LaTeX/C2/Letter-Writing/Sanskrit
From Script | Spoken-Tutorial
Revision as of 15:39, 29 March 2017 by PoojaMoolya (Talk | contribs)
Time | Narration |
00:00 | लेटेक् उपयुज्य पत्रलेखनं कथं करणीयमिति विषयकेऽस्मिन् पाठे भवद्भ्यः स्वागतम्। |
00:06 | भवन्तः गवाक्षत्रयं पश्यन्तः सन्ति - |
00:08 | एते गवाक्षाः लेटेक् उपयुज्य typeset कर्तुम् आवश्यकनि त्रीणि सोपानानि सन्ति। |
00:13 | Source file इत्यस्य निर्माणार्थं, pdf सङ्कलनार्थं pdf reader द्वारा दर्शनार्थं च एते गवाक्षाः सन्ति। |
00:22 | अत्र अहं MAC OSX मध्ये लभ्यमानं skim pdf तन्त्रांशस्य उपयोगं करोमि। यतोहि एतत् प्रतिवारं सङ्कलनानन्तरं नूतनं pdf सञ्चिकां दर्शयति। |
00:34 | Windows तथा Linux कारकसंविधयोः कृते च एतादृशः तन्त्रांशः लभ्यते। |
00:42 | Source file –इतीदमवगम्य एकैकस्य समादेशस्य कार्यं पश्यामः। |
00:47 | प्रथमपङ्क्तिः, एषा सञ्चिका letter document वर्गस्य अस्तीति वदति। |
00:54 | द्वादश इति अक्षरस्य परिमाणं वर्तते। |
00:57 | अत्र प्रथम-अङ्गं ‘लेखकस्य सङ्केतः’ अस्ति। अत्र सङ्केतः धनुरावरणस्य अन्तः अस्ति। |
01:07 | एतस्य परिणामः फलितसञ्चिकायाः दक्षिणभागे उपरि दृश्यते। |
01:14 | वामप्रह्वद्वयं (स्लाश्) नूतनपङ्क्तिम् आरम्भयति। |
01:19 | इतः एतत् निष्कासयामि चेत्— |
01:25 | रक्षन्तु। pdflatex उपयुज्य सङ्कलनं च कुर्वन्तु। |
01:37 | पश्यन्तु, पङ्क्तिद्वयं संयुज्य एका पङ्क्तिः अभवत्। |
01:43 | पूर्वं वयम्, वामप्रह्वद्वयम् उपयुज्य latex मध्ये पङ्क्तेः विभजनं कृतवन्तः। |
01:49 | इदानीं वामप्रह्वद्वयं नास्ति। अतः latex पङ्क्ति-विभजनं कर्तुं न जानाति। |
01:56 | वामप्रह्वे (slashes) पुनः मिखामि। |
02:04 | रक्षन्तु। सङ्कलनं च कुर्वन्तु। |
02:08 | प्रतिवारं परिवर्तनानन्तरं सङ्कलनात् पूर्वं सञ्चिका रक्षणीया इति अवगन्तव्यम्। |
02:15 | सङ्केतस्थले किमपि न मिखामि चेत् किं भवति इति पश्यामः |
02:21 | अत्र आगत्य |
02:24 | अङ्कयतु (mark) |
02:27 | पङ्क्तेः अन्तं गत्वा सङ्केतं निष्कास्य रक्षयित्वा सङ्कलनं कुर्मः। |
02:37 | पश्यन्तु, इतः सङ्केतः गतः। |
02:44 | अद्यतन-दिनाङ्कः अमेरिका-देशस्य शैल्यां मासः-दिनाङ्कः-संवत्सरः इत्येवं स्वयं दृश्यते। |
02:54 | एतत् वयं slash date slash today इति समादेशम् उपयुज्य प्राप्तुं शक्नुमः। |
03:02 | रिक्तस्थानं स्थापयित्वा दिनाङ्कस्य स्वयंदर्शनं निवारयितुं शक्नुमः। |
03:12 | रक्षन्तु। |
03:17 | सङ्कलनम् कुर्वन्तु। दिनाङ्कः गतः। |
03:20 | वयं यदि स्वयं दिनाङ्कं लेखितुम् इच्छामः तर्हि एवं लेखितुं शक्नुमः। |
03:30 | 9th July 2007, रक्षन्तु। सङ्कलनम् कुर्वन्तु। |
03:40 | दिनाङ्कः दृश्यते इदानीम्। |
03:43 | एतस्मिन् दिनाङ्के एषः पाठः प्रथमवारं आरचितः |
03:47 | सङ्कलनं कृते सति भारतीय-शेल्यां दिनाङ्कः फलितसञ्चिकायां दृश्यते। |
03:53 | सङ्केतं पुनः लिखामः। |
04:02 | सङ्कलनानन्तरं सञ्चिका पुनः तस्याः पूर्वरूपं प्राप्तवती। |
04:08 | signature इत्यस्य समादेशस्य स्थानं पत्रस्य अधोभागे अस्ति। |
04:17 | वयं सञ्चिकाम् आरभ्य अनन्तरं पत्रिकां पश्यामः। |
04:22 | पत्र-प्रतीच्छकस्य सङ्केतः प्राथम्येन भवति। पत्रस्य वामभागे उपरि एषः सङ्केतः भवति। |
04:30 | एतत् पत्रम् अहं श्री N. K. Sinha महोदयं प्रति लिखामि। |
04:34 | slash opening इति समादेशः प्रतीच्छकस्य सङ्केतं सूचयितुम् अस्ति। |
04:40 | भवन्तः अवगतवन्तः स्युः यत् लेटेक् समादेशाः सर्वे वामप्रह्वेन सह आरभन्ते इति। |
04:48 | पत्रस्य विषयः तदनन्तरम् आरभ्यते। |
04:53 | नूतनानुच्छेदः (प्याराग्राफ्) रिक्तपङ्क्त्या सह आरभते। |
05:00 | अत्र आगच्छामि। इदानीं ‘we are’ इति वाक्यमारभ्यते अत्र। |
05:07 | एतत् नूतनपङ्क्तिं प्रति आनयामः। |
05:12 | एका रिक्तपङ्क्तिः योजिता मया। रक्षामि। |
05:17 | सङ्कलयामि। |
05:19 | नूतनानुच्छेदः आरब्धः इति अवलोकयन्तु। |
05:25 | नूतनानुच्छेदेन सह लेखः पुटद्वयं यावत् आवृतम्। |
05:29 | इदानीम् अक्षरपरिमाणं दश कुर्मः चेत् लेखः एकस्मिन् एव पुटे समाप्यते वा इति पश्यामः। |
05:37 | तत् कुर्मः। |
05:42 | रक्षामः। |
05:48 | सङ्कलयामः। पश्यन्तु, सम्पूर्णः लेखः इदानीम् एकस्मिन्नेव पुटे परिसमाप्तः। |
05:54 | अक्षरपरिमाणं द्वादश कुर्मः। |
06:00 | एतम् अनुच्छेदमपि निवारयामि। |
06:06 | सङ्कलनं करोमि। |
06:12 | समीचीनम्। |
06:14 | अहं इदानीं ‘itemize’ इत्यस्य विवरणं कर्तुमिच्छामि। Itemize समादेशः ‘begin’ तथा ‘end itemize’ समादेशाभ्यां आरच्यते। |
06:29 | ’slash item’ इति आरभ्य यानि वाक्यानि भवन्ति तानि bullets भवन्ति। |
06:37 | Bullets इत्यस्य स्थाने सङ्ख्यां प्रकटयितुं शक्नुमः वा? |
06:41 | ’Itemize’ इति पदस्य स्थाने ‘enumerate’ इति योजयन्तु। |
06:46 | इदानीम् एतत् ‘enumerate’ इति परिवर्तयामः। |
06:53 | रक्षन्तु। |
07:00 | प्रतिवारं सञ्चिकायाः रक्षणमिति उत्तमः अभ्यासः। |
07:05 | पुनः सङ्कलनं कुर्वन्तु। |
07:09 | इदानीम् सर्वाणि अपि बुलेट्स् सङ्ख्यारूपेण परिवर्तितानि अभवन्। |
07:15 | लेखस्य अन्ते ‘Yours sincerely’ इति लिखामः। एतत् अत्र दृश्यते। |
07:22 | हस्ताक्षरस्य विषये मया उक्तम् पूर्वमेव। |
07:26 | अन्ततः, ’cc’ इति समादेशः पत्रस्यास्य अन्यप्रतीच्छकान् अपि सूचयति। |
07:35 | लेखस्य समापनम् ‘end letter’ इति समादेशेन कुर्मः। सञ्चिकायाः समापनं ‘end document’ इति समादेशेन कुर्मः। |
07:44 | सञ्चिकायाः विषयान् परिवर्त्य अवलोकयन्तु। |
07:48 | यावत्पर्यन्तं भवन्तः आत्मविश्वासं न प्राप्नुवन्ति तदापर्यन्तम् एकवारम् एकपरिवर्तनं एव कृत्वा रक्षणं सङ्कलनं च कुर्वन्तु। |
07:58 | मया MAC मध्ये पत्रलेखनविषये उक्तं चेदपि सा एव source file अथवा सञ्चिका Linux तथा Windows सङ्गणकेषु च कार्यं करोति। |
08:10 | अत्र इदं tutorial समाप्यते । |
08:14 | अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः, प्रवाचकः ऐ ऐ टी बांबेतः वासुदेवः धन्यवादः। |