KTouch/S1/Customizing-Ktouch/Sanskrit
From Script | Spoken-Tutorial
Revision as of 15:15, 29 March 2017 by PoojaMoolya (Talk | contribs)
|
|
00:00 | के-टच इत्यस्य कस्टमाइज विषयकेऽस्मिन् स्पोकन ट्यूटोरियल मध्ये भवतां स्वागतम्। |
00:04 | अस्मिन् पाठे भवन्तः अधिगच्छन्ति यत् |
00:08 | कथम् एकं लेक्चर निर्मातव्यम्,
कथं के-टच इत्यस्य कस्टमाइज करणीयम्, कथं स्वकीयं कीलफलकं (कीबोर्ड) निर्मातव्यं च इति। |
00:13 | अत्र वयम् उबंटू लिनक्स 11.10 इत्यस्मिन् के-टच 1.7.1 इति तन्त्रांशम् उपयुञ्ज्महे। |
00:21 | अधुना के-टच उद्घाटयामः। |
00:25 | अवधेयं यत् तृतीयस्तरः परिदृश्यते इति। |
00:28 | यतो हि यदा वयं के-टच पिहितवन्तः तदा तृतीयस्तरे एव आस्म। |
00:32 | अधुना वयं नूतनं लेक्चर कथं निर्मातव्यम् इति ज्ञास्यामः। |
00:36 | अत्र वयं नूतनम् अक्षरसमूहं सृजामः यश्च टीचर्स लाइन मध्ये प्रदृष्टं भवितुमर्हति। |
00:42 | मुख्यमेन्युतः File चित्वा Edit Lecture इत्यत्र नुदन्तु। |
00:48 | Open Lecture File डायलॉग बॉक्स प्रदृष्टं भवति। |
00:52 | अधुना Create New लेक्चर इति विकल्पं चित्वा OK इत्यत्र नुदन्तु। |
00:57 | KTouch Lecture Editor डायलॉग बाक्स प्रदृष्टं भवति । |
01:01 | टाइटल फील्ड मध्ये A default lecture इति वाक्यं चित्वा तन्नाशयित्वा च My New Training Lecture इति टङ्कयन्तु। |
01:12 | Level Editor, लेक्चर इत्यस्य स्तरं प्रदर्शयति। |
01:15 | Level Editor बॉक्स इत्यस्य अन्तः नुदन्तु। |
01:18 | अधुना Data of Level 1 इत्यस्य अन्तः, New Characters in this level इत्यत्र एम्पर्संड, स्टार अपि च डॉलर चिह्नानि टङ्कयन्तु। |
01:29 | अस्माभिः चिह्नानि केवलमेकवारं टङ्कितानि। |
01:32 | अवधातव्यं यत् चिह्नमिदं लेवल एडिटर बॉक्स इत्यस्य प्रथमपङ्क्तौ प्रदृश्यमानमस्ति इति। |
01:38 | लेवल डेटा फील्ड मध्ये प्रदृश्यमानं वाक्यं चित्वा नाशयन्तु। |
01:44 | एम्पर्संड, स्टार अपि च डॉलर चिह्नानि पञ्चवारं ट्ङ्कयन्तु। |
01:49 | अधुना लेवल एडिटर बॉक्स अन्तः, प्लस चिह्नोपरि नुदन्तु। किं जातम्? |
01:57 | लेवल एडिटर बॉक्स मध्ये वर्णमालासम्बद्धा अपरा पङ्क्तिः प्रदृश्यते। |
02:02 | लेवल एडिटर बॉक्स मध्ये अपरपङ्क्तिं चिन्वन्तु। |
02:06 | लेवल फील्ड इत्यस्य डेटा अधुना 2 इति प्रदृश्यते। |
02:09 | एतत् अस्माकं टाइपिंग पाठस्य द्वितीयं लेवल अस्ति। |
02:13 | New Characters in this Level फील्ड मध्ये fj इति टङ्कयन्तु। |
02:20 | Level Data फील्ड मध्ये पञ्चवारं fj इति टङ्कयन्तु। |
02:24 | स्वकीये टाइपिंग पाठे भवद्भ्यः यावन्तः स्तराः अपेक्षिताः तावतः निर्मातुं शक्नुवन्ति। |
02:29 | एवमेव स्वकीये टाइपिंग पाठे भवन्तः यावतः स्तरानिच्छन्ति तावतः निर्मातुं शक्नुवन्ति। |
02:35 | Save इत्यत्र नुदन्तु। |
02:37 | Save Training Lecture – KTouch डायलॉग बॉक्स प्रदृष्टं भवति। |
02:41 | नेम फील्ड मध्ये New Training Lecture इति टङ्कयन्तु। |
02:45 | अधुना फाइल निमित्तं किञ्चन फॉर्मेट चिन्वन्तु। |
02:49 | Filter ड्रॉप डाउन सूच्यां triangle इत्यत्र नुदन्तु। |
02:52 | फाइल इत्यस्य फॉर्मेट निमित्तं KTouch Lecture Files कोष्ठकेषु star.ktouch.xml चिन्वन्तु। |
03:03 | फाइल रक्षितुं डेस्कटॉप ब्राउज़ कुर्वन्तु। Save इत्यत्र नुदन्तु। |
03:08 | KTouch Lecture Editor डायलॉग बॉक्स अधुना New Training Lecture इति नाम प्रदर्शयति। |
03:15 | अस्माभिः स्तरद्वयेन समं नूतनमेकं ट्रेनिंग लेक्चर निर्मितम्। |
03:19 | KTouch Lecture Editor डायलॉग बॉक्स पिधीयताम्! |
03:24 | अधुना यदस्माभिः निर्मितं लेक्चर अस्ति तदुद्घाटयन्तु। |
03:28 | मुख्यमेन्युतः फाइल चित्वा Open Lecture इत्यत्र नुदन्तु। |
03:34 | Select Training Lecture File डायलॉग प्रदृष्टं भवति। |
03:38 | डेस्कटॉप ब्राउज़ कृत्वा New Training Lecture.ktouch.xml चिन्वन्तु। |
03:46 | अवधेयं यत् &, *, अपि च $ चिह्नानि टीचर्स लाइन मध्ये प्रदृश्यमानानि सन्ति इति। अधुना टङ्कनम् (टाइपिंग) आरभामहे। |
03:54 | अस्माभिः स्वकीयं लेक्चर निर्मितं अपि च तत् कश्चन टाइपिंगपाठः इव उपयुक्तम् अस्ति। |
03:59 | के-टच टाइपिंग पाठं प्रति गन्तुं मुख्यमेन्यु मध्ये File चिन्वन्तु, Open Lecture इत्यत्र नुदन्तु। तत्र दृश्यमानं फोल्डर पथं ब्राउज़ कुर्वन्तु। |
04:10 | Root->usr->share->kde4->apps->Ktouch अपि च english.ktouch.xml चिन्वन्तु। |
04:26 | वयं के-टच इतीदं स्वप्राशस्त्यानुसारं निर्मातुं शक्नुमः। |
04:30 | यथा, यदक्षरं टीचर्स पङ्क्तौ न प्रदर्शितं तदक्षरं यदा टङ्कयन्ति तदा स्टुडेण्ट पङ्क्तिः रक्तवर्णीया भवति। |
04:37 | भवन्तः पृथक्प्रदर्शनार्थं स्वेच्छानुसारं वर्णान् चेतुं शक्नुवन्ति। |
04:41 | अधुना कलर सेटिंग्स परिवर्तयामः। |
04:44 | मुख्यमेन्युतः Settings चिन्वन्तु अपि च Configure – KTouch इत्यत्र नुदन्तु। |
04:50 | Configure – KTouch डायलॉग बॉक्स प्रदृष्टं भवति। |
04:53 | Configure – KTouch डायलॉग बॉक्स मध्ये Color Settings इत्यत्र नुदन्तु। |
04:58 | Color Settings इत्यस्य विवरणं प्रदृष्टं भवति। |
05:02 | Use custom color for typing line इति बॉक्स चिन्वन्तु। |
05:05 | टीचर्स लाइन फील्ड मध्ये टेक्स्ट फील्ड इत्यस्य अग्रे कलर बॉक्स इत्यत्र नुदन्तु। |
05:12 | Select-Color डायलॉग बॉक्स प्रदृष्टं भवति। |
05:15 | Select-Color डायलॉग बॉक्स मध्ये green वर्णोपरि नुदन्तु। OK इत्यत्र नुदन्तु। |
05:21 | Configure – KTouch डायलॉग बॉक्स प्रदृष्टं भवति। Apply इत्यत्र नुदन्तु। OK इत्यत्र नुदन्तु। |
05:29 | टीचर्स लाइन मध्ये अक्षराणि हरितवर्णेन परिवृतानि सन्ति। |
05:33 | अधुना वयं स्वकीयकीलफलकं (कीबोर्ड) निर्मास्यामः। |
05:37 | किञ्चन नवीनकीलफलकं (कीबोर्ड) निर्मातुं प्रस्तुतकीलफलकम् (कीबोर्ड) उपयोक्तव्यं भवति। |
05:42 | अस्मिन् परिवर्तनानि कुर्वन्तु अपि च इदं नामान्तरेण रक्षन्तु। |
05:46 | मुख्यमेन्युतः File चिन्वन्तु अपि च Edit Keyboard Layout इत्यत्र नुदन्तु। |
05:52 | Open Keyboard File डायलॉग बॉक्स प्रदृष्टं भवति। |
05:56 | Open Keyboard File डायलॉग बॉक्स मध्ये Open a default keyboard चिन्वन्तु। |
06:02 | अधुना अस्मात् फील्डतः अग्रिमं पिञ्जं नुदन्तु। |
06:06 | कीबोर्ड्स इत्यस्य सूची प्रदृष्टा भवति। en.keyboard.xml चिन्वन्तु। OK इत्यत्र नुदन्तु। |
06:15 | KTouch Keyboard Editor डायलॉग बॉक्स प्रदृष्टं भवति। |
06:19 | कीबोर्ड टाइटल फील्ड मध्ये Training Keyboard इति टङ्कयन्तु। |
06:25 | अस्माभिः कीलफलकाय काचित् भाषा चेतव्या भवति। |
06:29 | Language id ड्रॉप डाउन सूचीतः en चिन्वन्तु। |
06:35 | प्रस्तुतकीलफलके (कीबोर्ड) फॉन्ट्स परिवर्तयन्तु। |
06:39 | Set Keyboard Font इत्यत्र नुदन्तु। |
06:42 | Select Font – KTouch डायलॉग बॉक्स विंडो प्रदृष्टं भवति। |
06:48 | Select Font – Ktouch डायलॉग बॉक्स मध्ये Font निमित्तं Ubuntu इति, Font Style निमित्तं italics इति, Font Size निमित्तं 11 इति च चिन्वन्तु। |
06:58 | अधुना OK इत्यत्र नुदन्तु। |
07:00 | कीलफलकं (कीबोर्ड) रक्षितुं Save Keyboard As इत्यत्र नुदन्तु। |
07:04 | Save Keyboard – KTouch डायलॉग बॉक्स प्रदृष्टं भवति। |
07:08 | अधस्थं फोल्डर पथं ब्राउज़ कुर्वन्तु। |
07:10 | Root->usr->share->kde4->apps->Ktouch अपि च तत्र english.ktouch.xml चिन्वन्तु। |
07:26 | नेम फील्ड मध्ये Practice.keyboard.xml इति टङ्कयन्तु। Save इत्यत्र नुदन्तु। |
07:33 | फाइल ‘<name>.keyboard.xml’ फ़ॉर्मेट मध्ये रक्षितम्। Close इत्यत्र नुदन्तु। |
07:42 | किं भवन्तः नवीनकीलफलकम् (कीबोर्ड) अनुक्षणमुपयोक्तुं शक्नुवन्ति? नैव। |
07:46 | भवद्भिः एतत् kde-edu इति मेल आईडी प्रति मेल करणीयं भवति। अनन्तरमेतत् के-टच इत्यस्य अग्रिमसंस्करणे (वर्ज़न) सम्मिलिष्यति। |
07:57 | एतेन समं वयं के-टच इति पाठस्य अन्तं प्राप्तवन्तः। |
08:01 | अस्मिन् पाठे अस्माभिः प्रशिक्षितुं अपि च कलर सेटिंग्स मध्ये परिवर्तनं कर्तुं किञ्चन लेक्चर निर्माणम् अभ्यस्तम्। |
08:08 | वयं किञ्चन प्रस्तुतकीलफलकरचनायाः (कीबोर्ड लेआउट) उद्घाटनं, तस्याः परिवर्तनं, स्वकीयकीलफलकस्य (कीबोर्ड) निर्माणं च अवगतवन्तः। |
08:15 | अत्र भवतां कृते किञ्चन नियतकार्यम् अस्ति। |
08:18 | स्वकीयकीलफलकं (कीबोर्ड) निर्मान्तु। |
08:20 | कीलफलके (कीबोर्ड) वर्णे अपि च फॉन्ट लेवल मध्ये परिवर्तनं कुर्वन्तु। परिणामं परिशीलयन्तु। |
08:28 | अधस्थे लिंक मध्ये उपलब्धं विडियो पश्यन्तु। |
08:31 | एतत् स्पोकन ट्यूटोरियल इत्यस्य सारांशः अस्ति। |
08:34 | यदि भवतां समीपे उत्तमं बैंडविड्थ नास्ति तर्हि भवन्तः एतत् अवचित्यापि (डाउनलोड) द्रष्टुं शक्नुवन्ति। |
08:38 | स्पोकन ट्यूटोरियल प्रकल्पगणः (प्रोजेक्ट टीम) : |
08:41 | स्पोकन ट्यूटोरियल इत्यस्य उपयोगद्वारा कार्यशालाः अपि चालयति। |
08:44 | ये ऑनलाइन परीक्षाम् उत्तरन्ति तेभ्यः प्रमाणपत्रमपि दीयते। |
08:48 | अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु। |
08:54 | स्पोकन ट्युटोरियल प्रोजेक्ट टॉक-टू-अ-टीचर प्रोजेक्ट इत्यस्य भागः अस्ति। |
08:59 | एतत् भारतसर्वकारस्य एमएचआरडी इत्यस्य “आईसीटी माध्यमेन राष्ट्रीयसाक्षरतामिशन” द्वारा समर्थितमस्ति। |
09:07 | अस्य विषये अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इति लिंक मध्ये उपलब्धमस्ति। |
09:17 | अस्य प्रतेः अनुवादकः प्रवाचकश्च वासुदेवः अधुना आपृच्छति। समयदानाय धन्यवादः। |