Linux/C2/Redirection-Pipes/Sanskrit

From Script | Spoken-Tutorial
Revision as of 11:06, 30 March 2017 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 Redirection Pipes. च इति एतत्-विषयके spoken tutorial मध्ये स्वागतम्
00:07 अहं Ubuntu 10.04. उपयुञ्जे
00:09 आदेशानां प्राथमिकसंकल्पनां तथैव Linux - प्रणाल्या: आरम्भ: कथं करणीय: इति भवान् जानीयात् एव
00:16 इदं प्राथमिकं ज्ञानम् अस्मिन् जालपुटे अन्यस्मिन् spoken tutorial, मध्ये उपलभ्यते
00:22 तथैव यत् linux अक्षर-संवेद्यमस्तीति जानातु
00:25 अस्मिन् पाठे विशेषत्वेन अनुक्ता: सर्वे आदेशा: लघु-अक्षरै: टङ्किता: सन्ति
00:32 Linux मध्ये क्रियमाणं कार्यम् आधिक्येन terminal. - द्वारा एव क्रियते
00:35 सामान्यत: कीलफलकम् उपयुज्य वयम् आदेशं टङ्कयाम:
00:39 चिन्तयतु ,दिनाङ्क: समय: च द्रष्टव्य: अस्तीति
00:41 टङ्कयाम: "date" , enter. नुदाम: च
00:46 एवं सामान्यत: वयं कीलफलकम् उपयुज्य निवेशं दद्म:
00:48 तथैव वयं पश्याम: यत् आदेशस्य फलितम् अपि terminal - गवाक्षे दर्श्यते
00:56 चिन्तयतु च ..कस्यचित् आदेशस्य सञ्चालने कश्चित् दोष: उत्पन्न:
00:59 यथा वयं टङ्कयाम: "cat space aaa" , enter नुदाम: च
01:05 aaa इति नाम्न: कापि सञ्चिका न विद्यते
01:08 अत: न इति वदन् एक: दोष: दर्शित: भवति
01:10 अधुना एष: दोष: अपि terminal गवाक्षे आगच्छति ,इत्थं दोष-दर्शनमपि terminal इत्यत्र भवति
01:20 एवं निवेशनं , फलितं ,दोष-दर्शनं च इति विशिष्टं क्रियात्रयं आदेश-संबद्धं भवति
01:24 redirection - विषये पठनात् पूर्वम् stream , file descriptor च इति महत्त्वपूर्णं संकल्पनाद्वयं ज्ञातव्यं
01:31 Linux shell वर्णक्रमानुसारं stream इत्यस्य च अनुसारं निवेशं स्वीकरोति ,फलितं च प्रेषयति Bashइव
01:37 प्रत्येकम् अक्षरं तस्मात् परस्य पूर्वस्य च अक्षरात् स्वतन्त्रं भवति
01:41 IO - तन्त्रान् उपयुज्य streams द्रष्टुं शक्यानि
01:44 अक्षराणां stream, सञ्चिकात: , कीलफलकत: , गवाक्षत: च आगच्छेत् नागच्छेत् वा ,तान् प्रति गच्छेत् न गच्छेत् वा इत्यत्र नास्ति चिन्ता
01:51 Linux, मध्ये प्रत्येकम् उद्घाटित-सञ्चिका पूर्णाङ्केन संबद्धा भवति
01:57 इदं संख्यात्मक-परिमाणं file descriptor इति उच्यते
02:05 Linux shell three standard I/O stream इत्यस्य उपयोगं करोति
02:08 तेषु प्रत्येकं file descriptor. इत्यनेन संबद्धं भवति
02:12 stdin इत्युक्ते standard input stream.
02:15 अनेन आदेशानां कृते निवेशनं प्रदीयते
02:17 अस्य file descriptor ० इति अस्ति
02:19 stdout इत्युक्ते standard output stream.
02:22 अनेन आदेशस्य फलितं दर्श्यते ,अस्य एकं इति file descriptor अस्ति
02:26 stderr इत्युक्ते standard error stream ,अनेन आदेशस्य फलिते दोष: दर्श्यते , अस्य द्वे. इति file descriptor अस्ति
02:36 input stream, program इति अस्य कृते निवेशनं प्रददाति
02:40 उत्सर्गेण इदं terminal द्वारा स्वीक्रियते
02:44 output streams इत्येतत् terminal. उपरि उत्सर्गेण अक्षराणि मुद्रयति
02:47 terminal इत्येतत् मूलत: ASCII - टङ्कक: अथवा display terminal. आसीत्
02:52 किन्तु अधुना तत् graphical desktop. उपरि लेखन-गवाक्ष: अस्ति
02:56 वस्तुत: त्रीणि streams कतिपयसञ्चिकाभि: उत्सर्गेण संयुक्तानि भवन्ति
03:01 किन्तु linux, मध्ये इदम् उत्सर्ग-आचरणं परिवर्तयितुं शक्यं
03:04 वयम् इमानि त्रीणि streams , अन्य-सञ्चिकाभि: संयोक्तुं शक्नुम:
03:07 प्रक्रिया इयं redirection. इति उच्यते
03:09 अधुना पश्याम: त्रीषु streams इत्येतेषु redirection कथं क्रियते इति
03:14 प्रथमं तावत् standard input, कथं redirect करणीयम् इति पश्याम:
03:17 वयं संचिकात: (left angled bracket) operator. उपयुज्य standardin इति एतस्य redirection कुर्म: पश्याम: कथमिति
03:22 पङ्क्तीनां शब्दानां वर्णानां च संख्यां द्रष्टुं wc - आदेशस्य उपयोग: भवति इति वयं जानीम: एव
03:28 टङ्कयतु wc
03:31 enter. नुदतु ,किं भवति ? निमिषद् चिह्नं दृश्यते , इत्युक्ते तत्र किञ्चित् निवेशनीयम्
03:37 टङ्कयतु ..यथा "This tutorial is very important".
03:46 enter. नुदतु
03:48 अधुना Ctrl, d इति कीले युगपत् नुदतु
03:52 निविष्टानां पङ्क्तीनां कृते आदेश: असौ कार्यं कुर्यात्
03:55 आदेश: terminal इत्यत्र फलितं दर्शयेत्
03:57 अधुना अत्र wc इति आदेशात् अनन्तरं कापि सञ्चिका निर्दिष्टा नास्ति
04:01 अत:असौ standard input stream इत्यस्मात् निवेशनं स्वीकुर्यात्
04:04 अथ standard input stream उत्सर्गेण कीलफलकेन संयुक्तं भवति ,अत: wc आदेश: कीलफलकात् निवेशं स्वीकरिष्यति
04:12 अधुना यदि वयं लिखाम: "wc space 'left-angled bracket" space test1 dot txt
04:19 तर्हि wc - आदेश: test1 dot txt - सञ्चिकाया: पङ्क्तीनां शब्दानां वर्णानां च संख्याम् अस्मभ्यं कथयति
04:27 अधुना टङ्कयतु "wc space test1 dot txt"
04:34 वयं समानं परिणामं पश्याम:
04:37 ननु क: भेद: अस्ति ?
04:39 "wc space test1dot txt" ,इत्यनेन आदेशेन test1dot txt सञ्चिका उद्घाटिता पठिता च भवति
04:46 किन्तु यद्यपि वयं "wc space 'left-angled bracket' test1 dot txt", लिखाम: तथापि wc इत्यनेन कापि सञ्चिका उद्घाटिता न भवति
04:53 तत्स्थाने स: standardin.-त: निवेशं स्वीकर्तुम् इच्छति
04:57 अधुना वयं test1dot txt. इति सञ्चिकाया: कृते standardin नियोजयाम:
05:01 अत: आदेश: असौ test1 - त:पठनं करोति
05:04 वस्तुत: असौ न जानाति यत् सामग्री standardin प्रति कुत: आयाति इति
05:10 एवं standard input कथं redirect करणीयम् इति वयं दृष्टवन्त:
05:12 अधुना पश्याम: ,standard output ,standard error च कथं redirect करणीयम् इति
05:17 एतद्द्वयं सञ्चिकां प्रति redirect कर्तुं मार्गद्वयमस्ति
05:20 चिन्तयतु , n इत्यक्षरं file descriptor द्योतयति ,n> (-एन ‘सिंगल राइट-एंगल्ड ब्रेकेट’) file descriptor n त: सञ्चिकां प्रति फलितं redirect करोति
05:29 भवत: सञ्चिका-लेखनस्य अधिकार: स्यादेव
05:32 सञ्चिका विद्यमाना नास्ति चेत् निर्मातव्या
05:35 यदि सा न निर्मीयते तर्हि तत्-सामग्री सामान्यत: पूर्वसूचनां विना नश्येत्
05:40 अपि च n'double right-angled bracket' , file descriptor त: फलितं redirect करोति
05:47 पुन: भवत: सञ्चिका-लेखनस्य अधिकार: स्यादेव
05:50 सञ्चिका विद्यमाना नास्ति चेत् निर्मातव्या
05:52 यदि विद्यमाना अस्ति तर्हि फलितं विद्यमान-सञ्चिकया संयोजितं भवेत्
05:59 n single right angle bracket , अथवा n इत्यस्मात् double right angle bracket इत्येषा स्थिति:,file descriptor द्योतयति
06:05 इदम् अपाकुर्म: चेत् standard output , file descriptor 1 स्यात् इति चिन्तनीयं
06:10 अत: केवलं right angle bracket ,एकेन right angle bracket. इत्यनेन समानम्
06:15 किन्तु ,error stream, redirect कर्तुं , भवता 2 right angle bracket , 2 double right angle bracket. वा उपयोक्तव्यम्
06:22 एतत् कृत्वा एव पश्याम:
06:24 wc आदेशस्य standardin इत्यस्मिन् , सञ्चिकायां च जात: परिणाम: terminal - गवाक्षे दर्शित:भवति
06:31 एष: terminal - गवाक्षे न दर्शनीय: चेत् किं करणीयम्?
06:34 वयम् एनं सञ्चिकायां संगृह्णीम: येन सूच्यांश: अनन्तरम् उपयोक्तुं शक्य:
06:38 उत्सर्गेण wc आदेश: तत् -फलितं standardout मध्ये लिखति
06:42 standardout, उत्सर्गेण terminal गवाक्षेण सयुक्तं भवति
06:45 अत: फलितं terminal - गवाक्षे दृश्यते
06:48 किन्तु वयं standardout इत्येतत् सञ्चिकायां redirect कुर्म: चेत् wc आदेशस्य फलितं तत्- सञ्चिकायां लेखितं भवेत्
06:57 चिन्तयतु ,वयं लिखाम: "wc space test1 dot txt 'right-angled bracket' wc_results dot txt" .
07:09 enter. नुदतु
07:11 इदं सत्यमेव सञ्जातं वा इति द्रष्टुं वयं c-a-t c इति आदेशेन wc_results dot txt इत्यस्या: सामग्रीं दर्शयितुं शक्नुम:
07:23 आम् ,इदं सञ्जातम् ,चिन्तयतु , अस्यां संधारिकायां test2 इति अन्या सञ्चिका अस्ति
07:30 पुन: test2 सञ्चिकया सह आदेशं टङ्कयाम: "wc space test2 dot txt 'right-angled bracket' wc_results dot txt"
07:44 अत: wc_results इति सञ्चिकाया: सामग्री प्रतिसमाधाता भवेत्
07:48 अस्तु ,इदं पश्याम:
07:56 एतत्-स्थाने यदि वयं लिखाम: "wc space test1 dot txt 'right-angled bracket' twice wc underscore results dot txt"
08:07 तर्हि आदावेव wc underscore results dot txt, इति सञ्चिकायां विद्यमान-सामग्रे: स्थाने नूतन-सामग्री प्रतिसमाधाता न भवेत् ,सा संयोजिता भवेत्
08:15 इदमपि पश्याम:
08:26 standard error इत्यस्य Redirecting सामानरीत्या एव भवेत्
08:29 तत्र भेद: नाम अस्मिन् सन्दर्भे right angle bracket , double right angle bracket sign. वा इत्यस्मात् पूर्वं standard error इत्यस्य file descriptor - क्रमाङ्क: निर्देष्टव्य: भवेत्
08:38 यथा वयं जानीम: यत् aaa नाम्ना कापि सञ्चिका विद्यमाना नास्त्येव , इदं लिखतु -"wc space aaa"
08:46 तर्हि shell दोषं दर्शयेत् यत् “No such file or directory”. ईदृशी सञ्चिका संधारिका वा नास्ति इति
08:50 अधुना चिन्तयतु , वयं पटले दोष-सूचना: नेच्छाम: इति , ता: अन्यस्यां सञ्चिकायां redirected भवितुम् अर्हन्ति .
08:55 तन्निमित्तं टङ्कयाम: "wc space aaa space 2 'right-anged bracket' errorlog dot txt"
09:06 अधुना terminal उपरि दोष-सूचना न क्रियते, किं बहुना सा errorlog dot txt इति सञ्चिकायां लिखिता भवेत्
09:12 वयम् इदम् अनेन आदेशेन द्रष्टुं शक्नुम: "cat space errorlog dot txt"
09:22 अधुना चिन्तयतु अहं एनम् आदेशं संचाल्य कञ्चित् अन्यं दोषं करोमि "cat space bbb space 2 'right-angled bracket' errorlog dot txt".
09:34 पूर्वतन-दोष: प्रतिसमाधात: भवेत् , नूतन: च दर्शित: भवेत्
09:39 पश्यतु "cat space errorlog dot txt"
09:46 किन्तु सर्वदोषाणाम् आवलिं कर्तुं किं करणीयम्? ? सरलं तत्, टङ्कयाम: "wc space aaa space 2 'right-angled bracket' twice errorlog dot txt"
09:58 cat आदेशम् उपयुज्य वयम् इदं परिशीलयेम
10:06 अस्माभि: दृष्टं यत् कथं standard out,standard in,standard error इति त्रीणि streams भिन्नश: कौशलपूर्वकं प्रयुज्यन्ते अपि च redirected क्रियन्ते , किन्तु अस्या: संकल्पनाया: वास्तवं सामर्थ्यं तदैव अनुमातुं शक्यं यदा वयं एकत्रितरीत्या कौशल्येन तेषाम् उपयोगं कुर्म:, तन्नाम भिन्नानां streams इत्येषां संयोजनम्
10:20 एषा प्रक्रिया pipelining. इति उच्यते
10:22 आदेशानां शृङ्खला: निर्मातुं Pipes प्रयुज्यन्ते
10:25 Pipe एकस्य आदेशस्य फलितम् अग्रिम-आदेशस्य निवेशेन श्रुङ्खलायां संयोजयति
10:30 इदम् इत्थं दृश्यते command1 vertical bar command2 hyphen option vertical bar command3 hyphen option1 hyphen option2 vertical bar command4
10:46 yचिन्तयतु ,वयं उद्घाटित-संधारिकायां विद्यमानानां सञ्चिकानां , संधारिकाणां च आहत्य संख्यां ज्ञातुम् इच्छाम:
10:51 वयं जानीम: "ls space minus l" इत्यादेश: सर्वासां सञ्चिकानां संधारिकाणां च आवलिं करोति इति
10:58 वयं सञ्चिकायां फलितं redirect कर्तुं शक्नुम:"ls space minus l 'right-angled bracket' files dot txt"
11:08 टङ्कयतु - "cat space files dot txt"
11:14 अधुना प्रत्येकं पङ्क्ति: नाम सञ्चिकाया:, संधारिकाया: वा नाम अस्ति .
11:17 अत: यदि वयम् अस्या: सञ्चिकाया: सर्वा: पङ्क्ती: गणयाम: ,तर्हि वयं अस्माकं हेतुं पूर्णीकर्तुं files dot txt उपयोक्तुं शक्नुम:
11:24 तदर्थं आदेशं टङ्कयाम: - "wc space minus l files dot txt"
11:32 यद्यपि अनेन अस्माकं कार्यं साध्यते तथापि कतिचन समस्या: अस्मिन् सन्ति
11:35 प्रथमं वयं , files dot txt . इति intermediate-सञ्चिकाम् इच्छाम:
11:40 यदि प्रथम-आदेश: महतीं सामग्रीं निर्माति तर्हि तस्मात् disk memory. व्यर्थम् एव नष्टं भवेत्
11:46 तथैव वयं बहून् आदेशान् शृङ्खला-बद्धान् कर्तुम् इच्छाम: चेदपि ,प्रक्रिया इयं मन्दा अस्ति
11:50 वयं pipes उपयुज्य सरलतया इदं कर्तुं शक्नुम: इत्थं,टङ्कयाम:"ls space minus l 'vertical bar' wc space minus l"
12:01 वयं समानमेव परिणामम् अतीव सौकर्येण प्राप्तुं शक्नुम:
12:06 ls आदेशस्य फलितं wc आदेशार्थं निवेशत्वेन कार्यं करोति
12:10 वयं pipes उपयुज्य आदेशस्य दीर्घा: शृङ्खला: योजयितुं शक्नुम:
12:15 pipe इत्यस्य एक: उपयोग: नाम इत्यनेन अनेकानि पर्णानि युगपत् पठितुं शक्यानि
12:19 टङ्कयतु -"cd space slash user slash bin".
12:24 अथ इदानीं वयं bin संधारिकायां स्म:
12:28 टङ्कयतु "ls minus l"
12:31 वयं फलितं यथावत् द्रष्टुं न शक्नुम: , किन्तु pipe इत्यनेन more संयोजयाम: ,चेत् वयं तत् द्रष्टुं शक्नुम:
12:37 enter नुदतु येन संपूर्ण-आवलिं द्रष्टुं शक्नुम:
12:41 "q" नुदतु येन इत: बहि: आगच्छाम:
12:45 एते पठिता: कतिचन आदेशा: सञ्चिकाभि: सह कार्यं कर्तुं अस्माकं साहाय्यं कुर्वन्ति
12:48 इतोऽपि बहव: आदेशा: सन्ति तथैव
12:50 तथापि अस्माभि: पठितस्य प्रत्येकम् आदेशस्य बहव: पर्याया: सन्त्येव
12:54 'man' आदेशम् उपयुज्य तस्मिन् विषये अधिकं पठितुं अहं भवन्तं प्रोत्साहयामि
12:58 आदेशान् पठितुम् उत्तम: मार्ग: नाम तेषां पुन: पुन: उपयोजनम्
13:04 अत्र असौ पाठ: समाप्यते
13:07 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग: ,असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:
13:15 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro इत्यत्र उपलभ्यते
13:19 एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत:, संपर्कार्थं धन्यवादा: !

Contributors and Content Editors

PoojaMoolya, Sneha