LaTeX-Old-Version/C2/What-is-Compiling/Sanskrit
From Script | Spoken-Tutorial
Revision as of 15:26, 16 October 2019 by Nancyvarkey (Talk | contribs)
Time | Narration |
00:01 | स्वागतं भवताम्। Letex (लेटेक्) उपयुज्य एकं सरलं document कथं निर्मातव्यम् इति अस्मिन् मौखिकशिक्षणे पठाम। |
00:08 | Mac osx operating system मध्ये एतां प्रक्रियां विवृणोमि। |
00:13 | अन्यस्मिन् operating systemमध्ये अपि समानपद्धति: उपलभ्यते। यथा Linux, windows इत्यादि। |
00:21 | प्रथमं तावत् भवता स्वस्य editor उपयुज्य source file इत्यस्य निर्माणं करणीयम् भवतः । Emacsइति मम प्रियं editor । |
00:30 | संचिकायाः hello.tex इति नामकरणं कृतम् मया । |
00:34 | tex इति संचिकायाः अनुबन्धः। यद्यपि अस्य वर्णानुक्रम: t-e-x इति तथापि टेक् इति उच्चार्यते। लेटेक् निमित्तम् इदम् औत्सर्गिकं (तन्नाम default) भवति। |
00:47 | वयं कीदृश-document निर्मातुमिच्छामः इति अस्माभिः लेटेक् प्रति निवेदनीयम्। |
00:55 | अहं लेखस्य (तन्नाम ’article’ इत्यस्य) document निर्मातुमिच्छामि- इत्थम्.. एतद् save करोतु, तन्नाम रक्षतु। तत्र बहवः अन्ये प्रकाराः अपि शक्यन्ते। तेषु कतिचन वयम् अन्य-अभ्यासक्रमे पठामः। |
01:10 | अहं फ़ोन्ट-आकारं-12 इति चिनोमि। लेटेक् मध्ये 11pt, 10 pt वा इति font-आकारौ प्रसिद्धौ स्त:। |
01:20 | इदानीं document आरभे। |
01:24 | अत्र अक्षराणि उट्टङ्कयामि -‘Hello world’ इति । |
01:32 | इदं document समापयामि। रक्षामि च। आरम्भसमापनयोर्मध्ये यद् उट्टङ्कितं भवति तद् अन्तिमफलिते एव दृश्येत। एतदेव source file इति उच्यते। |
01:43 | अस्य Hello.tex इति नामकरणं कृतं मया। pdflatex इति command उपयुज्य इदं सङ्कलयामि। |
01:52 | तत:,वयम् अत्र आगच्छाम:, command दर्शयाम:-‘pdf latex hello.Tex’ इति । |
02:04 | अस्य सङ्कलनं कर्तुं ‘tex’ इति अनुबन्धं विना अपि वयं ‘pdf latex hello’ इति command उपयोक्तुं शक्नुम:। |
02:12 | इत्थम्... एवम् अस्यां परिस्थितौ ‘tex’ इति औत्सर्गिकः अनुबन्धः उपयोक्तुं शक्यते। Latex source file इत्यस्मात् pdf file निर्मातुं pdf latex इति command उपयुज्यते। |
02:27 | एतद्-अनन्तरं latex कतिचन-विज्ञापनात्मकसूचना: करोति। |
02:34 | एता: सूचना: अपि hello.log इति संचिकायां सङ्गृहीता: भवन्ति,यथा वयम् अत्र पश्याम:। |
02:45 | ध्यातव्यमस्ति यत् Hello इति शब्द: अस्माभि: निर्मितासु प्रत्येकं संचिकासु दृश्यते। |
02:53 | इदानीम् hello.pdf इति file उद्घाटयाम:। |
02:57 | मम Mac system मध्ये ,skim hello.pdf इति command प्रयुज्य इदम् उद्घाटयामि। |
03:04 | skim इति नि:शुल्कं pdf reader; Mac osx निमित्तम् उपलभ्यते। एतद् command द्वारा skim reader, hello.pdf इति file उद्घाटयति। |
03:13 | यथा अपेक्षितम् अस्मिन् केवलम् एकं वाक्यमस्ति। अहमेतां संचिकां zoom करोमि। |
03:29 | skim उद्घाटितस्य pdf file इत्यस्य नूतनतमं संस्करणं दर्शयति। उदाहरणार्थमहम् अत्र परिवर्तनं करोमि। नाम अत्र अन्यत् Hello world इति शब्दद्वयं योजयामि, तद् रक्षामि। |
03:51 | तत: सङ्कलयामि प्रथमम्। तद् अनुमन्ये। इदानीम् इदं नूतनतमं जातम्। |
04:00 | एतद् अधुना निष्कासयामि ,रक्षामि सङ्कलयामि च। इदानीं तद् पूर्वस्थितिं प्राप्नोत्। ध्यातव्यमस्ति यत् सर्वदा संचिकायाः रक्षणानन्तरमेव सङ्कलनं कार्यम् । भवान् प्रथमं रक्षतु अनन्तरं सङ्कलनं करोतु । |
04:18 | यदि भवान् न रक्षति तर्हि यानि परिवर्तनानि भवता कृतानि तेषां पूर्वरक्षणात् अनन्तरं सङ्कलितस्वरुपे समावेश: न भविष्यति। |
04:28 | इदं मौखिकशिक्षणं निर्मातुं एतानि त्रीणि windows आयोजितानि। documents इति एषां निर्माणार्थं भवता ईदृश-आयोजनस्य आवश्यक्यता नास्ति। |
04:36 | तथापि भवता अन्यत् editor, pdf reader च इत्येतयो: उपयोग: यदृच्छया कर्तुं शक्येत। Latex इति उपयोक्तुं प्रत्येकं जनेन एतानि सोपानानि द्रष्टव्यानि। |
04:49 | source file इत्यस्य निर्माणं, pdf इत्यस्य सङ्कलनं दर्शनं च। |
05:02 | अहं भवन्तं source file इत्यस्मिन् परिवर्तनं कृत्वा इमानि सोपानानि कर्तुं प्रेरयामि। |
05:07 | तत्र यदि भवान् इच्छति तर्हि इतोऽपि कतिचन पदानि begin तथा च end document इति अनयो: मध्ये योजयितुं शक्नोति। भवान् hello.log file द्वारा अपि द्रष्टुं शक्नोति। |
05:21 | इदानीं शिक्षणमिदं सन्दर्शनेन सह अनुवर्तये। एतद् प्रथमं delete करोमि। |
05:29 | प्रथमं तावत् अहं लेटेक् इत्यस्य लाभान् वदामि। लेटेक् इति अत्यन्तम् उत्कृष्टं typesetting तन्त्रांशः (software) अस्ति। |
05:38 | लेटेक् उपयुज्य निर्मितानां documents इत्येषां गुणवत्ता अद्वितीया एव। Latex इति नि:शुल्कं open source च तन्त्रांशः। |
05:48 | इदं windows, unix, Mac, linux च इति systems मध्ये अपि उपलभ्यते। |
05:54 | Latex मध्ये अलभ्यानि वैशिष्ट्यानि सन्ति यथा – समीकरणं, पाठा:, विभागा:,अङ्का:,कोष्ठकानि इत्येषां स्वयञ्चलितसूचीकरणम्। |
06:05 | बहूनां गणितात्मकसमीकरणानां documents अपि सहजतया लेटेक्मध्ये निर्मातुं शक्यन्ते। |
06:12 | परिवर्तनात्मकप्रारुपेण सह bibliographic entries अपि सहजतया निर्मातुं शक्यानि अत्र। |
06:17 | प्रारुपणस्य चिन्ताम् अवहन् प्रयोक्ता इतोऽपि महत्त्वपूर्णा: कृती: कर्तुं शक्नोति लेटेक्-मध्ये,यथा कल्पनानां content generation तथा च तार्किक-अनुक्रम:। |
06:30 | लेटेक् इत्यस्य इतोऽपि बहव: मौखिकाभ्यासा: सन्ति। अध: उक्तानां मौखिकशिक्षणं प्राप्तुं moudgalya.org इति अत्र सम्पर्क्यताम्। |
06:40 | सङ्कलनं, पत्रलेखनं, वृत्तलेखनं, गणितात्मकव्यवस्था, समीकरणानि, कोष्टकानि, अङ्का:, bibliography इत्यस्य निर्माणं, inside stories of bibliography च। एषाम् अभ्यासानामेष: क्रम: उत्तमपरिणामार्थं प्रोक्त:। |
06:56 | उपर्युक्तसम्पर्कसूत्रे एतम् अभ्यासक्रमं निर्मातुम् उपयुक्तानि source files अपि उपलभ्यन्ते। |
07:02 | Windows Os मध्ये लेटेक्-प्रतिष्ठापनं कथमिति शिक्षणयोजनां वयं कुर्वन्त: स्म: । |
07:08 | भविष्यति काले अन्यानि शिक्षणानि अपि उपलभ्येरन् यथा Slide निर्माणार्थं beamer। दृश्यमानमिदं सन्दर्शनं लेटेक् उपयुज्य beamer इत्यस्य साहाय्येन कृतं वर्तते। |
07:21 | सूचना: काश्चन- यथाशक्यं बहून् मौखिक-अभ्यासान् पश्यन्तु। युगपद् तेषाम् अध्ययनम् अपि कुर्वन्तु। |
07:29 | एकां सक्रियां लेटेक्संचिकामुपयुज्य आरभताम्। एकस्मिन् समये परिवर्तनमेकं कुर्वन्तु। तद् रक्षन्तु। सङ्कलयन्तु च । |
07:37 | यत् यत् कृतं, तद् सर्वम् अन्वेति इति अग्रिमपरिवर्तनात् पूर्वं निश्चिन्वन्तु। सङ्कलनात् पूर्वं source file इत्यस्य रक्षणं करणीयमिति अवश्यं स्मरन्तु। |
07:47 | लेटेक्विषयकाणि बहूनि पुस्तकानि सन्ति। वयं द्वे सूचयाम:। प्रथमं पूस्तकं लेटेक् इत्यस्य निर्मार्त्रा Leslie Lamport द्वारैव लिखितम्। एतद् पूस्तकं न्यूनमूल्येन भारतीयसंस्करणेऽपि उपलभ्यते। |
08:01 | प्रगतप्रयोक्तार: Latex companion इति पुस्तकं द्रष्टुं शक्नुवन्ति। प्रथमं पुस्तकस्य पठनम्, आन्तर्जाले शोधनं चेति द्वयमेव प्रायः पर्याप्तं स्यात्। तथापि लेटेक्विषयकसर्वविधसाहित्यार्थं ctan.org इति मुख्यसम्पर्कसूत्रमस्ति। |
08:17 | अस्मै कार्याय MHRD -भारतसर्वकारेण आरब्धात् National Mission on Education through ICT इत्यस्मात् अनुदानं प्राप्यते। |
08:27 | एतन्निमित्तं sakshat.ac.in इति सम्पर्कसूत्रं वर्तते। |
08:31 | मौखिकशिक्षणमिदं CDEEP,IIT इत्यनेन संयुक्तस्य Mission इत्यस्य Talk to a teacher इति प्रकल्पस्य प्राथमिकं सोपानम् अस्ति। दृश्यताम् -cdeep.iitb.ac.in. |
08:41 | तन्त्रांशविकासस्य प्रसिद्धिः इति शिक्षणस्य अस्य उद्देश:,अस्य उपयोग: च fossee.in इत्यनेन समन्वितं भविष्यति। |
08:50 | Free and Open source software in science and engineering education इति fossee इत्यस्य पूर्णं रूपम्। |
08:57 | एष: प्रकल्प: अपि National mission on education अनया संस्थया समर्थितः। इतोऽपि मौखिक-शिक्षणार्थं तेषाम् अन्यभाषया शिक्षणार्थं च एतानि सम्पर्कसूत्राणि पश्यन्त: भवन्तु। |
09:10 | अत्र मौखिकशिक्षणमिदं समाप्नोति। सम्पर्कार्थं धन्यवादा:। |
09:15 | मौखिकशिक्षण-प्रकल्प-निमित्तं मुम्बैतः एषा घाग-नन्दिनी, आपृच्छते भवन्तम्। पुनर्मिलाम:। |