LibreOffice-Suite-Calc/C2/Introduction-to-LibreOffice-Calc/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:24, 29 November 2012 by Sneha (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording Introduction to Calc

Visual Cue Narration
00:00 LibreOffice Calc - परिचय: इत्यस्मिन् मौखिकपाठे स्वागतम् |
00:06 अस्मिन् पाठे वयं एतद्विषयकं पठेम-
00:08 LibreOffice Calc इत्यस्य परिचय: |
00:12 LibreOffice Calc मध्ये विविध-toolbars |
00:16 Calc मध्ये नूतन: प्रलेख: कथम् उद्घाटव्य: |
00:18 विद्यमान: प्रलेख: कथम् उद्घाटव्य:|
00:21 Calc मध्ये प्रलेख: कथ: रक्षणीय: पिधातव्य: च |
00:26 LibreOffice Calc ,LibreOffice-सम्पुटस्य spreadsheet-अङ्गम् अस्ति |
00:32 यथा Writer व्यापकरूपेण अक्षरसम्बद्धं तथा spreadsheet व्यापकरूपेण साङ्ख्यसम्बद्धम् |
00:40 संख्याया: भाषानिमित्तम् असौ तन्त्रांश: इति वक्तुं शक्यम् |
00:44 इदं Microsoft Office -सम्पुटस्थं Microsoft Excel -समम् |
00:49 इदं नि:शुल्कं ,open source च तन्त्रांश: अस्ति येनेदं नि:शुल्कम् अनुकर्तुं , पुन: उपयोक्तुं वितरितुं च शक्यम् |
00:57 LibreOffice -सम्पुटस्य​ प्रारम्भार्थं स्वस्य Operating System - त्वेन Microsoft Windows 2000 अथवा तस्य प्रगतसंस्करणं यथा MS Windows XP अथवा MS Windows 7 अथवा GNU/Linux उपयोक्तुं शक्येत |


01:14 अत्र वयं operating system -त्वेन Ubuntu Linux 10.04 तथा च LibreOffice -सम्पुटसंस्करणं 3.3.4 उपयुञ्ज्महे |
01:27 यदि LibreOffice -सम्पुटं न संस्थापितं तर्हि Synaptic Package Manager उपयुज्य Calc संस्थापयितुं शक्यम् |
01:35 Synaptic Package Manager इत्यस्य अधिकज्ञानार्थम् कृपया Ubuntu Linux Tutorials पश्यतु | एतत् - जालस्था: सूचना: अनुसृत्य LibreOffice -सम्पुटं अवारोपयतु च |
01:50 LibreOffice - सम्पुटस्य प्रथमपाठे सविवरणं सूचना: उपलभ्यन्ते |
01:56 स्मरतु ,संस्थापनसमये 'Calc' install कर्तुं 'Complete' इति संस्थापनम् उपयोजयतु |
02:01 यदि प्रागेव LibreOffice -सम्पुटं संस्थापितं तर्हि पटले उपरितनवामस्थं “Applications” इति पर्यायं नुदित्वा तत: च " office" तत: च " LibreOffice" पर्यायं नुदित्वा भवान् LibreOffice Calc प्राप्स्यति|
02:17 विविध- LibreOffice -अङ्गै: नूतन: संवादपिटक: उद्घाट्यते |
02:22 LibreOffice Calc अभिगन्तुं नूतन-संवादपिटके “Spreadsheet” अङ्गं नुदतु |


02:30 इदं मुख्ये Calc -गवाक्षे एकं रिक्तं प्रलेखम् उद्घाटयेत् |
02:35 अधुना वयं Calc गवाक्षस्य मुख्याङ्गानां विषये पठेम |
02:40 Calc -स्थ: प्रलेख:, workbook इति उच्यते | workbook , spreadsheet-त्वेन उच्यमानानि बहूनि पत्राणि समाविशति|
02:48 प्रत्येकं spreadsheet पङ्क्तिस्तम्भाभ्यां रचितै: कक्षै: युतं भवति | प्रत्येकं पङ्क्ति: क्रमाङ्केण, प्रत्येकं स्तम्भ: च वर्णक्रमेण निर्दिश्यते |
02:58 प्रत्येकं कक्ष: य: पङ्क्तिस्तम्भयो: सम्पातम् आश्रयते स: तत्संबद्धेन पङ्क्तिक्रमाङ्केण स्तम्भवर्णेन च निर्दिश्यते |
03:09 कक्षा: ; अक्षरं ,संख्यां , सूत्रं तथा च अन्यां बहुविधां सामग्रीं दर्शनार्थं परिवर्तनार्थं च कक्षीकर्तुं शक्नुवन्ति |
03:18 प्रत्येकं spreadsheet मध्ये बहूनि पत्राणि भवितुम् अर्हन्ति तथा च प्रत्येकं पत्रे दशलक्षादपि अधिका: पङ्क्तय: सहस्रादपि अधिका: स्तम्भा: च भवितुम् अर्हन्ति येन एकस्मिन् पत्रे एक - अब्जात् अथवा शतकोटित: अपि अधिका: कक्षा: समाविशन्ति |


03:33 Calc गवाक्षे विविध - toolbars सन्ति यथा - title bar, menu bar, standard toolbar, formatting bar, formula bar , status bar च |
03:45 इमानि toolbars विहाय ,अत्र उपरिष्टात् “Input line” “Name box” चेति नामकं इतोऽपि क्षेत्रद्वयम् अस्ति|
03:54 toolbar प्राधान्येन उपयोग्यपर्यायान् समाविशति यान् वयं पाठप्रगतिगुणं पठेम |
04:03 अधुना भवान् “Sheet1”, “Sheet 2” ,“Sheet 3” च नाम्ना sheet tab - त्रयम् spreadsheet इत्यस्य अधस्तनवामकोणे पश्यति |
04:13 प्रत्येकं tab द्वारा दृश्य- sheet - युतं प्रत्येकं sheet प्राप्यते यस्मिन् श्वेत-tab भवति |
04:21 अन्यत् sheet tab नोदनेन तत् प्रत्येकं sheet प्रकटति तस्य tab च श्वेतं भवति |
04:28 spreadsheet इत्यस्य मुख्यविभाग: यस्मिन् सामग्री निवेश्यते स: grid -प्रारूपे विविधकक्षान् समाविशति | प्रत्येकं कक्ष: पङ्क्तिस्तम्भयो: सम्पात: अस्ति |
04:41 स्तम्भानाम् उपरिष्टात् पङ्क्तीनां च वामान्ते वर्णान् क्रमाङ्कान् च समाविशन्त्य: धूसरकक्षाणाम् आवल्य: सन्ति | इमा: पङ्क्तिस्तम्भयो: शीर्षकाणि सन्ति |
04:53 स्तम्भ: “A” इत्यत्र आरभते दक्षिणं प्रति च गच्छति , पङ्क्ति: “1” इत्यत्र आरभते अधस्तात् च गच्छति |
05:01 इमा: पङ्क्तिस्तम्भयो: शीर्षकाणि कक्षसन्दर्भान् निर्मान्ति ये “Name Box” क्षेत्रे आविर्भवन्ति |
05:07 Calc - स्थानां विविध-अङ्गानां पठनानन्तरं वयम् अधुना LibreOffice Calc-मध्ये नूतन: प्रलेख: कथम् उद्घाट्य: इति पठिष्याम: |
05:17 standard toolbar मध्ये “New” चित्रकं नुदित्वा अथवा menu bar मध्ये “File” पर्यायं नुदित्वा ततश्च “New” पर्यायं नुदित्वा तत: अन्ते च “Spreadsheet” पर्यायं नुदित्वा भवान् नूतनं प्रलेखम् उद्घाटयितुं शक्नोति|
05:33 भवान् पश्यति यत् पर्यायद्वयेनापि नूतन: Calc -गवाक्ष: उद्घाट्यते |
05:39 अधुना वयं spreadsheet मध्ये “Personal Finance Tracker” कथं निर्मातव्यमिति पठेम |
05:45 spreadsheet मध्ये कतिपयकक्षेषु सामग्री कथं निवेशनीया इति पठाम: |
05:50 अथ spreadsheet इत्यस्य प्रथम-sheet -स्थं A1 - इत्यनेन सङ्केतितं कक्षं नुदतु |
05:56 “SN” इति शीर्षकं टङ्कयाम​: यत् पदानां क्रमश: क्रमाङ्कान् सूचयति यान् वयं spreadsheet मध्ये निर्दिशाम: |
06:05 अधुना B1 इत्यनेन सङ्केतितं कक्षं नुदाम: , “Items” इति अन्यत् शीर्षकं टङ्कयाम​: च |
06:11 सर्वाणि पदनामानि यानि वयं spreadsheet मध्ये उपयुञ्ज्महे तानि अस्य शीर्षकस्य अध: आगमिष्यन्ति |
06:18 तथैव C1, D1, E1, F1 , G1 चेति कक्षान् एकैकश: नुदतु , तथा च यथाक्रमं “Cost”, “Spent”, “Received”, “Date” , “Account” चेति शीर्षकाणि लिखतु |


06:33 वयम् अनन्तरं एषु प्रत्येकं स्तम्भे सामग्रीं निवेशयाम: |
06:39 एकवारं लिखितं चेत् भविष्यदुपयोगाय भवता इदं भवदीयं spreadsheet रक्ष्यम् |
06:44 इमां सञ्चिकां रक्षितुं menu bar मध्ये “File” इत्यत्र , तत: च “Save As” पर्यायं नुदतु |


06:51 पटले संवादपिटक: आविर्भवति यत्र “Name” क्षेत्रे भवता भवदीय-सञ्चिकाया: नाम लेखनीयम् |
06:59 अथ सञ्चिकाया: नाम “Personal Finance Tracker” इति निवेशयतु |
07:04 “Name” क्षेत्रस्य अध: “Save in folder” क्षेत्रम् अस्ति यत्र भवता धारिकानाम लेखनीयं या भवदीयां रक्षितसञ्चिकां समाविशेत् |
07:14 अथ “Save in folder” क्षेत्रे अधस्तनबाणं नुदतु |
07:18 धारिका-पर्यायाणाम् आवली आविर्भवति | अत्र वयं धारिकां चेतुं शक्नुम: यस्यां वयम् अस्मत्सञ्चिकां रक्षितुम् इच्छाम: |
07:26 वयं “Desktop” पर्यायं नुदाम:|
07:28 येन सञ्चिका उत्पीठे रक्षिता भवेत् |
07:34 अधुना संवादपिटके “File type” पर्यायं नुदतु |
07:37 इदं सञ्चिकाप्रकारपर्यायाणाम् आवलीम् अथवा यस्यान्त: भवान् सञ्चिकां रक्षितुम् इच्छति तद् सञ्चिका- extension दर्शयेत् |
07:46 LibreOffice Calc मध्ये उत्सर्ग - सञ्चिका - प्रकार: “ODF Spreadsheet” अस्ति य: “dot ods” extension कल्पयति |
07:56 ODF इत्युक्ते Open Document Format यत् open standard अस्ति |
08:01 LibreOffice Calc मध्ये उद्घाट्यमानं dot ods - प्रारूपं रक्षणं विहाय ,भवान् भवदीय- सञ्चिकां dot xml, dot xlsx , dot xls प्रारूपे अपि रक्षितुं शक्नोति या MS Office Excel program मध्ये उद्घाट्येत |
08:20 बहुत्र program मध्ये उद्घटत् अन्यत् प्रसिद्धं सञ्चिका- extension , dot csv अस्ति |
08:28 text file प्रारूपे spreadsheet - सामग्रीं संगृह्णातुम् इदम् उपयुज्यते यत् सञ्चिका-आकारं बहुश: न्यूनीकरोति, सुवाह्यं च अस्ति |
08:38 वयं “ODF Spreadsheet” पर्यायं नुदिष्याम: |
08:43 भवान् पश्यति यत् “ODF Spreadsheet and within brackets, dot ods” इति सञ्चिका-प्रकार: “File type” पर्यायस्य पार्श्वे आविर्भूत: |
08:53 “Save” पिञ्जं नुदतु |
08:55 इदं भवन्तं title bar - स्थं यादृच्छिकं extension तथा च सञ्चिका-नाम्ना सह Calc - गवाक्षं प्रति नयेत् |
09:03 उपर्युक्तचर्चितप्रारूपाणि विहाय “dot html” - प्रारूपे अपि spreadsheet - रक्षणं शक्यं यत् web page प्रारूपम् अस्ति |
09:13 यथा पूर्वं स्पष्टीकृतं तथैव इदं करणीयम् |
09:18 menu bar मध्ये “File” पर्यायं ततश्च “Save As” पर्यायं नुदतु |
09:24 अधुना ”File Type” पर्यायं ततश्च “HTML Document" ,धनुरावरणे च "OpenOffice dot org Calc” पर्यायं नुदतु |
09:36 असौ पर्याय: प्रलेखाय “dot html” extension ददाति |
09:41 “Save” पिञ्जं नुदतु |
09:44 अधुना संवादपिटके “Ask when not saving in ODF format” पर्यायम् अङ्कयतु |
09:50 अन्ते “Keep Current Format” पर्यायं नुदतु |
09:54 भवान् पश्यति यत् dot html extension सह प्रलेख: रक्षित: अभवत् |
10:00 यदा वयं spreadsheet जालपर्णत्वेन दर्शयितुम् इच्छाम: यत् web browser program द्वारा उद्घटति तदा इदं प्रारूपमुपयुज्यते |
10:10 यथा पूर्वं, standard tool bar मध्ये केवलं “Export Directly as PDF” पर्यायं नुदित्वा प्रलेख: PDF प्रारूपे निर्यातुं शक्य: |
10:20 स्थानं चिनोतु यत्र भवान् रक्षितुम् इच्छति |
10:24 अथवा menu bar मध्ये “File” पर्यायं ततश्च “Export as pdf” पर्यायं नुदित्वा अपि भवान् इदं कर्तुं शक्नोति |
10:33 आविर्भवति संवादपिटके , “Export” पर्यायं नुदित्वा “Save” पिञ्जं नुदतु |
10:40 pdf - सञ्चिका निर्मिता भवेत् |
10:44 "File " ततश्च "Close " नुदित्वा एनं प्रलेखं पिदधाम: |
10:50 अग्रे LibreOffice Calc मध्ये विद्यमान: प्रलेख: कथम् उद्घाट्य: इति वयं पठिष्याम: |
10:56 विद्यमानं प्रलेखम् उद्घाटयितुं ,उपरिष्टात् menu bar मध्ये “File” इत्यत्र ततश्च “Open” पर्यायं नुदतु |
11:06 पटले संवादपिटक: आविर्भवति |
11:09 अत्र धारिकां चिनोतु यत्र भवान् भवदीय - प्रलेखं रक्षितवान् अस्ति |
11:14 अथ संवादपिटकस्य उपरितनवामकोणे small pencil button पिञ्जं नुदतु | अस्य नाम “Type a file name” इति अस्ति |
11:23 इदं “Location Bar” क्षेत्रम् उद्घाटयति |
11:25 अत्र इष्टसञ्चिकानाम लिखतु |
11:30 अथ वयं “Personal Finance Tracker” इति सञ्चिकानाम टङ्कयाम: |
11:35 अधुना आविर्भवन्त्यां सञ्चिका-आवल्यां “Personal Finance Tracker dot ods” चिनोतु |
11:43 अधुना “Open” पिञ्जं नुदतु |
11:45 भवान् पश्यति यत् 'Personal Finance Tracker.ods' सञ्चिका उद्घटति |
11:51 अथवा उपरिष्टात् toolbar मध्ये “Open” चित्रकं नुदित्वा,अग्रिम-प्रक्रियां यथावत् कृत्वा च भवान् विद्यमानं प्रलेखम् उद्घाटयितुं शक्नोति |
12:02 भवान् “dot xls” ,तथा च “dot xlsx” extension सह अपि सञ्चिकाम् उद्घाटयितुं शक्नोति ये Microsoft Excel - द्वारा Calc मध्ये उपयुज्येते |
12:13 अग्रे भवान् द्रक्ष्यति यत् सञ्चिका कथं परिवर्तनीया समाननाम्ना च कथं रक्षणीया इति |
12:20 अथ शीर्षकं स्थूलं कृत्वा , font - आकारं वर्धयित्वा च सञ्चिकां परिवर्तयाम: |
12:26 अथ प्रथमं A1 इति कक्षं नुदतु | मूषकस्य वामपिञ्जं नुदित्वा ,शीर्षकै: सह तत् कर्षित्वा “SN”, “Cost”, “Spent”, “Received”, “Date” , “Account” च इति शीर्षकाणि चिनोतु |
12:42 इदं लेख्यं चिनुयात् प्रकाशयेत् च | अधुना मूषकस्य वामपिञ्जं त्यजतु | तथापि लेख्यं प्रकाशमानं भवेत् | अधुना standard toolbar मध्ये “Bold” चित्रकं नुदतु |
12:56 इत्थं शीर्षकाणि स्थूलानि भवन्ति |
12:59 अधुना शीर्षकाणाम् font -आकारं वर्धयाम:|
13:03 अथ शीर्षकाणि चिनुम: ततश्च toolbar मध्ये “Font Size” क्षेत्रं नुदाम: |
13:09 drop down मेनु मध्ये “14” इति चिनुम: |
13:13 अथ भवान् पश्यति यत् शीर्षकाणां font -आकार: वर्धते |
13:17 अधुना अस्माभि: उपयुज्यमानां font -शैलीं परिवर्तयाम: |
13:21 अथ “Font Name” क्षेत्रे अधोगमं बाणं नुदतु ,ततश्च “Bitstream Charter” इति font - नाम चिनोतु |
13:31 आवश्यक - परिवर्तनानन्तरं “Save” चित्रकं नुदतु |
13:36 एकवारं भवता भवदीय-प्रलेख: रक्षित: अपि च भवान् पिधातुम् इच्छति ,चेत् केवलं मेनुबार - मध्ये “File” मेनु नुदतु , “Close” पर्यायं नुदतु च |
13:46 इदं भवत: सञ्चिकां पिद्ध्यात् |
13:50 अत्र LibreOffice Calc - विषयकं Spoken Tutorial समाप्यते |
13:54 अस्माभि: यत् पठितं तद् संक्षेपेण -
13:57 LibreOffice Calc इत्यस्य परिचय: |
14:01 LibreOffice Calc मध्ये विविध-toolbars |
14:04 Calc मध्ये नूतन: प्रलेख: कथम् उद्घाटव्य: |
14:07 विद्यमान: प्रलेख: कथम् उद्घाटव्य: |
14:10 Calc मध्ये प्रलेख: कथं रक्षणीय: पिधातव्य: च |

व्यापिका परीक्षा | Calc - मध्ये नूतन- प्रलेखम् उद्घाटयतु | “Spreadsheet Practice.ods” नाम्ना तं रक्षतु | “Serial number”, “Name”, “Department” , “Salary” इति शीर्षकाणि लिखतु | शीर्षकाणि अधोरेखितानि करोतु | शीर्षकाणां font - आकारं 16 इति वर्धयतु | सञ्चिकां पिदधातु |


14:14 *अधस्तनसंधाने उपलब्धं चलच्चित्रम् पश्यतु |
14:17 *इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
14:20 *यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि भवान् अवारोप्य द्रष्टुं शक्नोति |
14:24 spoken tutorial गण:


14:26 *spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
14:30 *online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
14:34 *कृपया अधिकज्ञानार्थं contact@spoken hyphen tutorial dot org संपर्कं करोतु |
14:40 *Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:
14:45 *असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
14:53 *अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org |
14:55 *slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
15:03 *एतद्पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |



15:08 *संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Sneha