Java/C2/Logical-Operations/Kannada

From Script | Spoken-Tutorial
Revision as of 22:25, 12 February 2015 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:02 जावा मध्ये “लाजिकल् आपरेटर्स्” विषयकपाठं प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयम्, लाजिकल् आपरेटर्स्
00:11 लाजिकल् आपरेटर्स् इत्येतत् उपयुज्य मल्टिपल् एक्प्रेषन्स् इत्येतत् कथं परिशीलनीयं तथा फक्किक्काम् उपयुज्य आद्यतायाः अतिक्रमणं कथं कर्तव्यम् इत्यादीनि अध्येष्यामः ।
00:20 अस्मिन् पाठे वयम्-

“उबुण्टु” 11.10 (एकादश ---- दश) “जेडिके 1.6 (एकम् ----- षट्) तथा “ एक्लिप्स् 3.7 (त्रयम्… सप्त) इत्येतान् उपयुञ्जामहे ।

00:30 एतस्य पाठस्य अभ्यासार्थं भवन्तः “रिलेषनल् आपरेटर्स्” विषये जानीयुः ।
00:35 अन्यथा तत्सम्बद्धस्य ट्युटोरियल् कृते अस्माकं जालपुटं पश्यन्तु ।
00:40 लाजिकल् आपरेटर्स् इत्येतं “मल्टिपल् कण्डीषन्स्” इत्येतेषां परिशीलनार्थम् उपयुञ्ज्महे ।
00:48 जावायाम् उपलभ्यमानस्य “लाजिकल् आपरेटर्स्” इत्यस्य आवलिः अत्रास्ति ।
00:54 and (आण्ड्), or(आर्), not(नाट्), एतेषां विषये सविवरं ज्ञास्यामः । एक्लिप्स् इत्येतत् आरभामहे ।
01:04 अत्र एक्लिप्स् ऐडिइ तथा अवशिष्टसङ्केतार्थम् अपेक्षितं स्केलिटन् अस्ति ।
01:10 अहं LogicalOperators “लाजिकल् आपरेटर्स्” नाम्नः पाठं सिद्धं कृत्वा “मैन्” विधानं योजितवन् अस्मि ।
01:15 वयमिदानीं कानिचन वेरियेबल्स् उत्पादयामः ।
01:20 “बूलियन् बि”
01:23 वयं कण्डीषन् इत्यस्य फलितं ’बि’ मध्ये सङ्गृह्णामः ।
01:29 int age' समं एकादश (११)
01:35 int weight समं द्विचत्वारिंशत् (४२)
01:42 वयम् एकस्याः व्यक्तेः वयः तथा भारं च प्राप्तवन्तः ।
01:46 वयं १८ वर्षापेक्षया न्यूनवयसः तथा कनिष्ठं ४० के.जि. विद्यमानान् जनान् परिक्षयामः ।
01:52 तत् कथं कर्तव्यमिति पश्यामः ।
01:57 “बि” समं “age”(एज्) लेस्देन् अष्टादश “एम्पर्सेण्ड् एम्पर्सेण्ड्” “weight”(वैट्) “ग्रेटर् देन् समं” चत्वारिंशत् ।
02:19 अस्मिन् वाक्ये द्वयम् एक्स्प्रेषन्स् तथा तयोः मध्ये द्वयम् एम्पर्सेण्ड् चिह्नानि युक्तानि सन्ति ।
02:24 एतत् वयः १८ अपेक्षया न्यूनमस्ति वा तथा भारः ४० प्रति समम् अस्ति वा आहोस्वित् अधिकम् इति परीक्षां करोति ।
02:31 एतत् आपरेषन् “and”(आण्ड्) आपरेषन् इति वदन्ति ।
02:35 वयमिदानीं बि इत्यस्य मौल्यं मुद्रापयामः ।
02:40 “सिस्टम्” “डाट्” “औट्” “डाट्” “प्रिण्ट्एल्एन्” (बि)”
02:48 संरक्ष्य रन् कुर्वन्तु ।
02:56 वयमिदानीं फलितं “ट्रू” जातं द्रष्टुं शक्नुमः, यतः कण्डीषन् द्वयमपि तृप्तिदायकमस्ति ।
03:02 वयमिदानीं वैट् इत्येतत् परिवर्तयामः तदा एकं कण्डीषन् तृप्तिकरं न भवति । पश्चात् कोड् रीरन् कुर्मः ।
03:08 “४२” इत्येतं “३२” प्रति परिवर्तयामः ।
03:14 संरक्ष्य रन् कुर्वन्तु ।
03:21 इदानीं फलितं फाल्स् इति भवति ।
03:24 एवं किमर्थं चेत्, वयसः कण्डीषन् लेस्देन् १८ इति तृप्तिकरमस्ति ।
03:29 किन्तु भारस्य कण्डीषन् ग्रेटर् देन् आहोस्वित् समं ४० इत्येतत् तृप्तिकरं नास्ति ।
03:34 आण्ड् आपरेषन् इत्येतस्य फलितं ट्रू भवितुं कण्डीषन् द्वयमपि सम्यक् विद्यमानम् अपेक्षते ।
03:39 तस्मात् अस्माकं फलिते फाल्स् इत्येतत् प्राप्तवन्तः ।
03:43 एवं रीत्या, एम्पर्सण्ड् चिह्नद्वयं “आण्ड्” आपरेषन् इत्येतत् कर्तुम् उपयुञ्जामहे ।
03:53 इदानीं वयं वयः तथा भारं च प्राप्तवन्तः तथा तयोः अन्यतरं तृप्तिदायकं भवति चेदलं इति वदामः ।
03:59 अन्यथा, अस्माभिः प्रथमं कण्डीषन् आहोस्वित् द्वितीयं कण्डीषन् सम्यगस्ति वा इति द्रष्टव्यं भवेत् ।
04:05 एतत् “आर्” आपरेषन् इत्येतत् उपयुज्य क्रियते ।
04:09 वयमिदानीं पूर्वतनं कण्डीषन् निष्कासयामः ।
04:15 तथा च नुदन्तु
04:17 “एज्” लेस्देन् आर् ईक्वल् टु” पञ्चदश (१५) “पैप् पैप्” “वैट्” लेस्देन् आर् ईक्वल् टु” त्रिंशत् (३०) ।
04:35 अत्र कण्डीषन् द्वयं तथा तयोः मध्ये पैप् चिह्नद्वयम् अस्ति ।
04:40 एतत् वाक्यं दत्तयोः उभयोः मध्ये न्यूनातिन्यूनम् एकं कण्डीषन् तृप्तिदायकमस्ति वा इति परीक्षां करोति ।
04:46 वयमिदानीं कोड् रन् कृत्वा फलितं पश्यामः । संरक्ष्य रन् कुर्वन्तु ।
04:54 फलितं ट्रू जातं पश्यामः ।
04:57 एवं किमर्थं चेत्, “आर्” आपरेषन् “आण्ड्” आपरेषन् इव कण्डीषन् द्वयमपि सम्यक् भवेत् इति न अपेक्षते ।
05:03 एतत् कनिष्ठम् एकं कण्डीषन् सम्यक् विद्यमानम् अपेक्षते ।
05:06 “वैट्” इत्यस्य कण्डीषन् तृप्तिकरं नास्ति चेदपि, “एज्” इत्यस्य कण्डीषन् तृप्तिकरम् अस्ति इत्यतः ।
05:13 वयं फलितं ट्रू इत्येतत् प्राप्नुमः ।
05:18 इदानीं कण्डीषन् द्वयमपि यथा दोषः भवेत् तथा “एज्” इत्येतदपि परिवर्तयामः तथा फलितं पश्यामः ।
05:25 “११” इत्येतत् “१७” प्रति परिवर्तयन्तु ।
05:30 संरक्ष्य रन् कुर्वन्तु ।
05:36 इदानीं फलितं फाल्स् जातमस्ति यतः कण्डीषन् द्वयमपि तृप्तिकरं नास्ति ।
05:41 एवम्, वयं पैप् चिह्नद्वयं “आर्” आपरेषन् कर्तुं उपयुञ्ज्महे ।
05:50 इदानीं १५ वर्षापेक्षया अधिकवयोयुक्तानां तथा ३० किलो अपेक्षया भारं विद्यमानानां जनानां परीक्षणापेक्षा अस्ति इति वदामः ।
05:57 अन्यथा, इदमिदानीं कृतस्य साक्षात् विरुद्धं कण्डीषन् इतेतस्य परीक्षणस्य अपेक्षा अस्ति ।
06:03 एतादृषसन्दर्भेषु, वयं “नाट्” आपरेषन् उपयुञ्ज्महे ।
06:07 आदौ कण्डीषन् इत्येतत् फक्किकायाः अन्तः योजयन्तु ।
06:17 तथा कण्डीषन् इत्येतस्य आदौ आश्चर्यसुचकचिह्नं योजयन्तु ।
06:25 आश्चर्यसूचकचिह्नस्य उपयोगेन, फक्किकायाः अन्तः विद्यमानस्य विरुद्धं कण्डीषन् परीक्षयामः ।
06:32 पूर्वतनं फलितं फाल्स् आसीत् इत्यतः, तदिदानीं निश्चयेन ट्रू भवत्येव । पश्यामः
06:38 संरक्ष्य रन् कुर्वन्तु ।
06:44 यथा वयं पश्यामः, फलितं पूर्वतनस्यापेक्षय विरिद्धमेवास्ति ।
06:48 एवं “आश्चर्यसूचकचिह्नं” उपयुज्य “नाट्” आपरेषन् कृतवन्तः । वयमिदानीं “१५” वर्षापेक्षया न्यूनं विद्यमानाः जनाः अपेक्षिताः इति वदामः ।
06:58 आहोस्वित् १८ वर्षापेक्षया कनीयाः ४० किलो अपेक्षया न्यूनभाराः जानाः।
07:04 एतत् कण्डीषन् कथं कर्तुं शक्यते इति पश्यामः ।
07:07 पूर्वतनं कण्डीषन् निष्कास्य नुदन्तु
07:12 “एज्” “लेस् देन्” “१५”
07:15 “आर्” “एज्” “लेस् देन्” “१८”
07:24 तथा “वैट्” “लेस् देन्” “४०”
07:33 यथा वयं पश्यामः इदं कण्डीषन् एव भ्रमाम् उत्पादयति ।
07:36 तदपेक्षया, “आर्” आपरेषन् पूर्वं करोति वा आहोस्वित् “आण्ड्” आपरेष्न् इति न ज्ञायते ।
07:42 एतत् आपरेटर् इत्यस्य आद्यताम् आवलम्ब्य अस्ति ।
07:46 एतादृश सन्दर्भेषु, वयम् फक्किकाम् उपयुज्य आद्यताम् अतिक्रान्तुं शक्नुमः तथा कण्डीषन् स्पष्टीकर्तुं शक्यते ।
07:53 तस्मात् फक्किकां योजयामः ।
08:06 कोड् रन् कुर्मः । संरक्ष्य रन् कुर्वन्तु ।
08:13 इदानीं प्रथमं “एज् लेस्देन् १५” इत्येतत् कण्डीषन् तृप्तिकरं नास्ति चेदपि
08:20 द्वितीयं कण्डीषन्
08:22 एज् लेस्देन् १८ तथा वैट् लेस्देन् ४० तृप्तिकरमस्ति ।
08:27 तस्मात्, फलितं ट्रू जातमस्ति ।
08:30 नियमानुसारम्, फक्किकायाः उपयोगः सन्दिग्धतां निवार्य एक्स्प्रेषन्स् स्पष्टीकरोति ।
08:36 एवं विधया मल्टिपल् कण्डीषन्स् परीक्षणार्थं लाजिकल् आपरेटर्स् इत्येतत् उपयुञ्ज्महे ।
08:44 अत्र असौ पाठः समाप्यते।
08:47 वयम् एतावता “लाजिकल् आपरेटर्स् विषये”, लाजिकल् आपरेटर्स् उपयुज्य मल्टिपल् एक्प्रेषन्स् इत्येतेषां परीक्षणं”
08:54 “आवरणम् उपयुज्य आद्यतायाः अतिक्रमणं कथम्” इत्यादीनि अधीतवन्तः ।
09:00 अस्य पाठस्य अभ्यासरूपेण
09:02 दर्शितं एक्स्प्रेषन् द्वयम् समम् अस्ति वा इति परीक्षां कुर्वन्तु ।
09:10 एतत् स्पोकन् ट्युटोरियल् प्रोजेक्ट् विषये अधिकं ज्ञातुं कृपया एतस्मिन् लिङ्क् मध्ये प्राप्यमानं विडोयो पश्यन्तु। एतत् स्पोकन् ट्युटोरियल् प्रोजेक्ट् सारांशं वदति।
09:18 भवतां समीपे समीचीनं ब्याण्ड्विड्थ् नास्ति चेत् तद् अवचित्य द्रष्टुं शक्यते ।
09:23 पाठमिमं आधारीकृत्य स्पोकन् ट्युटोरियल् गणः कार्यशालाम् आयोजयति । ये च आन्लैन् परीक्षायाम् उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रम् अपि ददाति ।
09:30 अधिकज्ञानाय contact@spoken-tutorial.org एतत् ई-मेल् द्वारा सम्पर्कं कुर्वन्तु ।
09:36 स्पोकन् ट्युटोरियल् प्रोजेक्ट् Talk to a Teacher इति परियोजनायाः भागः अस्ति।
09:40 एतं प्रकल्पं राष्ट्रिय साक्षरता मिषन् ICT, MHRD भारत सर्वकारः इति संस्था समर्थयति ।
09:46 अधिकज्ञानाय spoken hyphen tutorial dot org slash NMEICT hyphen Intro अत्र पश्यन्तु ।
09:52 अस्य पाठस्य अनुवादकः बेङ्गलूरुतः रुक्माङ्गद आर्यः तथा प्रवाचकः ऐ.ऐ.टि. मुम्बैतः वासुदेवः ।

धन्यवादः ।

Contributors and Content Editors

Vasudeva ahitanal