LibreOffice-Suite-Impress/C3/Slide-Master-Slide-Design/Sanskrit

From Script | Spoken-Tutorial
Revision as of 11:35, 31 March 2017 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 लिब्रे आफ़ीस् इम्प्रेस् इत्यस्य एतत् स्पोकन् ट्युटोरियल् कृते भवद्भ्यः स्वागतम् ।
00:08 अस्मिन् ट्युटोरियल् मध्ये वयम् एकस्याम् अवसर्पिण्यां (Slide) पृष्ठदेशः (Background) तथा लेऔट् च कथं योजनीयम् इति अध्येष्यामः ।
00:15 वयम् अत्र उबण्टु लिनक्स् 10.04 तथा लिब्रे आफ़ीस् सूट् 3.3.4 इत्येतस्य उपयोगं कुर्मः ।
00:24 पृष्ठदेशः नाम एकस्यामवसर्पिण्यां स्थापिताः सर्वे वर्णाः विशेषप्रभावकाश्च, ये कण्टेण्ट् इत्यस्य पृष्ठतः भवन्ति ।
00:32 लिब्रे आफ़ीस् इम्प्रेस् मध्ये अनेके पृष्ठदेशविकल्पाः सन्ति । एते उत्तमां प्रस्तुतिं (Presentation) सज्जीकर्तुं साहाय्यं कुर्वन्ति।
00:38 भवन्तः अत्र भवदीयमेव पृष्ठदेशं रचयितुमर्हन्ति ।
00:42 अधुना वयं Sample-Impress.odp. इत्येतां प्रस्तुतिम् उद्घाटयामः ।
00:48 अस्यां प्रस्तुत्यां वयम् अस्माकमेव पृष्ठदेशं रचयामः ।
00:52 अपि च अस्यां प्रस्तुत्यां सर्वासु अवसर्पिणीष्वपि एतं पृष्ठदेशं योजयामः ।
00:57 एतं पृष्ठदेशं रचयितुं वयं Slide Master इत्येतस्य विकल्पस्य उपयोगं कुर्मः ।
01:02 Master इत्येतस्याम् अवसर्पिण्यां कृताः सर्वे व्यत्ययाः अस्याः प्रस्तुत्याः सर्वासु अवसर्पिणीषु भवन्ति ।
01:08 मुख्य“मेनु”मध्ये View इत्यत्र नुत्वा तत्र Master इत्येतत् स्वीकृत्य तत्र Slide Master इत्यस्य उपरि नुदन्तु ।
01:15 Master Slide दृश्यते ।
01:17 अत्र अवधेयम्, Master View इति ‘टूल् बार्’ अपि दृश्यते । इदं भवद्भिः “मास्टर् पेज्” रचयितुम्, निष्कासयितुम्, पुनः नामकर्तुं च उपयोक्तुं शक्यते ।
01:27 दृश्यताम्, अधुना द्वे स्लैड् दृश्येते ।
01:31 एते द्वे अस्यां प्रस्तुत्याम् उपयुक्ते मास्टर् पेज् स्तः ।
01:37 Tasks पट्टिकायां Master Pages इत्येतस्य उपरि नुदन्तु ।
01:41 Used in This Presentation इत्येषः प्रविभागः अस्यां प्रस्तुत्याम् उपयुक्तानि Master Slides प्रदर्शयति ।
01:48 Master slide इत्येतत् टेम्प्लेट् सदृशम् ।
01:51 अत्र भवद्भिः प्रारूपाणि योजयितुं शक्यन्ते । तेन प्रस्तुत्याः सर्वासु अवसर्पिणीषु तत् प्रारूपं लग्नं भवति ।
01:58 आदौ, Slides पट्टिकातः, Slide 1 इत्येतत् चिनुमः।
02:03 अधुना अस्यै प्रस्तुत्यै श्वेतं पृष्टदेशं योजयामः ।
02:07 मुख्य‘मेनु’मध्ये Format इत्यत्र अपि च पश्चात् Page इत्यत्र नुदन्तु ।
02:12 Page Setup इति संवादपेटिका दृश्यते ।
02:15 Background इत्येतस्य उपरि नुदन्तु ।
02:18 Fill इति पतत्सूच्यां Bitmap इतीमं विकल्पं चिन्वन्तु ।
02:24 विकल्पानां पट्टिकातः Blank इत्येतत् चित्वा OK इत्येतत् नुदन्तु ।
02:29 अधुना अवसर्पिणी श्वेतवर्णीय-पृष्टदेशसहिता वर्तते ।
02:32 अवधीयताम्, अस्य पृष्टदेशस्य उपरि अधुना विद्यमानस्य लेखस्य वर्णः न स्पष्टतया दृश्यते ।
02:38 सर्वदा पृष्टदेशस्य संवादिभूतः वर्णः चेतव्यः ।
02:43 अधुना लेखस्य वर्णं कृष्णं कुर्मः । तदा पृष्टदेशे लेखः सुस्पष्टं दृश्यते ।
02:52 आदौ लेखः चीयताम् ।
02:55 मुख्य‘मेनु’मध्ये Format इत्यस्य उपरि नुत्वा Character इत्येतत् चीयताम् ।
02:59 Character इति संवादपेटिका दृश्यते ।
03:02 Character इति संवादपेटिकायां Font Effects इत्येतस्य उपरि नुदन्तु।
03:08 Font Color इति पतत्सूचीतः Black इत्येतत् चीयताम् ।
03:12 OK नुदन्तु ।
03:15 लेखः अधुना कृष्णवर्णे वर्तते ।
03:18 अधुना वयम् अवसर्पिण्याः कृते वर्णं लेपयामः ।
03:21 context menu कृते अवसर्पिण्याः उपरि दक्षिणनोदनं कृत्वा तत्र पुनः Slide अपि च Page Setup इत्यस्य उपरि नुदन्तु ।
03:27 Fill इत्यस्य पतत्सूच्यां वर्णविकल्पः चीयताम् । तत्र Blue 8 इत्यस्य चयनं कृत्वा OK नुदन्तु ।
03:36 अवधीयताम्, अस्माभिः चितः लघुनीलवर्णः अवसर्पिण्याम् अन्वितः वर्तते ।
03:42 अधुना एतत् ट्युटोरियल् स्थगयन्तु, तथा एकं नियोजनं कुर्वन्तु । नूतनम् एकं Master Slide निर्माय तत्र पृष्टदेशे रक्तवर्णं लेपयन्तु ।
03:52 अधुना अस्यै प्रस्तुत्यै अन्यानि विन्यासानि कथं योजनीयानि इति अधिगच्छामः ।
03:57 उदाहरणार्थम्, भवद्भिः भवतां प्रस्तुत्यां लोगो (Logo) योजयितुं शक्नुवन्ति ।
04:01 भवतां पटलस्य अधोभागे Basic Shapes इति टूल् बार् पश्यन्तु ।
04:06 भवन्तः इदं; वृत्तम्, समचतुरस्रम्, आयतं, त्रिकोणम् तथा अण्डाकृतीः आरचयितुम् उपयोक्तुं शक्नुवन्ति ।
04:16 वयम् इदानीम् अवसर्पिण्याः शीर्षकस्थाने एकम् आयतं रचयामः ।
04:21 Basic Shapes टूल् बार् मध्ये Rectangle इत्यस्य उपरि नुदन्तु ।
04:25 इदानीं शीर्षकस्य समीपे अवसर्पिण्याः उपरितनभागे वामभागे कर्सर् नयामः ।
04:31 भवन्तः बृहता I इत्याकृतिना सह प्लस् (+) चिन्हमपि पश्यन्ति ।
04:36 मौस् इत्यस्य वामपिञ्जं नुत्वा तथैव गृहीत्वा मौस् इत्येतत् आकृश्य च लघु चतुरस्रं रचयन्तु ।
04:41 अधुना मौस्-पिञ्जं त्यजन्तु ।
04:44 भवन्तः इदानीं चतुरस्रं रचितवन्तः ।
04:47 चतुरस्रस्य उपरि अष्टौ ग्राह्यस्थानानि (Handles) दृश्यन्ताम् ।
04:50 ग्राह्यस्थानानि नाम अवसर्पिण्यां चितानां पदार्थानाम् उपरि दृश्यमानानि लघु-नील-समचतुरस्राणि ।
04:58 वयं एतानि गृह्यस्थानानि आयतस्य परिमाणं योजयितुं उपयोक्तुं शक्नुमः ।
05:03 यदा भवन्तः गृह्यस्थानानाम् उपरि भवतां Cursor नयन्ति तदा Cursor स्वयं द्विमुख-बाणरूपेण परिवर्तते ।
05:10 वयम् एतदनुसारेण आयतस्य परिमाणं व्यत्यस्तीकर्तुं शक्नुमः ।
05:17 अधुना वयम् आयतस्य परिमाणं शीर्षकस्य आवरणार्थं यावदपेक्षितं तावत् कुर्मः । <स्थगयन्तु>
05:25 अस्माभिः अस्य आकारः अपि परिवर्तयितुं शक्यते ।
05:28 context menu इत्येतत् द्रष्टुम् आयतस्य उपरि दक्षिणनोदनं कुर्वन्तु ।
05:32 अत्र भवद्भिः आयतस्य आकारं परिवर्तयितुं बहवो विकल्पाः द्रष्टुं शक्यन्ते ।
05:37 Area उपरि नुदन्तु । Area इत्येका संवादपेटिका द्रष्टुं शक्यते ।
05:43 Fill इत्यस्यां पतत्सूच्यां Color इत्येतत् चीयताम् ।
05:48 तत्र Magenta 4 इत्येतत् नुत्वा OK कुर्वन्तु ।
05:52 आयतस्य वर्णः परिवर्तितः अस्ति ।
05:56 अपि च आयतेन लेखः आवृतः अस्ति ।
05:59 लेखः यथा दृश्येत तथा कर्तुम् आयतं चिन्वन्तु ।
06:03 इदानीं context menu इत्येतत् उद्घाटयितुं दक्षिणनोदनं कुर्वन्तु ।
06:07 अत्र क्रमशः Arrange तथा Send to back इत्यस्य उपरि नुदन्तु ।
06:11 इदानीं लेखः पुनः दृश्यते ।
06:15 इत्युक्ते, आयतं लेखस्य पृष्ठतः गतमस्ति ।
06:18 Tasks पट्टिकायां, Master Page मध्ये preview इत्यस्य उपरि नुदन्तु ।
06:23 दक्षिणनोदनं कृत्वा Apply to All Slides इत्येतत् चिन्वन्तु ।
06:27 Close Master View पिञ्जं नुत्वा Master View इत्येतत् Close कुर्वन्तु ।
06:32 इदानीं Master Page मध्ये अन्विताः सर्वेऽपि व्यत्यासाः, प्रस्तुत्याः अस्याः सर्वासु अवसर्पिणीषु अन्विताः भवन्ति ।
06:39 अवधीयताम्, आयतमपि सर्वासु अवसर्पिणीषु दृष्यते ।
06:45 इदानीं अवसर्पिण्याः विन्यासं व्यत्यस्तीकर्तुम् अधिगच्छामः ।
06:49 विन्यासो नाम कः? विन्यासो नाम अवसर्पिण्याः आकृतयः । अत्र अवसर्पिण्याः पदार्थानां स्थानानि पूर्वमेव निश्चितानि भवन्ति ।
06:58 अवसर्पिणीविन्यासान् द्रष्टुं दक्षिणपार्श्वस्थ-पट्टिकायां Layouts इत्येतत् नुदन्तु ।
07:04 Impress मध्ये लभ्यमानाः विन्यासाः द्रष्टुं शक्यन्ते ।
07:07 विन्यस्तचित्राणि पश्यन्तु । अनेन विन्यासानाम् अन्वयोत्तरं कथं दृश्यते इति चित्रणं लभ्यते ।
07:16 तत्र अनेके विन्यासाः सन्ति यत्र शीर्षकम्-स्तम्भद्वयम् शीर्षकम्-स्तम्भत्रयम् इत्येवमादीनि रचनानि सन्ति ।
07:24 तत्र रिक्तविन्यासाः अपि सन्ति । भवन्तः रिक्तविन्यासमेव एकस्याम् अवसर्पिण्यां संस्थाप्य पश्चात् स्वकीयमेव विन्यासं कर्तुमर्हन्ति ।
07:32 अधुना एकस्याम् अवसर्पिण्याम् एकं विन्यासं स्थापयामः ।
07:35 Potential Alternatives इतीमाम् अवसर्पिणीं चित्वा तत्र सर्वं लेखं निष्कासयन्तु ।
07:43 इदानीं दक्षिणपार्श्वस्थात् ‘लेऔट् पेन्’ इत्यस्मात् title 2 content over content. इत्येतत् चिन्वन्तु ।
07:51 इदानीम् अवसर्पिण्यां लघुप्रदेशे त्रिस्रः लेखपेटिकाः (टेक्स्ट् बाक्स्) सन्ति ।
07:56 अवधीयताम् यत् अस्माभिः Master page उपयुज्य योजितम् आयतम् इतोऽपि दृश्यते इति ।
08:02 इदम् आयतं Master page उपयुज्य एव सम्पादयितुं शक्यते ।
08:07 Master slide मध्ये कृतं सेट्टिङ्ग्स्, अन्यत्र अवसर्पिणीषु कृतस्य कार्यस्य अथवा विन्यासस्य उपरि भवति ।
08:15 अधुना पेटिकासु ‘कण्टेण्ट्’ पूरयामः ।
08:19 प्रथम-लेखनपेटिकायाम् एवं लिखामः : Strategy 1 PRO: Low cost CON: slow action
08:28 द्वितीय-लेखनपेटिकायाम् एवं लिखामः : Strategy 2 CON: High cost PRO: Fast Action
08:40 तृतीय-लेखनपेटिकायाम् एवं लिखामः : Due to lack of funds, Strategy 1 is better.
08:48 एवमेव भवन्तः भवतां प्रस्तुतेः कृते सूक्तं विन्यासमपि चेतुं शक्नुवन्ति ।
08:54 अत्र असौ पाठः समाप्यते । अत्र अस्माभिः कथम् अवसर्पिणीषु पृष्ठदेशः विन्यासश्च योजनीयः इति अधीतम् ।
09:03 इदानीं भवतां कृते किञ्चित् कार्यम् ।
09:05 नूतनमेकं Master Slide आरचयन्तु ।
09:08 नूतनं पृष्ठदेशं योजयन्तु ।
09:11 title, content over content इति लेऔट् योजयन्तु।
09:15 यदा Master slide मध्ये विन्यासं योजयन्ति तदा किं भवतीति पश्यन्तु ।
09:20 नूतनाम् अवसर्पिणीं उद्घाट्य रिक्तविन्यासं योजयन्तु ।
09:25 लेखनपेटिकाः उपयुज्य तत्र columns योजयन्तु ।
09:29 इमाः लेखनपेटिकाः Format कुर्वन्तु ।
09:32 लेखनपेटिकासु लेखनं कुर्वन्तु ।
09:36 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
09:42 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
09:47 स्पोकन् ट्युटोरियल् प्रकल्पगणः पाठमिममुपयुज्य कार्यशालां चालयति। ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
09:56 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
10:02 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
10:14 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
10:25 अस्य पाठस्य अनुवादकः बेंगलूरुतः अनन्तशर्मा प्रवाचकः ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal