KTurtle/C3/Control-Execution/Sanskrit
From Script | Spoken-Tutorial
Revision as of 18:15, 21 February 2017 by PoojaMoolya (Talk | contribs)
Time | Narration |
00:01 | सर्वेभ्यः नमस्कारः । |
00:03 | KTurtleइत्यस्मिन् Control Execution विषयके अस्मिन् प्रशिक्षणे भवद्भ्यः स्वागतम् । |
00:10 | अस्मिन् प्रशिक्षणे वयं, |
00:13 | 'while' लूप् |
00:15 | 'for' लूप् च ज्ञास्यामः । |
00:17 | प्रशिक्षणमेतं संरचयितुम् अहम् उबण्टु लिनक्स् इत्यस्य 12.04 इति आवृत्तेः, KTurtle इत्यस्य 0.8.1 बीटा इति आवृत्तेः च उपयोगं करोमि । |
00:32 | Kturtle इत्यस्य प्राथमिकं ज्ञानं भवताम् अस्ति इति अहं भावयामि । |
00:38 | यदि नास्ति, तत्सम्बद्ध-टुटोरियल्-प्राप्त्यै कृपया अस्माकं जालपुटस्य सम्पर्कं कुर्वन्तु - http://spoken-tutorial.org |
00:45 | एकं नूतनं KTurtle अप्लिकेषन् उद्घाटयाम । |
00:48 | Dash home उपरि क्लिक् करवाम । |
00:50 | सर्च् बार् उपरि KTurtle इति लिखाम । |
00:53 | Option उपरि क्लिक् करोतु । KTurtle अप्लिकेषन् उद्घाटितं भवति । |
00:59 | आदौ तावत् अहं control execution नाम किमिति विवृणोमि । |
01:05 | Control execution, संविधेः (प्रोग्राम्) वेगं नियन्त्रयति । |
01:10 | program execution नियन्त्रणाय विभिन्नप्रकारकाणि निबन्धनानि उपयुज्यन्ते । |
01:16 | योग्यं निबन्धनं यावत् पूर्णं भवति, पुनः पुनः उत्पद्यमानः विध्यादेशसमुदायः (कोड्) लूप् इत्युच्यते । |
01:25 | उदाहरणार्थं “while” लूप्, “for” लूप् च । |
01:30 | “while” लूप्-तः प्रशिक्षणस्य आरम्भं करवाम । |
01:34 | “while” लूप्-मध्ये, यावत् boolean मौल्यमापनं दोषयुतं न भवति तावत् विध्यादेशः (कोड्) पुनरावर्तते। |
01:42 | अहं “while” लूप् संरचनाक्रमं विवृणोमि ।
while loop condition भक्किकायां { do something with loop increment variable } |
01:56 | पूर्वमेव मम समीपे पाठ्यसम्पादके (टेक्स्ट् एडिटर् मध्ये) विध्यादेशः अस्ति । |
01:59 | अहं पाठ्यसम्पादकात् संविधेः (program) प्रतिलिपिं (copy) कृत्वा KTurtle सम्पादके लेपयामि (paste)। |
02:07 | कृपया अत्र प्रशिक्षणं स्थगयतु, संविधिं (program) भवतां KTurtle सम्पादके लिखतु च । |
02:13 | संविधिलेखनस्य (program) अनन्तरं पुनः प्रशिक्षणम् अनुवर्तयतु। |
02:18 | अहं विधिपाठ्यं (program text) किञ्चित् अस्पष्टं दृश्यते इत्यतः उपसर्पणं (झूम्) करोमि । |
02:25 | इदानीम् अहं विध्यादेशं (कोड्) विवृणोमि । |
02:27 | # चिह्नम्, एतस्य अनन्तरं लिखितं वाक्यं विमृशति (कमेण्ट् करोति) । |
02:32 | अर्थात्, संविधिः (प्रोग्राम्) यदा चलति तदा एतत् लैन् अत्र उत्पन्नं न भवति । |
02:38 | reset आदेशः “Turtle” इत्येतम् उत्सर्गस्थितौ (डीफाल्ट्) नियोजयति । |
02:43 | $x=0 (डालर् एक्स् ईक्वल् टु जीरो), x तः 0 पर्यन्तं विभिन्नप्रकारकं मूल्यम् (वेल्यू) उत्पादयति । |
02:52 | keyword message इत्यस्य अनन्तरं विधौ मेसेज् " इति द्वयोः उद्धरणचिह्नयोः मध्ये दत्तम् अस्ति । “message” आदेशः “string” इत्येतं इन्पुट्-रूपेण स्वीकरोति । |
03:04 | एतत् string तः पाठ्येन सहैव एकां पापप्-संवादपेटिकां (डयलाग् बाक्स्) दर्शयति । |
03:11 | while $x<30 (वैल् डालर् एक्स् लेस्देन् थर्टि) “while” निर्बन्धं परिशीलयति । |
03:17 | $x=$x+3 , $x बै 3 विभिन्नप्रकारकस्य मूल्यं (वेल्यू) वर्धयति । |
03:27 | fontsize 15 आदेशः, print आदेशद्वारा उपयुक्तं फाण्ट्-सैज् सेट् करोति । |
03:35 | Font size, इन्पुट्-रीत्या सङ्ख्यां स्वीकरोति । Pixels मध्ये सेट् करोति च (नियोजयति च) । |
03:42 | forward 20 आदेशः क्यान्वास् उपरि 20 स्टेप्स् अग्रे गमनाय “Turtle” कृते अनुज्ञां ददाति । |
03:52 | print $x क्यान्वास् उपरि x variable मूल्यं प्रदर्शयति । |
04:01 | विधिं चालयितुं (रन्) “Run” बटन् उपरि क्लिक् करवाम । |
04:05 | एका संवादपेटिका पापप् भवति । OK क्लिक् करोमि । |
04:11 | त्रिगुणकानि 3 तः 30 पर्यन्तं क्यान्वास् उपरि दृश्यन्ते । |
04:17 | “Turtle” क्यान्वास् उपरि 20 स्टेप्स् अग्रे चलति । |
04:22 | अग्रे “for” लूप्-द्वारा कार्यं करवाम । |
04:26 | “for” लूप् किञ्चन कौण्टिङ्ग् लूप् । |
04:29 | “for” लूप्-मध्ये प्रतिवारम् अपि (सर्वदा अपि) विध्यादेशः (कोड्) उत्पद्यते । |
04:34 | एतत् स्वस्य अन्तिम-वेल्यू यावत् प्राप्नोति, तावत्पर्यन्तं वेरियेबल् मूल्यं वर्धमानं भवति । |
04:41 | इदानीमहं “for” लूप् संरचनां विवृणोमि । |
04:46 | for variable = start number to end number भक्किकायां { Statement} |
04:55 | अहं विद्यमानविधिं मार्जयामि । |
04:59 | अहं clear आदेशं टैप् करोमि । क्यान्वास् स्वच्छतायै चालयामि च (रन् करोमि) । |
05:05 | इदानीम् अहं पाठ्यसम्पादकात् विधिं कापि कृत्वा KTurtle सम्पादके पेस्ट् करोमि । |
05:14 | कृपया अत्र प्रशिक्षणं स्थगयतु । भवतां KTurtle सम्पादके विधिं लिखतु च । |
05:20 | तन्त्रांशलेखनस्य अनन्तरं पुनः प्रशिक्षणस्य आरम्भं करवाम । |
05:25 | अहं विधिपाठ्यं (program text) किञ्चिदिव अस्पष्टं दृश्यते इत्यतः झूम् करोमि । |
05:32 | इदानीम् अहं विधिं विवृणोमि । |
05:34 | # चिह्नम्, एतस्य अनन्तरं लिखितं वाक्यं विमृशति (कमेण्ट् करोति) । |
05:39 | reset आदेशः “Turtle” इत्येतं default स्थितौ नियोजयति । |
05:44 | $r=0 वेरियबल् मूल्यं r तः zero पर्यन्तम् उत्पादयति । |
05:52 | for $x= 1 to 15 1 तः 15 पर्यन्तं “for” निर्बन्धं परिशीलयति । |
06:01 | $r=$x*($x+1)/2 (डालर् आर् ईक्वल् टु डालर् एक्स् इन् टु डालर् एक्स् प्लस् ओन् बै टु) वेरियबल् r इत्यस्य मूल्यं गणयति । |
06:12 | fontsize 18 आदेशः print आदेशद्वारा उपयुक्तस्य फाण्ट् इत्यस्य सैज् सेट् करोति । |
06:19 | print $r आदेशः क्यान्वास् उपरि r वेरियेबल् मूल्यं प्रदर्शयति । |
06:26 | forward 15 आदेशः Turtle इत्येतं क्यान्वास् उपरि 15 स्टेप्स् अग्रे चालयति । |
06:34 | go 10,250 आदेशः क्यान्वास् वामभागात् 10 pixels, उपरिष्टात् 250 pixels अग्रे गमनाय Turtle कृते आदिशति । |
06:48 | “Turtle” सर्वान् print आदेशान् किञ्चिदपि समयस्य अन्तरं विना प्रदर्शयति । |
06:54 | “Wait 2” आदेशः, अग्रिमतन्त्रांशस्य एक्सिक्यूट्-करणात् पूर्वं Turtle इत्येतं 2 सेकेण्ड् “wait” कर्तुं सूचयति । |
07:04 | “print” आदेशः “string” इत्यस्य उद्धरणचिह्नद्वयं दर्शयति, $r वेरियबल् अपि दर्शयति च । |
07:13 | इदानीम् अहं तन्त्रांशस्य चालनाय (रन् करणाय) “ Run” कुड्मं (बटन्) क्लिक् करोमि । |
07:17 | आदिमा 15 सहजसङ्ख्या, तेषां 15 सहजसङ्ख्यानां योगश्च क्यान्वास् उपरि दृश्यते । |
07:27 | Turtle क्यान्वास् उपरि 15 स्टेप्स् अग्रे गच्छति । |
07:32 | एतेन सह वयम् अस्य प्रशिक्षणस्य अन्तिमघट्टं प्रति आगताः स्मः । |
07:37 | सङ्क्षेपतः, |
07:40 | अस्मिन् प्रशिक्षणे वयं, |
07:44 | “while”' लूप् “for” लूप् च, एतयोः उपयोगं ज्ञातवन्तः। |
07:47 | असैन्मेण्ट्-रूपेण लेखनाय अहं भवद्भ्यः कांश्चन तन्त्रांशान् वदामि, |
07:54 | “while” लूप् उपयुज्य 2 गुणनम्, |
07:58 | “for” लूप् उपयुज्य एकस्याः सङ्ख्यायाः गुणनकोष्ठकनिर्माणं कुर्वन्तु । |
08:03 | अस्मिन् URL मध्ये लभ्यमानं विडियो पश्यन्तु - http://spoken-tutorial.org/What is a Spoken Tutorial |
08:08 | ट्युटोरियल् इत्यस्य सारांशः अत्र अस्ति । |
08:12 | यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति । |
08:17 | स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्) |
08:20 | एतत् उपयुज्य कार्यशालाः चालयति । |
08:23 | आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति । |
08:27 | अधिकविवरणार्थं, contact@spoken-tutorial.org लिखन्तु । |
08:36 | अयं प्रकल्पः टाक् टु ए टीचर् परियोजनायाः कश्चन भागः अस्ति। |
08:41 | एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् । |
08:48 | अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते - http://spoken-tutorial.org/NMEICT-Intro ] |
08:54 | अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः। धन्यवादाः । |