Linux/C2/The-Linux-Environment/Sanskrit

From Script | Spoken-Tutorial
Revision as of 10:17, 30 January 2015 by PoojaMoolya (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 लिनक्स एन्विरोन्मेण्ट अपि च तस्य कुशलतापूर्वकोपयोगस्य विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यःस्वगतम्।
00:07 अस्मिन् पाठे दर्शितान् सचित्रदृष्टान्तान् परीक्षयितुं तादृशं सङ्गणकमपेक्षितं यत्र लिनक्स भवेत् ।
00:13 भवन्तः लिनक्स आपरेटिंग् सिस्टम् जानन्ति अपि च भवद्भ्यः कमांड, फैल सिस्टम, शेल इत्यादीनां मूलभूतज्ञानम् अस्ति इति अहं भावयामि।
00:22 यदि भवन्तः आसक्ताः अथवा विषयेऽस्मिन् इतोप्यधिकं ज्ञातुम् इच्छन्ति तर्हि अस्मिन् जालपुटे विद्यमानं पाठं पश्यन्तु।
00:32 अहमत्र एतत् ट्युटोरियल् निमित्तं उबंटु 10.10 इत्यस्य प्रयोगं कुर्वन् अस्मि ।
00:36 अपि च, लिनक्स इति अक्षरसंवेद्यम् अस्ति। अत्र ये आदेशाः उपयुज्यन्ते ते लघ्वक्षरैः भवन्ति, यदि नास्ति तर्हि सूचितं भवति।
00:46 लिनक्स् एन्विरोन्मेंट् इत्येतद् आपरेटिंग् सिस्टम् भवता सह कथं व्यवहरति, तत् भवतः आदेशानां कृते कथं प्रतिक्रियां ददाति अपि च भवतः कार्याणि कथं इंटर्प्रेट् करोति इत्यादिकं निर्धारयति।
00:55 शेल् इत्यस्य व्यवस्थापरिवर्तनेन लिनक्स् इत्येतं इतोप्यधिकं व्यवस्थापयितुं शक्नुमः।
00:58 अधुना एतत्सर्वं कथं भवतीति पश्यामः।
00:59 सामान्यतः शेल् इत्यस्य स्वभावः शेल् वेरियेबल् द्वारा निर्धारितं भवति।
01:04 प्रमुखतया द्वे शेल् वेरियेबल् स्तः:

एन्विरोन्मेंट् वेरियेबल्स् लोकल् वेरियेबल् च।

01:12 एन्विरोन्मेंट् वेरियेबल् इत्येतत् उपयोक्तुः सम्पूर्णक्षेत्रे उपलब्धं भवति।
01:19 एतानि शेल् द्वारा रचितेषु सब्शेल् मध्ये अपि उपलब्धं भवति। शेल् मध्ये यथा स्क्रिप्ट् अस्ति तथा।
01:24 लोकल् वेरियेबल्स् इत्येतत् निर्बन्धितरूपेण सीमितप्रदेशे उपलब्धं भवति।
01:31 एतानि शेल् द्वारा निर्मितेषु सब्शेल् मध्ये उपलब्धं न भवति।
01:36 वयम् अस्मिन् पाठे मुख्यतया एन्विरोन्मेंट् वेरियेबल् विषये चर्चयन्तः स्मः इत्यतः प्राथम्येन वयं शेल् वेरियेबल् इत्येतेषां व्याल्यू कथं दृष्टव्यमिति जानीयाम।
01:48 प्रस्तुते शेल् मध्ये सर्वाणि वेरियेबल् दृष्टुं वयं कमांड् सेट् चालयामः।
01:53 टर्मिनल् मध्ये एवं टङ्कयन्तु,

"set space 'vertical-bar' more" अपि च enter नुदन्तु।

02:00 वयं सर्वाणि प्रस्तुतानि शेल् वेरियेबल्स् दृष्टुं शक्नुमः।
02:04 उदाहरणार्थम्: HOME एन्विरोन्मेंट् वेरियेबल् पश्यन्तु अपि च तस्मै नियुक्तं व्यल्यू अपि पश्यन्तु।
02:15 सूचीं प्रति गन्तुं Enter नुदन्तु, ततः बहिरागन्तुं q इति नुदन्तु।
02:21 अत्र, वेरियेबल् इत्यस्य सूचिः सुनियोजितरूपेण मल्टिपेज् औट्पुट् रूपेण च दृष्टुं set मध्ये स्थितं औट्पुट् इत्येतं more कृते रिडैरेक्ट् कृतं वर्तते।
02:38 केवलं एन्विरोन्मेंट् वेरियेबल् दृष्टुं env इत्यादेशं चालयन्तु।
02:45 टर्मिनल् मध्ये एवं टङ्कयन्तु,

"env space 'vertical-bar' more" अपि च enter नुदन्तु।

02:52 उदाहरणार्थम्,

slash bin slash bash इति व्याल्यूयुतं शेल् वेरियेबल् पश्यन्तु।

03:00 पुनः सूचीतः बहिरागन्तुं q इति नुदन्तु।
03:07 अधुना वयं लिनक्स् मध्ये विद्यमानानि कतिचन मुख्यानि एन्विरोन्मेंट् वेरियेबल् विषये चर्चां कुर्मः।
03:11 वयमत्र अस्मदीयप्रदर्शनार्थं bash shell उपयुञ्ज्महे।
03:15 विविधानि शेल्स् विभिन्नशैलीषु कस्टमैस् भवति।
03:19 वास्तविकतया वेरियेबल् इत्येतानि किं सङ्गृह्णन्ति इति दृष्टुं वयं echo आदेशेन समं निर्दिष्टस्य वेरियेबल् नाम्नः पृष्टतः डालर् चिह्नमुपयोक्तव्यम्।
03:30 वयं प्रथमतया शेल् इति एन्विरोन्मेंट् वेरियेबल् पश्यामः।
03:35 एतत् प्रस्तुतस्य शेल् इत्यस्य नाम सङ्गृह्णाति।
03:37 शेल् वेरियेबल् इत्यस्य व्याल्यू दृष्टुं टर्मिनल् मध्ये,

"echo space dollar, S-H-E-L-L" इति च बृहदक्षरैः टङ्कयित्वा enter नुदन्तु।

03:55 अत्र slash bin slash bash इत्येतत् शेल् अस्ति यत्र वयं कार्यं कुर्वन्तः स्मः।
04:02 अग्रिमं वेरियेबल् HOME अस्ति।
04:05 यदा वयं लिनक्स् मध्ये लागिन् भवामः तदा तत् अस्मान् सामान्यतया अस्मदुपयोक्तृनामयुक्तसन्धारिकां प्रति नयति।
04:11 एतस्याः सन्धारिकायाः home directory इति नाम अपि च एषा एव होम् वेरियेबल् मध्ये प्राप्यते।
04:17 व्याल्यू दृष्टुं, टर्मिनल् मध्ये echo space dollar अपि च H-O-M-E इति बृहदक्षरैः टङ्कयित्वा एंटर् नुदन्तु।
04:29 PATH इति अग्रिमं एन्विरोन्मेंट् वेरियेबल् अस्ति।
04:32 PATH वेरियेबल् इत्यत्र सन्धारिकायाः निखरपथं अस्ति अपि च एतस्मात् शेल् इति एक्सिक्यूटेबल् अदेशान् अन्विशति।
04:40 अधुना पाथ वेरियेबल् इत्यस्य व्याल्यू पश्यामः।
04:43 पुनः टर्मिनल् मध्ये "echo space dollar इति अपि च बृहदक्षरैः P-A-T-H" इति टङ्कयित्वा Enter नुदन्तु।
04:51 मम सङ्गणके तत् दृश्यते -

slash user slash local slash sbin slash user slash local slash bin slash user slash sbin slash user slash bin etc.

05:04 एतत् एकस्मात् सङ्गणकात् अपरसङ्गनकं प्रति भिन्नं भवति।
05:07 एषा काचित् सन्धारिकानां सूची अस्ति अपि च एषा कोलन् द्वारा विभक्तमस्ति। अतः शेल् इति अस्यां सूच्यां विद्यमानान् एक्सिक्यूटेबल् आदेशान् अन्विषति।
05:18 वयमपि अस्मदीयसन्धारिकाम् अस्यां सूच्यां योजयितुं शक्नुमः। एतेन अस्माकं सन्धारिका अपि शेल् द्वारा अन्वेश्यते।
05:25 एवं अस्मदीयसन्धारिकां सूच्यां मेलयितुं टर्मिनल् मध्ये
05:29 "P-A-T-H इति बृहदक्षरैः विलिख्य = (equal-to) $ (dollar) अपि च बृहदक्षरैः P-A-T-H : (colon) / (slash) home / (slash) अपि च अस्माकं सन्धारिकायाः नाम टङ्कयन्तु।
05:54 अधुना वयं यदि PATH इत्यस्य व्याल्यू एकं कुर्मः चेत्,
06:04 अस्माकं सन्धारिका अपि PATH वेरियेबल् इत्यस्य अङ्गमस्ति।
06:10 पश्यन्तु, सन्धारिका अत्र अस्ति।
06:16 अपरं विशिष्टं वेरियेबल् इत्युक्ते LOGNAME.
06:20 एतत् क्रियाशीलोपयोक्तॄणां नामानि सङ्गृह्णाति।
06:24 एतत् व्याल्यू दृष्टुं "echo space dollar LOGNAME" इति टङ्कयित्वा Enter नुदन्तु।
06:35 यदा वयं टर्मिनल् उद्घातयामः तदा एकं डालर् चिह्नं पश्यामः। तदेव प्राम्प्ट् अस्ति। तत्रैव वयं आदेशान् लिखामः।
06:42 एतत् प्रधानं प्राम्प्ट् स्ट्रिंग् अस्ति यत् च PS1 इति एन्विरोन्मेंट् वेरियेबल् इत्येतत् प्रतिनिधीकरोति।
06:47 अत्र अप्रधानं प्रोम्प्ट् स्ट्रिंग् अपि अस्ति।
06:50 अस्माकम् आदेशः यदि बृहन् अस्ति अपि च तस्य दैर्घ्यं पङ्क्तिमेकाम् अतिरिच्य अस्ति तर्हि सः द्वितीयपङ्क्तौ ग्रेटर् देन् चिह्नेन आरभ्यते।
07:00 एतत् सेकेंडरि प्रोम्प्ट् चिह्नम् अस्ति यच्च PS2 इति एन्विर्न्मेंट् वेरियेबल् इत्येतत् प्रतिनिधीकरोति।
07:05 सेकेंडरि कमांड् प्रोम्प्ट् इत्यस्य मौल्यं दृष्टुं टर्मिनल् मध्ये "echo space dollar PS2 इति टङ्कयित्वा enter नुदन्तु।
07:20 वयं प्राथमिकं प्रोम्प्ट्-चिह्नं परिवर्तयितुं शक्नुमः। अधुना “at the rate” <@> इत्येतत् प्रोम्प्ट्-रूपेण यदि स्थापयितुमिच्छामः तर्हि,
07:28 "PS1 'equal-to' अपि च कोट् इत्यन्तरे 'at the rate' इति टङ्कयित्वा Enter नुदन्तु।
07:41 अधुना डालर्-चिह्नं परिवर्त्य एट् द रेट् चिह्नं प्रोम्प्ट् रूपेण दृश्यते।
07:50 वयम् इतोपि विशिष्टं कर्तुं शक्नुमः। अर्थात्, वयं अस्माकं उपयोकृनाम प्रोम्प्ट् रूपेण दर्शयितुं शक्नुमः।
07:56 "PS1 'equal-to' कोट् इत्यस्यान्तरे dollar LOGNAME " इति बृहदक्षरैः टङ्कयित्वा Enter नुदन्तु।
08:12 अधुना मम उपयोक्तृनाम एव प्रोम्प्ट् रूपेण दृश्यते।
08:16 पूर्ववत् कर्तुं, "PS1 'equal-to' कोट् इत्यस्यान्तरे dollar इति टङ्कयित्वा Enter नुदन्तु।
08:28 वयं बहूनि एन्विरोन्मेम्ट् वेरियेबल् कृते मौल्यं निर्धारितवन्तः।
08:32 परं, स्मर्यताम्, एतानि परिवर्तनानि केवलं प्रस्तुतकालांशस्य कृते एव सीमितं वर्तते।
08:37 उदाहरणार्थम्, वयम् अधुना एव PATH इतीदं वेरियेबल् अस्माकं सन्धारिकायां योजितवन्तः।
08:40 यदि वयं एतत् टर्मिनल् पिधाय पुनः नूतनं टर्मिनल् उद्घाट्य पाथ् वेरियेबल, एको कृत्वा परिशीलयामः तर्हि,
09:00 वयं चकिताः भवामः, यतोहि पूर्वतनपरिवर्तनानि अधुना न दृश्यन्ते।
09:05 एतानि परिवर्तनानि शाश्वतरूपेण कथं करणीयम् इति अग्रिमेषु पाठेषु वयं ज्ञास्यामः।
09:13 वयं इतः प्राक् एक्सिक्यूट् कृतं आदेशं यदि पुनः एक्सिक्यूट् कर्तुमिच्छामः तर्हि कथं कुर्मः? किम् अस्माभिः सः पुनः टङ्कनीयः?
09:22 नैव, एतन्निमित्तं बहवः परिहाराः सन्ति।
09:26 प्रथमतया, यदि भवन्तः अप् एरो कीलं नुदन्ति तर्हि अस्माभिः टङ्कितः अन्तिमादेशः दृश्यते।
09:33 यदि वयं तत्कीलं नुत्वा गृह्णीमः तर्हि तत् पूर्वं टङ्कितान् सर्वान् अपि आदेशान् दर्शयति।
09:37 प्राग्-गन्तुं डौन्-कीलं नुदन्तु।
09:42 परं, यदा भवन्तः सर्वान् आदेशान् एकत्र एव पश्यन्ति तदा सर्वे सम्मर्दयुताः दृश्यन्ते। अतः हिस्टोरि इति आदेशस्य उपयोगः अनुकूलकरः।
09:52 प्रोम्प्ट् मध्ये "history" इति टङ्कयन्तु।
09:58 अपि च Enter नुदन्तु। पश्यन्तु, प्रयुक्ताः सर्वेऽपि आदेशाः अत्र दृश्यन्ते।
10:04 यदि भवन्तः दीर्घसूच्यपेक्षया केवलम् अन्तिमान् दश आदेशान् दृष्टुं इच्छन्ति तर्हि,
10:08 "history space 10" इति टङ्कयित्वा Enter नुदन्तु।
10:20 अत्रावधीयताम्, यत् अस्यां सूच्यां प्रत्येकमपि आदेशः क्रमसङ्ख्यायुतः अस्ति।
10:27 यदि किञ्चन निर्दिष्टं आदेशं पुनावर्तयितुमिच्छन्ति तर्हि,
10:32 आश्चर्यसूचकचिह्नेन समम् आदेशस्य क्रमसङ्ख्यां टङ्कयन्तु। अत्र सा 442, एतेन echo space dollar path इति एक्सिक्यूट् भवति।
10:51 भवन्तः यदि अन्तिमादेशं पुनः एक्सिक्यूट् कर्तुमिच्छन्ति तर्हि आश्चर्यसूचकचिह्नं वारद्वयं टङ्कयित्वा Enter नुदन्तु।
11:03 अधुना वयं tilde इति पर्यायं पश्यामः।

tilde(~) इति अक्षरं गृहसन्धारिकां गन्तु विद्यमानः लघुमार्गः अस्ति।

11:12 चिन्तयन्तु यत् भवतां गृहसन्धारिकायां testtree इति नाम्ना किञ्चन सन्धारिका अस्ति। यदि तत्र गन्तव्यं तर्हि "cd space 'tilde' slash testtree" इति टङ्कयन्तु, अलम्।
11:25 एवं वयं प्रस्तुत-प्राक्तनसन्धारिकयोः मध्ये सञ्चरणाय एषः आदेशः साहाय्यं करोति, cd 'tilde' minus अथवा केवलम् cd minus
11:35 उदाहरणार्थम्, वयमधुना testtree इति सन्धारिकायां स्मः। इतः प्राक् वयं home सन्धारिकायाम् आस्म।
11:41 तर्हि, अधुना वयं "cd space minus" इति यदि टङ्कयित्वा enter नुदामः तर्हि home सन्धारिकां गच्छामः।
11:47 पुनः यदि इमम् आदेशं चालयन्ति तर्हि भवन्तः पुनः testtree सन्धारिकां प्रत्यागच्छन्ति।
11:55 alias इति अन्तिमः, महत्वपूर्णः च आदेशः अस्ति।
11:59 कदाचित् भवतां समीपे दीर्घादेशाः भवन्ति ये च वारं वारं चालनीयाः भवन्ति।
12:04 एतादृशसन्धर्भेषु वयं तस्मै आदेशाय किञ्चन लघु नाम दत्वा दीर्घादेशस्य स्थाने एतत् लघुनाम उपयोक्तुं शक्यते।
12:11 अस्माभिः उपयुज्यमानायाः music इति सन्धारिकायाः श्रेणी दीर्घा अस्ति इति चिन्तयामः। तर्हि भवन्तः अस्यै किञ्चन लघुनाम दातुं शक्नुवन्ति।
12:20 " alias space cdMusic 'equal-to' डबल् कोट् मध्ये cd space slash home slash arc slash files slash entertainment slash music " इति टङ्कयित्वा enter नुदन्तु।
12:47 अधुना भवन्तः यदि इमां सन्धारिकां गन्तुमिच्छन्ति तर्हि केवलं cdMusic इति टङ्कयित्वा enter नुदन्ति चेत् अलम्।
12:55 पश्यन्तु, वयमधुना music सन्धारिकायां स्मः।
12:58 वयमधुना, इतः प्राक्तनां सन्धारिकां गन्तुं प्रोम्प्ट् मध्ये "cd space minus" इति टङ्कयितुं शक्नुमः।
13:08 लघुनाम निष्कासयितुं unalias space cdMusic इति टङ्कयित्वा enter नुदन्तु।
13:20 अधुना पुनः cdMusic इति आदेशं चालयन्तु। भवन्तः command was not found इति दोषं पश्यन्ति।
13:30 चिन्तयन्तु यत्, अस्माकं working सन्धारिकायां test1 अपि च test2 इति सन्धारिकाद्वयम् अस्ति इति।
13:38 अपि च वयं यदि rm test1, इति आदेशं चालयामः तर्हि test1 इति नष्टं भवति।
13:45 यथा वयं जानीमः यत्, rm आदेशस्य “hyphen i” इति विकल्पः परस्परनाशनप्रक्रियां करोति इति।
13:52 अतः वयं alias इतीदं alias rm equal-to, कोट् इत्यस्यान्तरे “rm space hyphen i” इति व्यवस्थापयितुं शक्नुमः।
14:03 अधुना वयं यदा “rm” इत्यादेशं चालयामः तदा यथार्थतया rm hyphen I इति चलनीयम्।
14:13 अतः यदा test1 इति नष्टं भवति तदा सिस्टम् इति test2 इत्यस्य नाशनात् प्राक् पृच्छति।
14:20 एवं च भवन्तः अस्मिन् पाठे अन्विरोन्मेंट् वेरियेबल् विषये, हिस्टोरि तथा च अलियास् इत्येतेषां च विषये ज्ञातवन्तः स्मः।
14:25 अत्र असौ पाठ समाप्यते।
14:28 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
14:36 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
14:39 अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal