KTouch/S1/Configuring-Settings/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:44, 25 March 2014 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00.00 "के-टच मध्ये सेटिंग कन्फिगरिंग" इत्यस्मिन् स्पोकन ट्युटोरियल मध्ये भवतां स्वागतम्।
00.04 अस्मिन् पाठे भवन्तः अवगच्छन्ति यत् -
00.08 प्रशिक्षणस्तरं कथं परिवर्तनीयम्, टङ्कणगत्याः व्यवस्थापनं कथम्,
00.13 शॉर्टकट कीज़ इत्येतानि कथं विन्यस्तव्यानि (कन्फिगर), टूलबार्स इत्येतानि कथं विन्यस्तव्यानि (कन्फिगर), टैपिंग मेट्रिक्स कथं दृष्टव्यम् इत्यादि।
00.20 अत्र वयं उबंटू लिनक्स 11.10 इत्यस्मिन् के-टच 1.7.1 इत्यस्य उपयोगं कुर्मः।
00.27 अधुना "के टच" उद्घाटयामः।
00.33 वयं “Level 1” इत्यत्र स्मः। द्वितीयस्तरं प्रति चलामः।
00.40 द्वितीयप्रशिक्षणस्तरं प्रति गन्तुं लेवल फील्ड इत्यस्याग्रे उपरि त्रिकोणचिह्नं नुदन्तु।
00.48 यदा वयं द्वितीयस्तरं प्रति गच्छामः तदा किं भवतीति अवदध्मः।
00.52 "Teacher’s Line" इत्यत्रस्थानि अक्षराणि परिवर्त्यन्ते ।
00.56 "New Characters in this Level" क्षेत्रे (फील्ड) दृश्यमानाक्षराणि अपि परिवृत्तानि सन्ति।
01.02 एतानि अक्षराणि अस्मिन् स्तरे अभ्यस्तव्यानि।
01.07 अधुना टङ्कणमारभाहे।
01.09 अधुना यदक्षरं "Teacher’s Line" मध्ये नास्ति तदत्र टङ्कयामः।
01.14 "Student Line" रक्तवर्णेन परिवृतं भवति।
01.17 अन्यत् किं परिवृतं पश्यन्ति?
01.19 Correctness क्षेत्रे प्रतिशतमूल्याङ्कनं न्यूनं भवति।
01.23 बैकस्पेस नुत्त्वा दोषं परिमार्जयन्तु।
01.27 अधुना कथं "Training" इति विकल्पस्य निर्धारणमिति पश्यामः।
01.31 किं नाम "Training Options"?
01.33 "Training options" इत्यस्य उपयोगं वयं टङ्कनगतेः विशुद्धटङ्कणस्य च मानदण्डपरिवर्तनाय कुर्मः।
01.41 वयं कस्मिंश्चित् विशिष्टस्तरे विद्यमानटङ्कणपङ्क्त्याः सङ्ख्यामपि स्वेच्छानुसारं निर्धरयितुं शक्नुमः।
01.47 मुख्यमेन्यू मध्ये "Settings" चित्वा "Configure Ktouch" इत्यत्र नुदन्तु।
01.52 "Configure – KTouch" डायलॉग बॉक्स प्रदर्शितं भवति।
01.56 "Configure – KTouch" डायलॉग बॉक्स इत्यस्य वामपैनल मध्ये "Training Options" इत्यत्र नुदन्तु।
02.02 दक्षिणपैनल अधुना विभिन्नानि "Training Options" दर्शयति।
02.06 "Typing speed", "Correctness" अपि च "Workload" इत्येतेषां कृते उपरि सीमां निर्धरन्तु।
02.13 "Limits to increase a level" इत्यस्य अधः -
02.15 Typing Speed इत्येतत् 120 characters per minute इति "Correctness" इत्येतत् 85% इति
02.24 "Workload" इत्येतत् 1 इति निर्धरन्तु।
02.27 एतस्यार्थः, प्रतिस्तरमस्माभिः एका एव पङ्क्तिः पूरणीया अस्ति।
02.31 एवं च सति वयं स्वयमेव अग्रिमस्तरं प्रति गच्छामः।
02.36 यदि भवन्तः स्तरमेकं सम्पूर्य एव अग्रिमस्तरं गन्तुमिच्छन्ति तर्हि "Complete whole training level before proceeding" पेटीं (बॉक्स) चिन्वन्तु।
02.46 "Typing speed" अपि च "Correctness" इत्येतयोः कृते न्यूनतमसीमां निर्धरन्तु।
02.50 Limits to decrease a level इत्यस्मात् अधः -


02.53 "Typing Speed" इत्येतत् "60” characters per minute इति Correctness इत्येतत् "60" इति निर्धरन्तु ।
03.00 "Remember level for next program" इति पेटीं नुदन्तु।
03.06 "Apply" इत्यत्र नुत्त्वा "OK" इत्यत्र नुदन्तु।
03.09 अस्माभिः कृतानि परिवर्तनानि तदा एव अनुयन्ति यदा नवीनसेशन आरभ्यते।
03.14 "Start New Session" इत्यत्र नुत्त्वा "Keep Current Level" इतीदं चिन्वन्तु।
03.20 पुनः टङ्कनमारभन्तु।
03.23 अवधीयतां यत् आरम्भिकवेगः 0 अस्तीति। यदा वयं टङ्कयामः तदा वेगः ह्रीयते वर्धते वा।
03.30 "Pause Session" इत्यत्र नुदन्तु। यदा वयं स्थगयामः (पॉज़) तदा टङ्कनवेगः तस्यामेव गणनायां भवति।
03.38 टङ्कनं पुनरारभ्यताम्।
03.40 यदा वेगः 60 इत्यस्मात् न्यूनः भवति तदा Speed इत्यस्मात् अधः विद्यमाना रक्तबिन्दुः प्रकाशते इति अवधीयताम्।
03.47 एतेन ज्ञायते यत् वेगः अस्माभिः निर्धारितात् 60 इति सीमात् न्यूनः अस्ति इति।
03.54 अधुना, 4 इति सङ्ख्यां टङ्कयन्तु यच्च "Teacher’s Line" मध्ये नास्ति।
03.59 "Student’s Line" रक्तं भवति।
04.02 "Percentage of the Correctness" अपि न्यूनं जायते।
04.05 भवन्तः "Teacher’s Line" मध्ये विद्यमानं स्पेस् दृष्टुं शक्नुवन्ति?
04.11 अधुना, एतस्मात् शब्दात् परमहं स्पेस् न नुदामि।
04.15 "Student’s Line" पुनः रक्तं जातम्।
04.18 अस्यार्थः, स्पेस् अपि सम्यक्तया टङ्कनीयमिति।
04.22 student’s line मध्ये एकां सम्पूर्णां पङ्क्तिं टङ्कयन्तु अपि च "Enter" नुदन्तु।
04.31 तृतीयः स्तरः आगतः।
04.33 तृतीयस्तरे किमर्थं परिवृत्तम्? एतदर्थं, यतोहि, अस्माभिः Workload इत्यत्र 1 इति निर्धारितवन्तः आस्म।
04.39 अतः, यदा वयं द्वितीयस्तरस्य एकां पङ्क्तिं समापयामः अपि च यदा Enter नुदामः तदा वयं अग्रिमस्तरं प्रति चलामः।
04.47 अवधीयताम् यत्, "Teacher’s Line" मध्ये नूतनाक्षराणि प्रदृश्यन्ते इति।
04.52 किं भवन्तः भवतां टैपिंग् सेशन् इत्यस्य प्राप्ताङ्कं ज्ञातुमिच्छन्ति?
04.55 तर्हि, "Lecture Statistics" इत्यत्र नुदन्तु। "Training Statistics" इति डयलाग बाक्स प्रदृष्टं भवति।
05.02 टैब्स उपरि नुत्त्वा प्रत्येकस्मिन् किं दृश्यते इति पश्यन्तु।
05.07 "Current Training Session" इत्यत्र नुदन्तु।
05.12 एतत् general statistics इत्यस्य विवरणं ददाति। यथा, टङ्कनगतिः, टङ्कनस्य विशुद्धता अपि च अक्षराणां विवरणम् येषां च विषये अवधानस्य अवश्यकता वर्तते।
05.22 "Current Level Statistics" टैब अपि Current Training Session टैब यथा विवरणं ददाति तथैव विवरणं ददाति।
05.31 "Monitor Progress" टैब भवतां टङ्कनप्रगतेः चित्रीयविवरणं ददाति।
05.38 एतत् डयलाग बाक्स पिधीयताम्।
05.41 भवन्तः स्वकीय शार्टकट कीलान्यपि निर्मान्तुं शक्नुवन्ति।
05.45 शॉर्टकट कीलानि इत्युक्ते किम्?
05.47 शॉर्टकट कीलानि इत्युक्ते, अनेककीलानां संयोगः अस्ति यश्च मेन्युमध्ये स्थितान् विकल्पान् कीलफलकेनैव नुत्त्वा प्राप्तुं शक्नुमः।
05.56 "Lecture Statistics" दृष्टुं शॉर्टकट कीलं संरचयन्तु।
06.01 मुख्यमेन्यूतः "Settings", "Configure" "Shortcuts" इत्येषामुपरि नुदन्तु।
06.06 "Configure Shortcuts – KTouch" इति डायलॉग बॉक्स दृष्यते।
06.10 "Search" बॉक्स मध्ये "Lecture Statistics" इति टङ्कयन्तु।
06.16 "Lecture Statistics" इत्यत्र नुत्त्वा "Custom" इत्ति चित्वा "None" इत्यत्र नुदन्तु। ऐकान् "Input" इति परिवृत्तं भवति।
06.24 अधुना, कीलफलकात् Shift' अपि च A कीलं मिलित्वा नुदन्तु।
06.30 अवधीयतां यत्, अधुना ऐकान् Shift+A इत्याकारेण प्रदृष्टं भवति इति। "OK" इत्यत्र नुदन्तु।
06.38 अधुना, "Shift" अपि च "A" कीलं मिलित्वा नुदन्तु। "Training Statistics" इति डायलॉग बाक्स् प्रदृष्टं भवति।
06.45 बहिरागन्तुं Close इत्यत्र नुदन्तु।
06.49 के-टच भवतां कृते टूलबार इत्यस्य संरचनां कर्तुं अनुमतिं दास्यति।
06.53 चिन्तयामः यत् वयं "Quit Ktouch" इति आदेशं ऐकान् रूपेण दर्शयितुं इच्छामः इति।
06.58 मुख्य मेन्यू मध्ये "Settings" इत्यत्र नुत्त्वा, "Configure Toolbars" इत्यत्र नुदन्तु।
07.03 "Configure Toolbars – KTouch" इति डायलॉग बॉक्स प्रदृष्टं भवति।
07.07 वामपार्श्वे विकल्पानां सूचीतः "Quit" इति ऐकान् चित्वा तस्योपरि वारद्वयं नुदन्तु।
07.15 ऐकान् दक्षिणपार्श्वं उपसर्पति। "Apply" इत्यस्य उपरि नुत्वा "OK" इत्यत्र नुदन्तु ।
07.22 "Quit" इति ऐकान् अधुना के-टच विंडो मध्ये प्रदृश्यते।
07.26 एतेन समं वयं के-टच इति पाठस्य अन्तं प्राप्तवन्तः।
07.30 अस्मिन् ट्युटोरियल् मध्ये अस्माभिः अभ्यासस्तरः कथं परिवर्तनीयः, टङ्कनस्य गतिविषये विशुद्धताविषये च कथं अवधानं दातव्यम् इति अभ्यस्तम्।
07.38 वयं कीलफलके शार्ट्कट् इत्यस्य संरचनाम् अपि च टूलबार इत्यस्य संरचनाम् अपि ज्ञातवन्तः
07.43 अत्र भवतां कृते किञ्चन नियतकार्यमस्ति।
07.46 "Configure KTouch" इत्यस्मात् अधः Workload इत्येतत् 2 इति परिवर्तयन्तु।
07.50 "Complete whole training level before proceeding" इति बॉक्स चिन्वन्तु।
07.56 अधुना किञ्चन नूतनटङ्कनावधिम् आरभ्य तत्र अभ्यासं कुर्वन्तु।
08.00 अन्ततः, स्वकीयाभ्यासस्य फलितांशं परिशीलयन्तु।
08.04 अधस्थे लिंक मध्ये उपलब्धं विडियो पश्यन्तु।
08.07 एषः स्पोकन ट्यूटोरियल इत्यस्य सारांशः अस्ति।
08.10 यदि भवतां समीपे उत्तमं बैंडविड्थ नास्ति तर्हि भवन्तः एतत् अवचित्यापि (डाउनलोड) द्रष्टुं शक्नुवन्ति।
08.15 स्पोकन ट्यूटोरियल प्रकल्पगणः (प्रोजेक्ट टीम) :
08.17 स्पोकन ट्यूटोरियल इत्यस्य उपयोगद्वारा कार्यशालाः अपि चालयति।
08.20 ये ऑनलाइन परीक्षाम् उत्तरन्ति तेभ्यः प्रमाणपत्रमपि दीयते।
08.23 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
08.29 स्पोकन ट्युटोरियल प्रोजेक्ट टॉक-टू-अ-टीचर प्रोजेक्ट इत्यस्य भागः अस्ति।
08.33 एतत् भारतसर्वकारस्य एमएचआरडी इत्यस्य “आईसीटी माध्यमेन राष्ट्रीयसाक्षरतामिशन” द्वारा समर्थितमस्ति।
08.41 अस्य विषये अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इति लिंक मध्ये उपलब्धमस्ति।
08.52 अस्य प्रतेः अनुवादकः प्रवाचकश्च ऐ ऐ टि बांबे तः वासुदेवः अधुना आपृच्छति। समयदानाय धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Vasudeva ahitanal