LibreOffice-Suite-Writer/C2/Viewing-and-printing-a-text-document/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:20, 29 November 2012 by Sneha (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording Viewing and Printing Text Document

Time Narration
00:00 LibreOffice Writer -प्रलेखस्य मुद्रणं दर्शनं च इत्यस्मिन् मौखिकपाठे स्वागतम् |
00:06 अस्मिन् पाठे वयम् अधस्तनबिन्दून् पठेम -
00:10 प्रलेखस्य दर्शनम् |
00:12 प्रलेखस्य मुद्रणम् |
00:13 अत्र वयम् अस्माकं operating systemत्वेन Ubuntu Linux 10.04, LibreOffice -संपुट-संस्करणं 3.3.4.च उपयुञ्ज्महे |
00:24 अथ वयम् LibreOffice Writer - स्थ - दर्शकै: पर्यायै: अस्माकं पाठम् आरभामहे |
00:31 Writer-मध्ये मूलत: बहुश: उपयुज्यमानौ द्वौ दर्शकौ पर्यायौ स्त: |
00:36 तौ “Print Layout” , “Web Layout” च |
00:39 “Print Layout” पर्याय: मुद्रितप्रलेख: कथं दृश्येत इति दर्शयति |
00:45 “Web Layout” पर्याय: , प्रलेख: जाल -गवेषके कथं दृश्येत इति दर्शयति |
00:50 यदा भवान् HTML प्रलेखान् निर्मातुम् इच्छति ,तथा च यदा भवान् संपूर्णपटले संपादनार्थं प्रलेखं दर्शयितुम् इच्छति तदा इदम् उपयुक्तं भवति |
01:00 “Print Layout” - पर्यायम् अभिगन्तुं “View” पर्यायं नुदतु ततश्च “Print Layout” पर्यायं नुदतु |
01:08 “Web Layout” पर्यायम् अभिगन्तुं menu bar -मध्ये “View” पर्यायं नुदतु ततश्च “Web Layout” पर्यायं नुदतु |
01:19 एतद्पर्यायद्वयं विहाय भवान् full screen mode मध्ये अपि प्रलेखं दर्शयितुं शक्नोति |
01:26 menu bar -मध्ये “View” पर्यायं नुदतु ततश्च “Full Screen” पर्यायं नुदतु |
01:32 प्रलेखानां संपादनार्थं तथा च तान् प्रक्षेपणयन्त्रे प्रक्षेपयितुम् इदम् full screen mode उपयुक्तं भवति |
01:39 full screen mode निष्कासयितुं कीलफ़लके “Escape” कीलं नुदतु |
01:44 वयं पश्याम: यत् प्रलेख: full screen mode निष्कासयति |
01:49 अधुना View menu मध्ये “Print Layout” पर्यायं नुदाम: |
01:53 अग्रत: गमनात् पूर्वं , वयं Insert >> Manual Break नुदित्वा Page break पर्यायं च चित्वा प्रलेखस्य कृते नूतनं पर्णं योजयाम: |
02:04 ”तत: “OK” नुदतु |
02:06 वयं इदम् अन्यस्मिन् पाठे सविस्तरं पठिष्याम: |
02:11 प्रलेखनस्य दर्शनार्थम् अन्यपर्याय: “Zoom” इत्युच्यते |
02:17 menu bar मध्ये “View” पर्यायं नुदतु ततश्च “Zoom” नुदतु |
02:22 भवान् पश्यति यत् अस्मत्पुरत: “Zoom and View Layout” - संवादपिटक: उद्घटति |
02:27 अस्य “Zoom factor” , “View layout” च नाम्न: शीर्षके स्त: |
02:34 “Zoom factor” वर्तमानप्रलेखं दर्शयितुं zoom factor विन्यासयति अपि च भवान् समानप्रकारस्य सर्वप्रलेखान् अनन्तरम् उद्घाटयितुं शक्नोति |
02:43 अस्मिन् उपयुक्ता: पर्याया: सन्ति यान् वयम् एकैकं चर्चयिष्याम:|
02:48 “Optimal” पर्यायस्य नोदनानन्तरं भवान् प्रलेखस्य उपकारकदर्शनं प्राप्नोति |


02:55 “Fit width and height” पर्याय: पर्णस्य विस्तार- औनत्त्यानुसारानुगुणं प्रलेखं विन्यासयति| येन इदम् एकस्मिन् समये एकं पर्णं दर्शयति |
03:05 इदं प्रलेखस्य नैकानां पर्णानां दर्शनं संपादनं च सुकरं करोति |
03:11 Fit to Width इति अग्रिमपर्याय:| असौ पर्णं तस्य विस्तारे विन्यासयति |
03:17 १००% view -पर्याय: , पर्णं तस्य वास्तविके आकारे दर्शयति |
03:23 अग्रे अस्मत्सविधे “Variable” इति अतीव महत्त्वपूर्ण: दर्शक - पर्याय: अस्ति |
03:28 variable क्षेत्रे भवान् zoom factor अन्तर्भावयितुं शक्नोति यत्र भवान् प्रलेखं दर्शयितुम् इच्छति|
03:35 यथा , वयं “Variable” क्षेत्रे “75%” इति मूल्यं लिखेम ततश्च “OK” पिञ्जं नुदाम: |


03:43 तथैव भवान् भवदीय-आवश्यकतानुसारं प्रलेखानां दर्शनसम्पादनयो: सौकर्यानुसारं च zoom factor परिवर्तयितुं शक्नोति |
03:51 संवादपिटके “View layout” इति अन्यत् वैशिष्ट्यम् अस्ति |
03:56 “View layout” पर्याय: text document निमित्तम् अस्ति |
03:59 असौ प्रलेखे विविध - view layout -न्यासानां परिणामदर्शनार्थं zoom factor न्यूनीकर्तुम् उपयुज्यते |
04:07 अस्मिन् पर्णानाम् एकस्य पार्श्वे एकस्य तथा च एकस्य अध: एकस्य क्रमश: दर्शनार्थं “Automatic”, “Single page” च इत्येतौ पर्यायौ स्त: |
04:18 यथा यदि वयं “Zoom factor” इत्यस्य अध: “Fit width and height” पर्यायं चिनुम: ,तत: “View layout” पर्यायस्य अध: “Single page” पर्यायं नुदाम: अन्ते च “OK” पिञ्जं नुदाम: तर्हि वयं पश्याम: यत् पर्णानि एकस्य अध: एकम् इति दृश्यन्ते |
04:36 अधुना “Automatic” पर्यायं नुदतु | ततश्च “OK” पिञ्जं नुदतु |
04:42 भवान् पश्यति यत् पर्णानि एकस्य पार्श्वे एकमिति दृश्यन्ते |
04:48 Writer Status Bar - स्थं नियन्त्रकत्रयमपि प्रलेखस्य zoom , view layout च इति परिवर्तयितुम् अनुमतिं करोति |
04:56 वामत: दक्षिणपर्यन्तं View Layout चित्रकाणि इत्थं सन्ति - Single column mode,एकस्य पार्श्वे एकमिति पर्णै: सह view mode ,open book इव पर्णद्वयेन सह book mode च |
05:11 वयं पर्णे zoom कर्तुं दक्षिणे अथवा अधिकपर्णानि दर्शयितुं वामभागे Zoom slider , कर्षितुमपि शक्नुम:|
05:20 LibreOffice Writer मध्ये “printing” विषयकं पठनात् पूर्वं वयं “Page preview” विषये किञ्चित् पठाम: |
05:28 “File” उपरि नुदतु “Page Preview” निर्दिशतु च |
05:32 यदा भवान् page preview mode मध्ये वर्तमानं प्रलेखं दर्शयति तदा “Page Preview” bar आविर्भवति |
05:38 मुद्राणात् अनन्तरं भवदीय- प्रलेखं कथं दृश्येत इति इदं मूलत: दर्शयति |
05:44 भवान् resume.odt सञ्चिकाया: पूर्वदर्शनं कर्तुं शक्नोति |
05:50 preview page इत्यस्य tool bar मध्ये विविधा: नियन्त्रकपर्याया: सन्ति |
05:55 “Zoom In”, “Zoom Out”, “Next page”, “Previous page” “Print” निमित्तं चापि अत्र पर्याया: सन्ति |
06:03 पर्णस्य पूर्वदर्शनं तथा च LibreOffice Writer मध्ये प्रलेखानां दर्शनं कथम् इति पठनात् अनन्तरं ,वयम् अधुना LibreOffice Writer मध्ये “Printer” कथं प्रवर्तते इति पठिष्याम: |
06:15 सरलशब्दै: printer नाम प्रलेखस्य मुद्रणार्थम् उपयुज्यमानम् उत्पादकयन्त्रम् |
06:21 अधुना वयम् print इत्यस्य विविधपर्याया: कथम् अभिगन्तव्या: इति पठिष्याम: |
06:26 “Tools” नुदतु -> “Options” नुदतु |
06:32 “LibreOffice Writer“ इत्यस्य पार्श्वस्थं बाणं नुदतु अन्ते च “Print” इत्यत्र नुदतु |
06:38 पटले चयनार्थं पर्यायान् ददत् संवादपिटक: आविर्भवति |
06:43 अथ वयं default settings स्थापयाम: तत: च “OK” पिञ्जं नुदाम: |
06:49 अधुना संपूर्णं प्रलेखं साक्षात् मुद्रयितुं ,tool bar मध्ये “Print File Directly” चित्रकं नुदतु |
06:56 इदं शीघ्रमुद्रणम् इति उच्यते |
07:00 “Print” पर्यायम् अभिगत्य, default settings च परिवर्त्य भवान् मुद्रणम् आधिक्येन नियन्त्रयितुं शक्नोति |
07:07 menu bar मध्ये “File” मेनु नुदतु , ततश्च “Print” उपरि नुदतु |
07:13 पटले “Print” - संवादपिटक: आविर्भवति |
07:17 वयम् अत्र General Tab मध्ये “Generic Printer” पर्यायं चिनुम: |
07:22 प्रलेखस्य सर्वाणि पर्णानि मुद्रयितुं “All pages” पर्याय: अस्ति |
07:28 यदि भवान् मर्यादितपर्णानि मुद्रयितुम् इच्छति तर्हि भवान् “Pages” पर्यायं चित्वा क्षेत्रे संख्यां लेखितुं शक्नोति | यथा वयम् अत्र “1-3” टङ्कयाम: | इदं प्रलेखस्य प्रथमपर्णत्रयं मुद्रयिष्यति |
07:44 यदि भवान् प्रलेखस्य नैका: प्रतिकृती: इच्छति तर्हि “Number of copies” क्षेत्रे मूल्यं लिखतु | वयं क्षेत्रे “2” इति मूल्यं लिखेम |
07:54 अधुना संवादपिटके “Options” tab नुदाम: |
08:00 पर्यायाणाम् आवली पटले आविर्भवति यत्र भवान् प्रलेखं चेतुं मुद्रयितुं च शक्नोति |
08:07 वयं “ Print in reverse page order” इति नाम्न: अङ्कनपिटकं (check box ) पश्याम:|
08:12 असौ पर्याय: महत: उत्पादनस्य संग्रहाय उपकरोति |
08:16 अत: अस्य विरुद्धस्थम् अङ्कनपिटकं नुदतु |
08:19 अधुना "print " - पिञ्जं नुदतु |


8:22 भवान् भवदीय -pdf-प्रलेखमपि मुद्रयितुं शक्नोति |


08:26 “dot odt” प्रलेख:, “dot pdf” file मध्ये कथं परिवर्तनीय: इति अस्माभि: पूर्वमेव दृष्टम् |
08:34 अस्माभि: पूर्वमेव उत्पीठे “pdf” सञ्चिका रक्षिता अस्ति, अत: वयं pdf सञ्चिकायां द्विर्नोदनं कुर्म:|
08:41 अधुना “File” पर्यायं नुदतु ततश्च “Print” इत्यत्र नुदतु |
08:47 वयं default settings स्थापयाम: ततश्च “Print Preview” पिञ्जं नुदाम: |
08:52 भवान् पटले सञ्चिकाया: preview पश्यति |
08:56 अधुना इदं मुद्रयितुं preview - पर्णे “Print this document” चित्रकं नुदतु |
09:04 अत्र LibreOffice Writer विषयकं spoken tutorial समाप्यते |
09:09 अस्माभि: पठितं तद् संक्षेपेण -
09:11 प्रलेखस्य दर्शनम् |
09:13 प्रलेखस्य मुद्रणम् |
09:16 व्यापिका परीक्षा
09:18 Writer मध्ये “This is LibreOffice Writer” इति टङ्कयतु |
09:23 प्रलेखस्य संपूर्णंदर्शनार्थं “Full Screen” पर्यायम् उपयोजयतु |
09:29 प्रलेखस्य “optimal” तथा च “Variable” दर्शनार्थं zoom पर्यायस्य उपयोगं करोतु | “variable” मूल्यं “50%” इति विन्यासयतु ततश्च प्रलेखं दर्शयतु |
09:41 प्रलेखस्य “Page preview” करोतु तस्य च पर्णस्य रेखाभि: सह प्रतिकृतिद्वयं करोतु |
9:49 अधस्तनसंधाने उपलब्धं चलत्-चित्रं पश्यतु |
9:52 तत् Spoken Tutorial प्रकल्पं संक्षेपयति |
9:56 भवत्सविधे उत्तमं bandwidth नास्ति चेत् अवारोप्य तद् पश्यतु |
10:00 Spoken Tutorial प्रकल्प-गण:spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
10:06 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
10:09 अधिकज्ञानार्थं contact@spoken-tutorial.org इत्यत्र लिखतु|
10:16 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग: |
10:20 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
10:28 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org


10:31 slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |


10:39 एतद्पाठाय घाग - नन्दिन्या योगदानं कृतम् |


10:43 संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Sneha