Linux/C2/Working-with-Linux-Process/Sanskrit

From Script | Spoken-Tutorial
Revision as of 14:57, 29 November 2012 by Sneha (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
0:00 Linux Processes इत्येभि: सह कार्यम् इत्यस्मिन् spoken tutorial मध्ये स्वागतम्
0:05 अहं Ubuntu 10.04. उपयुञ्जे
0:09 वयं चिन्तयाम: यत् Linux - प्रणाल्या: आरम्भम् आदेशानां प्राथमिकसंकल्पनां च भवान् जानाति
0:16 यदि भवान् इच्छति तर्हि तत् अस्मिन् जालपुटे अन्यस्मिन् spoken tutorial मध्ये उपलभ्यम् अस्ति http://spoken-tutorial.org/ http://spoken-tutorial.org.
0:28 अपि च जानातु यत् linux अक्षर-संवेद्यम् अस्तीति ,अस्मिन् tutorial मध्ये विशेषत्वेन अनुक्ता: सर्वे आदेशा: लघ्वक्षरै: टङ्किता: सन्ति
0:38 प्रक्रिया इत्युक्ते किम् इति ज्ञापयितुम् अहं संक्षिप्तं स्पष्टीकरणं करोमि
0:42 किञ्चन यत् चलत् भवति तन्नाम process.प्रक्रिया
0:46 किञ्चित् shell सञ्चलति अस्माकम् आदेशान् च स्वीकरोति इत्येका प्रक्रिया अस्ति
0:51 अस्माभि: terminal उपरि टङ्क्यमाना: आदेशा: सञ्चलन्ति इत्येका प्रक्रिया एव
0:56 चलच्चित्रे भवद्भि: दृश्यमानम् इदं tutorial , इति अपि प्रक्रिया अस्ति
1:00 यस्मिन् गवेषके भवता spoken tutorial जालपुटम् उद्घाटितमस्ति स: कार्यान्वित: गवेषक: अपि एका प्रक्रिया अस्ति
1:05 Shell scripts सञ्चलन्ति इत्युक्ते एका प्रक्रिया एव भवति
1:11 किञ्चन program कार्यान्वितं भवति इत्युक्ते प्रक्रिया, इत्येवं वयं प्रक्रियां व्याख्यातुं शक्नुम:
1:17 प्रक्रिया: भृशम् अस्मत्-सदृशा: सन्ति , ते जायन्ते म्रियन्ते अपि , तेषां पालका: बालका: च भवन्ति
1:28 प्रथमं तावत् shell-प्रक्रियाया: विषये पठेम
1:31 प्रणाल्यां login कृते सत्येव Linux kernel इत्यनेन shell - प्रक्रिया आरभते
1:36 अस्मिन् स्तरे एतावत् ज्ञानं पर्याप्तं भवेत् यत् Linux kernel इति Linux प्रणाल्या: सारम् अस्ति
1:43 अस्मिन् अतीव आवश्यकानि अङ्गानि सन्ति यै: Linux सञ्चाल्यते , shell उपयोक्तृ -आदेशानां अन्या: सर्वा: प्रक्रिया: निर्माति उत्पादयति वा
1:53 अथ terminal. उद्घाटयाम:
1:57 वयं terminal उपरि आदेशस्य dollar - चिह्नाकारं संसूचकं द्रष्टुं शक्नुम:
2:03 इदं shell -प्रक्रियाया: कार्यम्
2:07 अधुना कञ्चित् आदेशं टङ्कयाम: , चिन्तयतु ... “date” , enter च नुदतु
2:13 अस्मिन् कृते सति एव shell -प्रक्रिया date नाम्न: प्रक्रियाम् आरभेत
2:18 अधुना , shell -प्रक्रिया date -प्रक्रियाम् उदपादयत् नाम वयं वक्तुं शक्नुम: यत् shell -प्रक्रिया date -प्रक्रियाया: पिता अस्ति ,अपि च date -प्रक्रिया shell -प्रक्रियाया: बालिका अस्ति
2:30 एकवारं date -प्रक्रियया प्रणाल्या: दिनाङ्क: समय: च दर्शित: चेत् तदनु सा म्रियेत
2:40 किञ्चन shell अन्यां shell - प्रक्रियाम् अपि जनयितुं शक्नोति , अन्यप्रक्रियाया: जननं ,प्रक्रियाया: निर्माणं वा इत्येषा प्रक्रिया spawning इति उच्यते
2:50 अन्यां shell - प्रक्रियां जनयितुं ,केवलं terminal इत्यत्र गच्छतु , टङ्कयतु च “sh” , enter. नुदतु
3:00 वयं terminal इत्यत्र आविर्भवत् नूतनं संसूचकं पश्येम , अधुना अस्माकं मूलं shell ..यस्य नाम shell 1 इति भवतु , येन shell इत्यस्य इतोऽपि एक: बालक: जनित: ,तं वयं shell 2 इति वदाम:
3:13 अधुना भवान् आदेशस्य नूतन-संसूचके आदेशं सञ्चालयितुं शक्नोति , अथ अस्मिन् नूतन-संसूचके ls आदेशं सञ्चालयाम:
3:20 अधुना संसूचके टङ्कयतु “ls” enter नुदतु च, वयं सञ्चिकानां संधारिकाणां च आवलिं द्रष्टुं शक्नुम:
3:32 अधुना ls नाम्ना नूतना प्रक्रिया निर्मिता
3:35 अत्र ls इत्यस्य पिता shell 2 इत्यस्ति ,अपि च shell 1 इति ls इत्यस्य पितामह: अस्ति , shell 2 इत्यस्य ls इति बालक: अस्ति ,shell 2 , shell1 इत्यस्य बालक: अस्ति
3:56 shell 2 मारयितुं नूतन-संसूचके टङ्कयतु “exit” , enter नुदतु च
4:04 अनेन shell 2 हतं भवेत्, अपि च वयं आदेशस्य मूल-संसूचके पुन: भविष्याम:
4:12 प्रक्रिया वयं च इति अनयो: सादृश्यं मनसि धृत्वा एव , वयं ज्ञातुं शक्नुम: यत् अस्मासु प्रत्येकस्य केचन धर्मा: भवन्ति ये अस्मान् अभिज्ञापयन्ति, ते विशेषा: अस्माकं नाम ,पितृ-नाम, जन्म-दिनाङ्क: , PAN card- क्रमाङ्क: इत्येते भवितुम् अर्हन्ति
4:26 तथैव प्रक्रियाणाम् अपि विशेषा: भवन्ति यथा PID(Process ID), PPID(Parent Process ID), Start time, इत्यादय:
4:38 एषु बहव: धर्मा: kernel इत्यनेन process -सारण्याम् अनुरक्षिता: भवन्ति
4:43 एकमात्रं पूर्णाङ्कमूल्यं PID इत्युच्यते अनेन च प्रत्येकं प्रक्रिया स्पष्टं अभिज्ञाप्यते, यदा प्रक्रिया जनिता भवति तदैव kernel इत्यनेन PID विधीयते
4:51 पितृ-प्रक्रियाया: PID नूतन-प्रक्रियां जनयति , चिन्तयतु , P1 , इति P1 प्रक्रियाया: PPID इति उच्यते
5:00 विद्यमानस्य shell इत्यस्य PID द्रष्टुं संसूचके टङ्कयतु “echo space dollar dollar” , enter नुदतु
5:11 एक: क्रमाङ्क दर्श्येत, स एव विद्यमानस्य shell इत्यस्य PID स्यात्
5:23 प्रक्रियाणां विषये चर्चासमये वयं बहुवारं ps इति एकम् आदेशम् उपयुञ्ज्महे
5:29 ps , process status वा इति एक: आदेश: अस्ति य: प्रणाल्यां सञ्चाल्यमाना: प्रक्रिया: दर्शयति
5:34 अथ यदि वयम् एनम् आदेशं कमपि पर्यायं विना सञ्चालयाम: तर्हि किं भवति इति पश्याम:
5:40 अधुना संसूचके टङ्कयतु “ps” , enter नुदतु च
5:47 इत्थं वयं सामान्यत: program सञ्चालयता उपयोक्तु: स्वामित्वे विद्यमानानां सर्वासां प्रक्रियाणाम् आवलिं पश्येम .
5:54 CMD इति शीर्षकस्य अध: भवान् प्रक्रियाया: नाम द्रष्टुं शक्नोति
5:58 एतत् विहाय भवान् द्रष्टुं शक्नोति PID, TTY , अथवा console यत्र प्रक्रिया सञ्चलन्ती अस्ति
6:06 यदा प्रक्रिया आरब्धा तदा आरभ्य एतत् TIME इत्युक्ते total processor time उपयुज्यमानम् अस्ति
6:12 मम यन्त्रे इदं प्रक्रियाद्वयं दर्शयति
6:16 एका अस्ति bash, नाम shell -प्रक्रिया यां वयम् उपयुञ्जाना: स्म:, अन्या अस्ति सैव ps प्रक्रिया !
6:25 अन्यत् एकं अत्र ध्यातव्यं यत् shell - प्रक्रियाया: PID , echo space dollar dollar इत्यनेन आदेशात् दर्शितेन PID इत्यनेन समानं भवति
6:35 यदि वयं subshell जनयाम: तर्हि पश्याम: किं भवति इति , terminal इत्यत्र टङ्कयतु “sh” , enter नुदतु च
6:42 अधुना नूतन-पङ्क्तौ आविर्भवति नूतने संसूचके टङ्कयतु “ps” enter नुदतु च
6:51 अधुना अस्याम् आवल्यां प्रक्रियात्रयं पश्याम: , तत्र sh इति इतोऽपि एका प्रक्रिया संयोजिता
6:57 अत्र पुन: जानातु यत् bash प्रक्रियाया: PID समानमेव भवति यथा पूर्वं दृष्टम्
7:05 ps इत्यस्य बहव: पर्याया: सन्ति यान् वयम् इदानीं पश्याम: , प्रथम: पर्याय: यं वयं पश्याम: स: आवलीबद्ध-प्रक्रियाणां कृते बहून् धर्मान् दर्शयति
7:13 अधुना संसूचके टङ्कयतु “ps space minus f” , enter नुदतु च , अनेन पुन: प्रक्रियात्रयं दृश्येत यथा पूर्वम्
7:28 Bash, sh -f च
7:31 अत्र भेद: नाम इदानीं केवलं अधिका: धर्मा: सूचीबद्धा:
7:36 UID उपयोक्तृ-नाम , (user name )ददाति य: प्रक्रियाम् आरभत तथैव इदं PPID अपि दर्शयति यत् पितृ-प्रक्रियाया: PID अस्ति येन च प्रक्रिया निर्मिता अस्ति
7:47 यथा.. पश्यतु .. bash प्रक्रिया sh प्रक्रियाया: पिता अस्ति , अत: bash इत्यस्य PID , sh प्रक्रियाया: PPID इत्यनेन समानं भवति
8:00 तथैव sh प्रक्रिया , ps प्रक्रियाया: पिता अस्ति ,अत: sh प्रक्रियाया: PID , ps -f प्रक्रियाया: PPID इत्यनेन समानं भवति
8:17 C इत्यक्षरं processor utilization द्योतयति ,साम्प्रतम् इदं प्रक्रियाया: कालवधौ उपयुज्यमानस्य processor इत्यस्य प्रतिशतं प्रयोगस्य पूर्णाङ्क-मूल्यम् अस्ति
8:26 अस्मिन् सन्दर्भे इदं शून्यत्वेन दर्शितं भवेत् यतो हि अत्र प्रयोग: न्यून: अस्ति
8:32 STIME क्षेत्रं प्रक्रियाया: आरम्भ-समयं वदति ,अवशिष्टम् अस्माभि: ps इत्यस्य सञ्चालनसमये आदावेव दृष्टम् अस्ति
8:42 प्रक्रियाया: प्रकार-द्वयं भवति , प्रथमा उपयोक्तृ-प्रक्रिया ,सा उपयोक्तृभि: आरभ्यते
8:49 यथा 'ps' अथवा तन्निमित्तं terminal इत्यत्र अस्माभि: सञ्चाल्यमाना: बहव: आदेशा:
8:54 अन्या अस्ति प्रणाली-प्रक्रिया, इमा: प्रक्रिया: प्राय: प्रणाली-आरम्भ-समये ser login. समये वा प्रणाल्या आरभ्यन्ते
9:05 प्रणाली-प्रक्रियाया: उदाहरणं bash. इति भवितुम् अर्हति
9:09 कदाचित् अस्माभि: सर्वा: प्रक्रिया: द्रष्टव्या: भवन्ति - यथा प्रणाली-प्रक्रिया उपयोक्तृ-प्रक्रिया चापि
9:17 तत: वयं minus e , minus capital A इति वा पर्यायम् प्रयुञ्ज्महे
9:23 terminal इत्यत्र गच्छतु संसूचके टङ्कयतु च “ps space minus e” enter. नुदतु च
9:32 वयं प्रक्रियाणां दीर्घाम् आवलीं द्रष्टुं शक्नुम:
9:35 अनेकानि पर्णानि युगपत् द्रष्टुं संसूचके टङ्कयतु
9:40 “ps space minus e space vertical bar space more” enter. नुदतु च
9:52 अस्माभि: यथा पूर्वं दृष्टं यत् बहूनां प्रक्रियाणाम् आवली एकस्मिन्नेव गवाक्षे मातुं more कारणीभूतं भवति
9:58 यदा enter नुदाम: तदा वयं प्रक्रियाणाम् आवलीं द्रष्टुं शक्नुम:
10:03 अस्याम् आवल्यां प्रथमा प्रक्रिया आकर्षिका अस्ति , एषा init प्रक्रिया इति उच्यते
10:09 अस्या: एव प्रक्रियाया: बहुश: अन्या: सर्वा: प्रक्रिया: उत्पद्यन्ते
10:12 अस्या: 1. इति PID भवति
10:16 संसूचके पुन: आगन्तुं q नुदतु
10:24 इत्थम् अस्मिन् पाठे वयं प्रक्रियां , shell -प्रक्रियां , प्रक्रियाया: निर्मितिं , तत्-विशेषान् , तत् - प्रकारान् च पठितवन्त:
10:37 वयं ps आदेशस्य उपयोगम् अपि पठितवन्त: , अत्र अस्माकं पाठ: समाप्यते
10:45 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:,असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:
10:55 अस्य अधिकज्ञानम् http://spoken-tutorial.org/NMEICT-Intro. (spoken hyphen tutorial dot.org slash NMEICT hyphen Intro) इत्यत्र उपलभ्यते


11:07 एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत:,संपर्कार्थं धन्यवादा:

Contributors and Content Editors

PoojaMoolya, Pravin1389, Sneha