Linux/C2/Working-with-Linux-Process/Sanskrit
From Script | Spoken-Tutorial
Revision as of 11:27, 30 March 2017 by PoojaMoolya (Talk | contribs)
Time | Narration |
00:00 | Linux Processes इत्येभि: सह कार्यम् इत्यस्मिन् spoken tutorial मध्ये स्वागतम् |
00:05 | अहं Ubuntu 10.04. उपयुञ्जे |
00:09 | वयं चिन्तयाम: यत् Linux - प्रणाल्या: आरम्भम् आदेशानां प्राथमिकसंकल्पनां च भवान् जानाति |
00:16 | यदि भवान् इच्छति तर्हि तत् अस्मिन् जालपुटे अन्यस्मिन् spoken tutorial मध्ये उपलभ्यम् अस्ति http://spoken-tutorial.org/ http://spoken-tutorial.org. |
00:28 | अपि च जानातु यत् linux अक्षर-संवेद्यम् अस्तीति ,अस्मिन् tutorial मध्ये विशेषत्वेन अनुक्ता: सर्वे आदेशा: लघ्वक्षरै: टङ्किता: सन्ति |
00:38 | प्रक्रिया इत्युक्ते किम् इति ज्ञापयितुम् अहं संक्षिप्तं स्पष्टीकरणं करोमि |
00:42 | किञ्चन यत् चलत् भवति तन्नाम process.प्रक्रिया |
00:46 | किञ्चित् shell सञ्चलति अस्माकम् आदेशान् च स्वीकरोति इत्येका प्रक्रिया अस्ति |
00:51 | अस्माभि: terminal उपरि टङ्क्यमाना: आदेशा: सञ्चलन्ति इत्येका प्रक्रिया एव |
00:56 | चलच्चित्रे भवद्भि: दृश्यमानम् इदं tutorial , इति अपि प्रक्रिया अस्ति |
01:00 | यस्मिन् गवेषके भवता spoken tutorial जालपुटम् उद्घाटितमस्ति स: कार्यान्वित: गवेषक: अपि एका प्रक्रिया अस्ति |
01:05 | Shell scripts सञ्चलन्ति इत्युक्ते एका प्रक्रिया एव भवति |
01:11 | किञ्चन program कार्यान्वितं भवति इत्युक्ते प्रक्रिया, इत्येवं वयं प्रक्रियां व्याख्यातुं शक्नुम: |
01:17 | प्रक्रिया: भृशम् अस्मत्-सदृशा: सन्ति , ते जायन्ते म्रियन्ते अपि , तेषां पालका: बालका: च भवन्ति |
01:28 | प्रथमं तावत् shell-प्रक्रियाया: विषये पठेम |
01:31 | प्रणाल्यां login कृते सत्येव Linux kernel इत्यनेन shell - प्रक्रिया आरभते |
01:36 | अस्मिन् स्तरे एतावत् ज्ञानं पर्याप्तं भवेत् यत् Linux kernel इति Linux प्रणाल्या: सारम् अस्ति |
01:43 | अस्मिन् अतीव आवश्यकानि अङ्गानि सन्ति यै: Linux सञ्चाल्यते , shell उपयोक्तृ -आदेशानां अन्या: सर्वा: प्रक्रिया: निर्माति उत्पादयति वा |
01:53 | अथ terminal. उद्घाटयाम: |
01:57 | वयं terminal उपरि आदेशस्य dollar - चिह्नाकारं संसूचकं द्रष्टुं शक्नुम: |
02:03 | इदं shell -प्रक्रियाया: कार्यम् |
02:07 | अधुना कञ्चित् आदेशं टङ्कयाम: , चिन्तयतु ... “date” , enter च नुदतु |
02:13 | अस्मिन् कृते सति एव shell -प्रक्रिया date नाम्न: प्रक्रियाम् आरभेत |
02:18 | अधुना , shell -प्रक्रिया date -प्रक्रियाम् उदपादयत् नाम वयं वक्तुं शक्नुम: यत् shell -प्रक्रिया date -प्रक्रियाया: पिता अस्ति ,अपि च date -प्रक्रिया shell -प्रक्रियाया: बालिका अस्ति |
02:30 | एकवारं date -प्रक्रियया प्रणाल्या: दिनाङ्क: समय: च दर्शित: चेत् तदनु सा म्रियेत |
02:40 | किञ्चन shell अन्यां shell - प्रक्रियाम् अपि जनयितुं शक्नोति , अन्यप्रक्रियाया: जननं ,प्रक्रियाया: निर्माणं वा इत्येषा प्रक्रिया spawning इति उच्यते |
02:50 | अन्यां shell - प्रक्रियां जनयितुं ,केवलं terminal इत्यत्र गच्छतु , टङ्कयतु च “sh” , enter. नुदतु |
03:00 | वयं terminal इत्यत्र आविर्भवत् नूतनं संसूचकं पश्येम , अधुना अस्माकं मूलं shell ..यस्य नाम shell 1 इति भवतु , येन shell इत्यस्य इतोऽपि एक: बालक: जनित: ,तं वयं shell 2 इति वदाम: |
03:13 | अधुना भवान् आदेशस्य नूतन-संसूचके आदेशं सञ्चालयितुं शक्नोति , अथ अस्मिन् नूतन-संसूचके ls आदेशं सञ्चालयाम: |
03:20 | अधुना संसूचके टङ्कयतु “ls” enter नुदतु च, वयं सञ्चिकानां संधारिकाणां च आवलिं द्रष्टुं शक्नुम: |
03:32 | अधुना ls नाम्ना नूतना प्रक्रिया निर्मिता |
03:35 | अत्र ls इत्यस्य पिता shell 2 इत्यस्ति ,अपि च shell 1 इति ls इत्यस्य पितामह: अस्ति , shell 2 इत्यस्य ls इति बालक: अस्ति ,shell 2 , shell1 इत्यस्य बालक: अस्ति |
03:56 | shell 2 मारयितुं नूतन-संसूचके टङ्कयतु “exit” , enter नुदतु च |
04:04 | अनेन shell 2 हतं भवेत्, अपि च वयं आदेशस्य मूल-संसूचके पुन: भविष्याम: |
04:12 | प्रक्रिया वयं च इति अनयो: सादृश्यं मनसि धृत्वा एव , वयं ज्ञातुं शक्नुम: यत् अस्मासु प्रत्येकस्य केचन धर्मा: भवन्ति ये अस्मान् अभिज्ञापयन्ति, ते विशेषा: अस्माकं नाम ,पितृ-नाम, जन्म-दिनाङ्क: , PAN card- क्रमाङ्क: इत्येते भवितुम् अर्हन्ति |
04:26 | तथैव प्रक्रियाणाम् अपि विशेषा: भवन्ति यथा PID(Process ID), PPID(Parent Process ID), Start time, इत्यादय: |
04:38 | एषु बहव: धर्मा: kernel इत्यनेन process -सारण्याम् अनुरक्षिता: भवन्ति |
04:43 | एकमात्रं पूर्णाङ्कमूल्यं PID इत्युच्यते अनेन च प्रत्येकं प्रक्रिया स्पष्टं अभिज्ञाप्यते, यदा प्रक्रिया जनिता भवति तदैव kernel इत्यनेन PID विधीयते |
04:51 | पितृ-प्रक्रियाया: PID नूतन-प्रक्रियां जनयति , चिन्तयतु , P1 , इति P1 प्रक्रियाया: PPID इति उच्यते |
05:00 | विद्यमानस्य shell इत्यस्य PID द्रष्टुं संसूचके टङ्कयतु “echo space dollar dollar” , enter नुदतु |
05:11 | एक: क्रमाङ्क दर्श्येत, स एव विद्यमानस्य shell इत्यस्य PID स्यात् |
05:23 | प्रक्रियाणां विषये चर्चासमये वयं बहुवारं ps इति एकम् आदेशम् उपयुञ्ज्महे |
05:29 | ps , process status वा इति एक: आदेश: अस्ति य: प्रणाल्यां सञ्चाल्यमाना: प्रक्रिया: दर्शयति |
05:34 | अथ यदि वयम् एनम् आदेशं कमपि पर्यायं विना सञ्चालयाम: तर्हि किं भवति इति पश्याम: |
05:40 | अधुना संसूचके टङ्कयतु “ps” , enter नुदतु च |
05:47 | इत्थं वयं सामान्यत: program सञ्चालयता उपयोक्तु: स्वामित्वे विद्यमानानां सर्वासां प्रक्रियाणाम् आवलिं पश्येम . |
05:54 | CMD इति शीर्षकस्य अध: भवान् प्रक्रियाया: नाम द्रष्टुं शक्नोति |
05:58 | एतत् विहाय भवान् द्रष्टुं शक्नोति PID, TTY , अथवा console यत्र प्रक्रिया सञ्चलन्ती अस्ति |
06:06 | यदा प्रक्रिया आरब्धा तदा आरभ्य एतत् TIME इत्युक्ते total processor time उपयुज्यमानम् अस्ति |
06:12 | मम यन्त्रे इदं प्रक्रियाद्वयं दर्शयति |
06:16 | एका अस्ति bash, नाम shell -प्रक्रिया यां वयम् उपयुञ्जाना: स्म:, अन्या अस्ति सैव ps प्रक्रिया ! |
06:25 | अन्यत् एकं अत्र ध्यातव्यं यत् shell - प्रक्रियाया: PID , echo space dollar dollar इत्यनेन आदेशात् दर्शितेन PID इत्यनेन समानं भवति |
06:35 | यदि वयं subshell जनयाम: तर्हि पश्याम: किं भवति इति , terminal इत्यत्र टङ्कयतु “sh” , enter नुदतु च |
06:42 | अधुना नूतन-पङ्क्तौ आविर्भवति नूतने संसूचके टङ्कयतु “ps” enter नुदतु च |
06:51 | अधुना अस्याम् आवल्यां प्रक्रियात्रयं पश्याम: , तत्र sh इति इतोऽपि एका प्रक्रिया संयोजिता |
06:57 | अत्र पुन: जानातु यत् bash प्रक्रियाया: PID समानमेव भवति यथा पूर्वं दृष्टम् |
07:05 | ps इत्यस्य बहव: पर्याया: सन्ति यान् वयम् इदानीं पश्याम: , प्रथम: पर्याय: यं वयं पश्याम: स: आवलीबद्ध-प्रक्रियाणां कृते बहून् धर्मान् दर्शयति |
07:13 | अधुना संसूचके टङ्कयतु “ps space minus f” , enter नुदतु च , अनेन पुन: प्रक्रियात्रयं दृश्येत यथा पूर्वम् |
07:28 | Bash, sh -f च |
07:31 | अत्र भेद: नाम इदानीं केवलं अधिका: धर्मा: सूचीबद्धा: |
07:36 | UID उपयोक्तृ-नाम , (user name )ददाति य: प्रक्रियाम् आरभत तथैव इदं PPID अपि दर्शयति यत् पितृ-प्रक्रियाया: PID अस्ति येन च प्रक्रिया निर्मिता अस्ति |
07:47 | यथा.. पश्यतु .. bash प्रक्रिया sh प्रक्रियाया: पिता अस्ति , अत: bash इत्यस्य PID , sh प्रक्रियाया: PPID इत्यनेन समानं भवति |
08:00 | तथैव sh प्रक्रिया , ps प्रक्रियाया: पिता अस्ति ,अत: sh प्रक्रियाया: PID , ps -f प्रक्रियाया: PPID इत्यनेन समानं भवति |
08:17 | C इत्यक्षरं processor utilization द्योतयति ,साम्प्रतम् इदं प्रक्रियाया: कालवधौ उपयुज्यमानस्य processor इत्यस्य प्रतिशतं प्रयोगस्य पूर्णाङ्क-मूल्यम् अस्ति |
08:26 | अस्मिन् सन्दर्भे इदं शून्यत्वेन दर्शितं भवेत् यतो हि अत्र प्रयोग: न्यून: अस्ति |
08:32 | STIME क्षेत्रं प्रक्रियाया: आरम्भ-समयं वदति ,अवशिष्टम् अस्माभि: ps इत्यस्य सञ्चालनसमये आदावेव दृष्टम् अस्ति |
08:42 | प्रक्रियाया: प्रकार-द्वयं भवति , प्रथमा उपयोक्तृ-प्रक्रिया ,सा उपयोक्तृभि: आरभ्यते |
08:49 | यथा 'ps' अथवा तन्निमित्तं terminal इत्यत्र अस्माभि: सञ्चाल्यमाना: बहव: आदेशा: |
08:54 | अन्या अस्ति प्रणाली-प्रक्रिया, इमा: प्रक्रिया: प्राय: प्रणाली-आरम्भ-समये ser login. समये वा प्रणाल्या आरभ्यन्ते |
09:05 | प्रणाली-प्रक्रियाया: उदाहरणं bash. इति भवितुम् अर्हति |
09:09 | कदाचित् अस्माभि: सर्वा: प्रक्रिया: द्रष्टव्या: भवन्ति - यथा प्रणाली-प्रक्रिया उपयोक्तृ-प्रक्रिया चापि |
09:17 | तत: वयं minus e , minus capital A इति वा पर्यायम् प्रयुञ्ज्महे |
09:23 | terminal इत्यत्र गच्छतु संसूचके टङ्कयतु च “ps space minus e” enter. नुदतु च |
09:32 | वयं प्रक्रियाणां दीर्घाम् आवलीं द्रष्टुं शक्नुम: |
09:35 | अनेकानि पर्णानि युगपत् द्रष्टुं संसूचके टङ्कयतु |
09:40 | “ps space minus e space vertical bar space more” enter. नुदतु च |
09:52 | अस्माभि: यथा पूर्वं दृष्टं यत् बहूनां प्रक्रियाणाम् आवली एकस्मिन्नेव गवाक्षे मातुं more कारणीभूतं भवति |
09:58 | यदा enter नुदाम: तदा वयं प्रक्रियाणाम् आवलीं द्रष्टुं शक्नुम: |
10:03 | अस्याम् आवल्यां प्रथमा प्रक्रिया आकर्षिका अस्ति , एषा init प्रक्रिया इति उच्यते |
10:09 | अस्या: एव प्रक्रियाया: बहुश: अन्या: सर्वा: प्रक्रिया: उत्पद्यन्ते |
10:12 | अस्या: 1. इति PID भवति |
10:16 | संसूचके पुन: आगन्तुं q नुदतु |
10:24 | इत्थम् अस्मिन् पाठे वयं प्रक्रियां , shell -प्रक्रियां , प्रक्रियाया: निर्मितिं , तत्-विशेषान् , तत् - प्रकारान् च पठितवन्त: |
10:37 | वयं ps आदेशस्य उपयोगम् अपि पठितवन्त: , अत्र अस्माकं पाठ: समाप्यते |
10:45 | Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:,असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
10:55 | अस्य अधिकज्ञानम् http://spoken-tutorial.org/NMEICT-Intro. (spoken hyphen tutorial dot.org slash NMEICT hyphen Intro) इत्यत्र उपलभ्यते |
11:07 | एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत:,संपर्कार्थं धन्यवादा: |