टं भवति।
02.48 अधुना वयं a इति अक्षरस्य अभ्यासं कुर्मः।
02.52 अभ्यासस्य आरम्भार्थं p इति नुदतु।
02.56 किञ्च्न विंडो दृश्यते यच्च अक्षराणि दर्शयति।
03.01 अत्र ‘aaa aaa…..’ इति पङ्क्तिः किं द्योतयति?
03.07 भवता एतानि अक्षराणि टङ्कनीयानि सन्ति इति।
03.10 एतस्याः पङ्क्तेः टीटर्स लाइन इति नाम दद्मः।
03.13 अधुना वयं आङ्ग्लकीलफलकं पश्यामः, यच्च अस्माभिः आधिक्क्येन उपयुक्तं स्तरीयकीलफलकमस्ति।
03.19 किम् भवान् a इत्येतत् परितः रक्तवर्णं पश्यन् अस्ति? एतत् द्योतयति यत् भवता अधुना एतदक्षरं टङ्कनीयमस्तीति।
03.27 कीलफलकस्य प्रथमपङ्क्तिः सङ्ख्यां, विशिष्टाक्षराणि अपि च बैकस्पेस कीलं दर्शयति।
03.35 टङ्कितं मार्जयितुं Backspace कीलं नोत्तव्यम्।
03.39 कीलफलके अपरं पङ्क्तित्रयं भवति यत्र वर्णमाला, सङ्ख्या अपि च अन्याक्षराणि भवन्ति।
03.51 कीलफलकस्य द्वितीयपङ्क्तौ वर्णमाला, कतिचन विशिष्टाक्षराणि अपि च Enter कीलम् अस्ति।
03.58 अग्रिमपङ्क्तिं गन्तुं भवता Enter कीलम् नोत्तव्यं भवति।
04.02 कीलफलकस्य तृतीयपङ्क्तौ वर्णमाला, colon, semicolon अपि च Caps lock कीलानि भवन्ति।
04.10 बृहदक्षरेण टङ्कयितुं Caps Lock कीलं उपयुज्यताम्।
04.14 कीलफलकस्य चतुर्थपङ्क्तौ वर्णमाला, विशिष्टाक्षराणि अपि च shift कीलमस्ति।
04.21 बृहदक्षरेण टङ्कयितुं किमपि अक्षरं Shift कीलेन सह नुदतु।
04.27 कीलेषु उपरि विद्यमानानि अक्षराणि टङ्कयितुं Shift कीलेन समं तदक्षरं नुदतु।
04.34 उदाहरणार्थम्, 1 इति कीले उपरि आश्चर्यसूचकचिह्नमपि अस्ति।
04.39 आश्चर्यसूचकचिह्नं टङ्कयितुं Shift कीलेन समं 1 नुदतु।
04.44 कीलफलकस्य पञ्चमपङ्क्तौ Ctrl, Alt, अपि च फंक्शन कीलानि सन्ति। अत्र स्पेस बार अपि अस्ति।
04.52 अधुना पश्यामः यत्, टक्स टाइपिंग कीलफलकम्, लैपटॉप कीलफलकम् अपि च डेस्कटॉप कीलफलकम् इत्येतेषां मध्ये अन्तरमस्ति वा इति।
05.00 अवगच्छन्तु यत्, टक्स टाइपिंग कीलफलकम् अपि च यानि च लैपटॉप्स तथा डेस्कटॉप मध्ये उपयुज्यन्ते तानि कीलफलकानि समानानि सन्ति इति।
05.10 अधुना कीलफलके अस्माकं अङ्गुलीनां स्थानानि किम् इति पश्यामः।
05.14 एतत् स्लाइड पश्यतु।
05.16 एतत् अङ्गुलयः अपि च तासां नामानि च दर्शयति। वामतः दक्षिणं विद्यमानायाः अङ्गुलीनां नामानि एवं सन्ति:
05.21 कनिष्ठिका (Little finger), अनामिका (Ring finger), मध्यमा (Middle finger), तर्जनी (Index finger) अपि च अङ्गुष्टिका (Thumb).
05.27 स्वकीयकीलफलके स्ववामहस्तं कीलफलकस्य वामपार्श्वे स्थापयतु।
05.32 कनिष्ठिका (Little finger) ‘A’ इति अक्षरस्योपरि अस्ति इति निश्चिनोतु।
05.35 अनामिका ‘S’ इत्यस्य उपरि,
05.38 मध्यमा ‘D’ इत्यस्य उपरि,
05.41 तर्जनी ‘F’ इत्यस्य उपरि भवतु।
05.44 अधुना दक्षिणहस्तं कीलफलकस्य दक्षिणपार्श्वे स्थापयतु।
05.49 कनिष्ठिका कॉलन/सेमीकॉलन कीलस्योपरि अस्तीति निश्चिनोतु।
05.54 अनामिका ‘L’ इत्यस्योपरि,
05.56 मध्यमा ‘K’ इत्यस्योपरि,
06.00 तर्जनी ‘J’ इत्यस्योपरि भवेत्।
06.03 स्पेस बार नोत्तुं दक्षिणाङ्गुष्ठिकाम् उपयुज्यताम्।
06.08 हस्तद्वयस्य चित्रं भवते उचिताङ्गुलेः उपयोगद्वारा टङ्कनं कर्तुं मार्गं निर्दिशति।
06.14 किम् भवान् कनिष्ठिकाम् उपयोक्तुं रक्तस्थानम् अन्विषन् अस्ति?
06.19 भवतः ऊहा समीचीना अस्ति, भवता a इति टङ्कयितुं तस्याः उपयोगः करणीयः।
06.23 कीलफलके पाठेऽस्मिन् यथा दर्शितं तथा स्वकीयाः अङ्गुलीः स्थापयन्तु।
06.29 अधुना टङ्कनमारभ्यताम्।
06.32 यथा यथा वयं टङ्कयामः तथा तथा अक्षराणि टीचर्स लाइन इत्यस्मात् अधस्थे लाइन मध्ये प्रदृष्टं भवति।
06.39 एतस्य कृते स्टुडेंट लाइन इति नाम दद्मः।
06.42 अधुना, यत् टीचर्स लाइन मध्ये नास्ति तदक्षरं टङ्कयतु।
06.47 किम्, दोषेण टङ्कितम् आक्षरं स्टुडेंट लाइन मध्ये प्रदृष्टं भवति? एतत् प्रदृष्टं न भवति।
06.53 एतत् स्थाने, कीलफलके दोषेण टङ्किते अक्षरे X इति चिह्नं किञ्चित् कालं दृश्यते।
06.59 अधुना कतिचन अक्षराणि टङ्कयतु।
07.02 अधुना अस्माकं टङ्कनस्य मैट्रिस इत्यस्य गणनां कुर्मः।
07.07 अधुना भवान् अनुमिनोतु यत् दक्षिणस्थं फील्ड्स किं दर्शयति।
07.13 Time – इति भवतः टङ्कनगतिं निर्दिष्टं करोति।
07.17 Chars – इति भवता टङ्कितनां अक्षराणां सङ्ख्यां दर्शयति।
07.21 CPM – इति भवता प्रतिनिमेषं कियन्ति अक्षराणि टङ्कितानि इति दर्शयति।
07.26 WPM – इति भवता टङ्कितशब्दानां सङ्ख्यां निर्दिष्टं करोति।
07.31 Errors – इति भवता कियन्ति दोषाक्षराणि टङ्कितानि इति दर्शयति।
07.34 Accuracy – इति भवतः टङ्कनशुद्धतां दर्शयति।
07.40 मुख्य मेन्यू प्रति गन्तुं Escape कीलं वारद्वयं नुदतु।
07.45 वयं अस्माकं प्रथमं टाइपिंग पाठं अभ्यस्तवन्तः स्मः।
07.47 मन्दगत्यां शुद्धरूपेण टैप कर्तुं प्रथमवारं अभ्यस्तुं च एतत् सम्यक् अस्ति।
07.52 एकवारं विनादोषं शुद्धरूपेण टङ्कनं अभ्यसामः चेत् वयं अस्माकं टङ्कनगतिं वर्धयितुं शक्नुमः।
07.59 एतेन समं वयं टक्स-टाइपिंग इति पाठस्य अन्तं प्राप्तवन्तः।
08.03 एतस्मिन् ट्यूटोरियल मध्ये वयं टक्स-टाइपिंग इंटरफेस विषये ज्ञातवन्तः। अस्माकं प्रथमटङ्कनपाठं सम्पूर्णं कृतवन्तः।
08.11 अत्र भवतः कृते किञ्चन नियतकार्यमस्ति।
08.13 basic_lesson_02.xml इत्यत्र गच्छतु।
08.19 एतस्मिन् स्तरे अभ्यासं करोतु।
08.21 अस्मिन् स्तरे विद्यमानानि सर्वाणि अक्षराणि टङ्कयतु अपि च Enter नुदतु।
08.26 एवमेव भवान् पाठान्तरस्य अभ्यासं कर्तुं शक्नोति।
08.30 अधस्थे लिंक मध्ये उपलब्धं विडियो पश्यन्तु।http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
08.33 एषः स्पोकन ट्यूटोरियल इत्यस्य सारांशः अस्ति।
08.36 यदि भवतां समीपे उत्तमं बैंडविड्थ नास्ति तर्हि भवन्तः एतत् अवचित्यापि (डाउनलोड) द्रष्टुं शक्नुवन्ति।
08.41 स्पोकन ट्यूटोरियल प्रकल्पगणः (प्रोजेक्ट टीम) :
08.43 स्पोकन ट्यूटोरियल इत्यस्य उपयोगद्वारा कार्यशालाः अपि चालयति।
08.46 ये ऑनलाइन परीक्षाम् उत्तरन्ति तेभ्यः प्रमाणपत्रमपि दीयते।
08.50 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
08.56 स्पोकन ट्युटोरियल प्रोजेक्ट टॉक-टू-अ-टीचर प्रोजेक्ट इत्यस्य भागः अस्ति।
09.00 एतत् भारतसर्वकारस्य एमएचआरडी इत्यस्य “आईसीटी माध्यमेन राष्ट्रीयसाक्षरतामिशन” द्वारा समर्थितमस्ति।
09.08 अस्य विषये अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इति लिंक मध्ये उपलब्धमस्ति।
09.19 अस्य प्रतेः अनुवादकः प्रवाचकश्च ऐ ऐ टि बांबे तः वासुदेवः अधुना आपृच्छति। समयदानाय धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal