Linux/C2/Simple-filters/Sanskrit
From Script | Spoken-Tutorial
Revision as of 12:27, 30 March 2017 by PoojaMoolya (Talk | contribs)
Time | Narration |
00:00 | नमस्ते, ‘Simple Filters with Linux’ इत्याख्यपाठे सर्वेषां स्वागतम्। |
00:08 | अत्र एतान् अंशान् ज्ञास्यामः - ‘head, tail, sort, cut and paste’। |
00:17 | एते आदेशाः command line इत्यत्र अक्षरसमूहानां विपरिणमनाय उपयुज्यन्ते। |
00:22 | terminal इत्यत्र hash # इति चिह्नम् अस्ति चेत् आदेशनिर्वहणाय भवान् मूलोपयोक्ता भवेत्। (sudo su ಅಥವಾ su root) |
00:29 | फलके dollar $ इति चिह्नम् अस्ति चेत् आदेशनिर्वहणाय सामान्योपयोक्ता भवति चेत् अलम्। |
00:38 | यत्र च सञ्चिकाः रक्षिताः भवन्ति तत्र भवन्तः path इत्यस्य परिवर्तनेन विना औत्सर्गिक संस्थापनं मात्रं कृतवन्तः इति अहं चिन्तयामि। |
00:46 | अहम् Ubuntu 10.10 इति तन्त्रांशम् उपयुञ्जामि। |
00:51 | Mouse, key board अपि च window मध्ये maximize minimize इत्येतेषां पूर्वज्ञानं वर्गाय अनिवार्यम् अस्ति। |
01:02 | उत्सर्गेण सञ्चिकायाः प्रथमदशपङ्क्तिप्रदर्शनार्थं ascii file इति नाम्ना अनुसृतम् head इति आदेशं उपयुञ्ज्महे। |
01:10 | अधुना सञ्चिकां (file) सृजामः। एतस्य प्रात्यक्षिकतार्थं ESC (escape) इति नुदामि। |
01:17 | अथ गच्छन्तु Aplications>Accessories>Text Editor |
01:24 | समयाभावात् अहं एतावता एव इमां सङ्ख्याम् अपरसञ्चिकायाम् उद्घाटितवान् अस्मि। |
01:30 | अधुना copy कृत्वा paste करोमि। |
01:38 | File नुत्त्वा Save नुदन्तु। |
01:41 | numbers dot txt इति सञ्चिकानाम दत्त्वा save इति नुदन्तु। |
01:48 | सञ्चिकां पिदधतु। |
01:53 | अथ गच्छन्तु Application>Accessories>Terminal |
02:01 | अधुना सृष्टसञ्चिका (File) दृश्यते उत न इति पश्यामः। |
02:05 | Ls इति टङ्कयित्वा enter नुदन्तु। |
02:09 | एतेन गृह-सन्धारिकायां विद्यमानानां सर्वासां धारिकानां सञ्चिकानां च सूचीं निर्मितवन्तः। |
02:15 | सृष्टसञ्चिकास्थविषयान् पठितुं cat इति आदेशम् उपयुञ्ज्महे। |
02:21 | Cat n-u-m, संचिकानाम्नः स्वयं पूरणाय (autofill) tab नुदन्तु। enter नुदन्तु। |
02:29 | एवमेव head इति आदेशे अपि कुर्मः। |
02:33 | head numbers dot txt इति टङ्कयित्वा enter नुदन्तु। |
02:39 | अधुना प्रथमदशपङ्क्तयः दर्शिताः। |
02:43 | प्रथमपञ्चपङ्क्तीः द्रष्टुं hyphen n5 इति विकल्पम् head इति आदेशस्य सञ्चिकानाम्नः च मध्ये उपयुज्यताम्। |
02:52 | Up कीलं नुत्त्वा मध्ये आगत्य hyphen n5 इति टङ्कयित्वा enter नुदन्तु। |
02:58 | अधुना केवलं प्रथमपञ्चपङ्क्तयः दृष्टाः अभवन्। |
03:02 | अधुना presentation प्रति गच्छामः। |
03:08 | F5 |
03:14 | tail इति आदेशः head इति आदेशस्य विरुद्धतया प्रवर्तते। एषः उत्सर्गेण सञ्चिकायाः अन्तिमदशपङ्क्तीः दर्शयति। |
03:22 | Terminal प्रतिगन्तुम् अहं ALT अपि च Tab इति नुदामि। |
03:27 | tail numbers dot txt |
03:31 | केवलम् अन्तिमपञ्चपङ्क्तीः द्रष्टुम् tail आदेशस्य सञ्चिकानाम्न: च मध्ये hyphen n5 इति विकल्पः उपयोक्तव्यः। |
03:40 | Hyphen n5 इति विलिख्य enter नुदन्तु। |
03:45 | Slides प्रति गच्छन्तु। |
03:50 | उपकरणे घटितवृत्तं Log इति सञ्चिकायां भवति। |
03:55 | उपयोक्तॄणां निर्गमनप्रवेशयोः विवरणम् auth dot log इति सञ्चिका निर्वहति। |
04:01 | hyphen f इति विकल्पप्रयोगेन इतिवृत्तसञ्चिकानां (log files) अन्तज्ञानमेव tail इति आदेशस्य प्रमुखोपयोगः। |
04:09 | इतिवृत्तसञ्चिकायां नूतनपङ्क्तिः युक्ता भवति चेत् tail आदेशः उत्सर्गेण तां पङ्क्तिम् अन्तिमत्वेन स्वीकृत्य ततः पूर्वतनदशपङ्क्तीः दर्शयति। |
04:18 | Terminal प्रति गच्छन्तु। |
04:21 | tail hyphen f forward slash var slash log slash auth dot log |
04:31 | अधुना पटलाकृतिं न्यूनं करोमि। |
04:39 | अधुना अपरं terminal उद्घाटयाम, Application>Accessories>Terminal |
04:46 | अधुना पटलाकृतिं न्यूनं करोमि। |
04:52 | येन च tail इति आदेशः कथम् इतिवृत्तसञ्चिकायाम् अन्तिमपङ्क्तिम् अनुसरति इति एकपटले एव प्रदर्शयितुं शक्नोमि। |
05:00 | Su रूपेण स्वोपयोक्तृनाम दत्वा enter नुदन्तु। |
05:05 | कञ्चित् दुष्टं कूटशब्दं विलिख्य enter नुदन्तु। |
05:08 | tail इति यत्र कार्यं करोति तत्र काचित् नूतना पङ्क्तिः युक्ता वर्तते इति द्रष्टुं शक्नुवन्ति। |
05:15 | दिनाङ्कसमयौ दृढीकरणवैफल्यं कदा जातम् इति सूचयति। |
05:23 | उपकरणस्य दिनाङ्कसमयनिश्चयार्थम् date इति टङ्कयित्वा enter नुदन्तु। |
05:32 | terminal पिधातुं exit इति टङ्कयन्तु। |
05:36 | प्रचलितं tail इति आदेशं पिधातुं Ctrl C नुदन्तु अपि च पटलं बृहत्कुर्वन्तु। |
05:51 | वयं पूर्वोदाहरणे केवलं auth dot log file इति दृष्टवन्तः। |
05:57 | एताः linux मध्ये सामान्यतः उपयोग्याः इतिवृत्तसञ्चिकाः। |
06:01 | Linux उपकरणप्रशासकः इमाः इतिवृत्तसञ्चिकाः वीक्षते येन च सः यन्त्रे समस्यानिवारणार्थं विवरणं प्राप्नुयात्। |
06:12 | Sort इति आदेशः अन्वर्थरूपेण आरोहणावरोहणक्रमयोः वा सञ्चिकास्थविषयान् व्यवस्थापयति। |
06:23 | sort numbers dot txt इति आदेशः number dot txt इति सञ्चिकाम् आरोहणक्रमेण वर्गीकरोति। |
06:31 | अत्र किञ्चित् विचित्रमवधेयं भवद्भिः, sort इति आदेशः केवलं प्रथमाक्षरं पश्यति। अतः १०, ११, १२ इति सङ्ख्याः २ इति सङ्ख्यायाः प्राक्दृश्यन्ते। |
06:43 | तन्निवारणाय hyphen n इति विकल्पं योजयन्तु। hyphen n इति विलिख्य enter नुदन्तु। |
06:53 | अधुना sort आदेशः सम्पूर्णां सङ्ख्यां पश्यति। |
06:58 | number dot txt इत्येतं व्युत्क्रमेण वर्गीकर्तुम् hyphen r इति विकल्पं योजयन्तु। |
07:09 | अत्र काश्चन सङ्ख्याः पुनरावृत्ताः सन्ति इति द्रष्टुं शक्नुमः। तन्निवारणाय hyphen u इति विकल्पं योजयन्तु। |
07:17 | Terminal प्रति गच्छन्तु। |
07:20 | Up कीलं नुदन्तु। |
07:22 | u इति विलिख्य enter नुदन्तु। |
07:26 | पूर्वं वारद्वयम् २ इति प्रदृष्टमासीत्। अधुना तु एकवारमेव प्रदृष्टमस्ति। |
07:38 | अधुना स्तम्भाधारेण सञ्चिकाव्यवस्थापनं कथम् इति पश्यामः। |
07:44 | अधुना अधोनिर्दिष्टमनुसृत्य सञ्चिकां सृजामः। |
07:48 | गच्छन्तु Applications>Accessories>Text Editor |
07:57 | समयरक्षणाय एतावता एव अन्यसञ्चिकायां विद्यमानं दत्ताशं copy कृत्वा paste करोमि। Ctrl + C; Ctrl + V |
08:11 | File, इति नुत्त्वा इदम् marks dot txt नाम्ना रक्षामः, Save इति नुदन्तु। |
08:21 | अत्रस्थाङ्कानां विषये अवधानस्य आवश्यकता नास्ति। |
08:28 | इमां सञ्चिकां पिदधातु। |
08:33 | marks dot txt इति सञ्चिकां द्वितीयस्तम्भस्य (second column) आधारेण व्यवस्थापयामः (sort)। |
08:40 | Terminal प्रति गच्छन्तु। |
08:42 | Sort space marks dot txt space hyphen t space open inverted commas space close inverted commas space |
08:53 | अत्र hyphen t इति सीमानिर्धारणार्थम् अस्ति। उद्धरणचिह्नयोर्मध्यस्थरिक्तस्थानं तत्प्रतिनिधीकरोति। |
09:02 | Hyphen k2 इति द्वितीयस्तम्भनिमित्तम् अस्ति यत्र च sort भवेत्। |
09:14 | Enter नुदन्तु। |
09:20 | cat marks dot txt |
09:24 | यदा द्वितीयस्तम्भस्य आधारेण sort कुर्मः तदा यदि avir इति bala इत्यस्मात् उपरि आगच्छति तर्हि एषा मूलसञ्चिका अस्ति इति ज्ञातुं शक्नुमः। |
09:43 | cut इति आदेशः सञ्चिकायां निर्दिष्टसूचनाः कर्तयितुम् उपयुज्यते। |
09:51 | अथ marks dot txt इत्यस्मात् कतिचन नामानि कर्तयामः। |
09:55 | अधुना terminal प्रति गच्छामः, Alt Tab |
09:58 | cut space marks dot txt space hyphen d space open inverted commas space close inverted commas space. |
10:08 | अत्र cut इति आदेशे d इति सीमां निर्धारयति अपि च उद्धरणचिह्नयोर्मध्यस्थरिक्तस्थानं नियामकं प्रतिनिधीकरोति। |
10:20 | Hyphen f2 इति द्वितीयस्तम्भाय अस्ति। enter नुदन्तु। |
10:31 | paste इति आदेशः अनेकसञ्चिकायाः पङ्क्तीः एकस्यां सञ्चिकायां विलयनं करोति। |
10:36 | अधुना number dot txt, marks dot txt इति सञ्चिकयोः उपयोगं कुर्मः। |
10:41 | Terminal प्रति गच्छन्तु। |
10:43 | paste numbers dot txt marks dot txt इति विलिख्य enter नुदन्तु। |
10:50 | अधुना marks dot txt इत्यस्य प्रथमपङ्क्तिः number dot txt इत्यस्य प्रथमपङ्क्तौ युक्तम् अभवत्। |
10:57 | एतत्फलितम् (output) concate file इति नामकसञ्चिकां प्रति विचालयितुं redirect कुञ्चिका उपयुज्यते। |
11:06 | Terminal प्रति गच्छन्तु। |
11:08 | Up इति कीलं नुदन्तु। redirect अर्थात् greater than चिह्नं concatfile dot txt इति च टङ्कयित्वा enter नुदन्तु। |
11:18 | cat concatfile dot txt |
11:22 | अधुना slides प्रति गच्छामः। |
11:25 | क्रमशः नियमितानां सङ्ख्यानां निर्माणं paste द्वारा यदि मुद्रापयितुमिच्छामः तर्हि |
11:34 | paste hyphen s |
11:39 | numbers dot txt |
11:43 | slides प्रति गच्छन्तु। |
11:45 | Spoken Tutorial इत्येतत् ‘talk to a teacher’ इति प्रकल्पस्य भागः अस्ति। |
11:49 | यच्च National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: अस्ति। |
11:55 | अधिकविवरणं जालपुटेऽस्मिन् उपलभ्यते। |
11:59 | अस्याः लेखनप्रतेः अनुवादकर्त्री संस्कृतभारती अस्ति। अस्यप्रवाचकः देहलीतः वासुदेवः आपृच्छति। सम्पर्कार्थं धन्यवादः। |