C-and-Cpp/C2/Tokens/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:20, 15 January 2015 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
C अपि च C++ मध्ये टोकन्स् विषयकेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
अस्मिन् पाठे वयं, टोकन् इत्येतेषां विवरणं तेषाम् उपयोगः च कथं इति ज्ञास्यामः।
इदं वयं किञ्चन उदाहरणसहितं ज्ञास्यामः।
कतिचन दोषाः तेषां निवारणविधानं च पश्यामः।
पाठस्यास्य रचनासमये अहं उबंटु 11.10 इति आपरेटिंग् सिस्टम् मध्ये gcc अपि च g++ कंपैलर् 4.6.1 इत्यस्य उपयोगं कृतवान् अस्मि।
पाठमिमं प्रास्ताविकेन आरभामहे।
टोकन् इतीदं Data types, Variables, Constants अपि च Identifiers इत्येतेषां कृते उपयुज्यमानं सामान्यं पदम्।
अस्माकं प्रोग्राम् इत्यनेन आरभामहे।
अहम् एतावता एव सम्पादके (Editor) कोड् टङ्कितवान् अस्मि।
तत् उद्घाटयामि।
अस्माकं सञ्चिकायाः नाम Tokens डाट् c.
अस्मिन् प्रोग्राम् मध्ये वेरियेबल् कृते आरम्भिकमौल्यं दत्वा तत्मौल्यं प्रिंट् कर्तुं शक्नुमः।
अधुना, इदं कोड् विवृणोमि।
एषा अस्माकं हेडर् सञ्चिका।
एतत् अस्माकं मैन् फंक्षन्।
अत्र, int (इंट्) इति कीवर्ड अस्ति।
कीवर्ड इत्येतेषाम् अर्थं कंपैलर् जानाति।
a इति इंटिजर् वेरियेबल्।
वयम् अस्य कृते द्वे इति मौल्यं दत्तवन्तः स्मः।
अस्मै इनिशियलैजेशन् (initialization) इति वदामः।
यदि मौल्यं न ददाति तर्हि तस्य कृते डिक्लेरेशन् (declaration) इति वदामः।
अत्र, b इति कान्स्टण्ट (constant) अस्ति।
वयं b इत्यस्य कृते चत्वारि इति मौल्यं दत्वा इनिशियलैज् (initialize) कृतवन्तः स्मः।
रीड् ओन्लि वेरियेबल् इति आरचयितुं कान्स्ट् (const) इति कीवर्ड् उपयुञ्ज्महे।
कीवर्ड् अपि च कान्स्टण्ट् इत्यनयोः विषये इतोऽप्यधिकं ज्ञातुम् अस्माकं स्लैड् प्रति गच्छामः।
कीवर्ड् कृते ये अर्थाः सन्ति ते परिवर्तयितुं न शक्यन्ते।
कीवर्ड् इत्येतानि वेरियेबल्-नाम इव उपयोक्तुं न शक्यन्ते।
C मध्ये द्वात्रिंशत् कीवर्ड सन्ति।
तेषु कतिचन, auto, break, case, क्यार्(char), ईनम्(enum), एक्स्टर्न्(extern)
कान्स्टंट् : एतानि स्थिरमौल्यानि।
यदा प्रोग्राम् एक्सिक्यूट् भवति तदा एतानि न परिवर्त्यन्ते।
कान्स्टंट् मध्ये विधद्वयं, न्यूमरिक् (Numeric) constants अपि च क्यारक्टर् (Character) constants इति।
अधुना अस्माकं प्रोग्राम् प्रति गच्छामः।
अत्र C इत्यस्य दत्तांशप्रकारः (डाटाटैप्) फ्लोट् अस्ति।
वयं अस्मै 1.5 इति मौल्यं दत्तवन्तः स्मः।
डटाटैप् इति कैश्चित् नियमैः संहतं किञ्चन सीमितं सेट् अस्ति।
अत्र d इति किञ्चन वेरियेबल् अस्ति।
क्यार् (char) अपि च सिंगल् कोट् इत्येतयोः यदि उपयोगं कुर्मः तर्हि character इत्यस्य उपयोगं कुर्वन्तः स्मः इत्यर्थः।
अतः, d इति किञ्चन क्यारक्तर् वेरियेबल् अस्ति यस्मिन् ‘A’ वर्तते।
एतेन, int, double, float अपि च char इत्येतानि दत्तांशप्रकाराः इति ज्ञायन्ते।
a, c अपि च d इत्येतानि वेरियेबल्स् सन्ति।
अधुना अस्माकं स्लैड् प्रति गच्छामः।
दत्तांशप्रकारः (डाटाटैप्) अपि च वेरियेबल् इत्येतयोः विषये इतोऽप्यधिकं ज्ञास्यामः।
दतांशप्रकारः (डाटाटैप्) : इंटिजर् दत्तांशप्रकारात् आरभामहै।
इदं int रूपेण डिक्लेर् भवति।
इंटिजर् डाटाटप् इत्यस्य मुद्रणार्थम् अस्माभिः पर्संट् d (%d) इति फार्म्यट् स्पेसिफ़ैयर् उपयोक्तव्यम्।
एवमेव, फ्लोट् अपि च %f इति floating pointnumber इत्येतेषां कृते उपयुज्यते।
character दत्तांशप्रकारेभ्यः क्यार् (char) अपि च %c इत्यस्य उपयोगं कुर्मः।
अपि च डबल्-दत्तांशप्रकारेभ्यः डबल् अपि च %lf इति फार्म्याट् स्पेसिफैयर् उपयुञ्ज्महे।
वयमधुना दत्तांशप्रकाराणां व्याप्तिं (रेंज्) पश्यामः।
एषा इंटिजर् दत्तांशप्रकारस्य व्याप्तिः।
एषा फ्लोटिंग् पायिंट् इत्यस्य व्याप्तिः।
एषा क्यारेक्टर् इत्यस्य व्याप्तिः।
अपि च एषा डबल् इत्यस्य व्याप्ति।
वेरियेबल् कृते यत् मौल्यं दत्तमस्ति तत् अस्याः व्याप्तेः अपेक्षया अधिकं न्यूनं वा न भवेत्।
अधुना वेरियेबल् विषये इतोऽप्यधिकं ज्ञास्यामः।
वेरियेबल् इति किञ्चन दत्तांशनाम (डाटानेम्) अस्ति।
इदं दत्तांशमौल्यसङ्ग्रहणाय उपय्क्तुं शक्यते।
प्रोग्राम् यदा चाल्यते तदा तदा एतस्य मौल्यं परिवर्तयितुं शक्यते।
वेरियेबल् इत्यस्य उपयोगात् प्राक् तत् डिक्लेर् करणीयम्।
वेरियेबल् कृते अर्थपूर्णानि नामानि दातव्यम्।
उदाहरणार्थम्, जान, मार्क्स्, सम् इत्यादीनि।
अधुना अस्माकं प्रोग्राम् प्रति गच्छामः।
अत्र, प्रिंट् एफ् (printf) इति नियोगस्य (फंक्षन्) ऐडेंटिफ़ैयर् इत्यस्य नाम अस्ति।
अस्माकं स्लैड् प्रति गच्छामः।
अधुना ऐडेंटिफ़ैयर् विषये ज्ञास्यामः।
ऐडेंटिफ़ैयर् इत्येतानि उपयोक्त्रा निर्धारितानि नामानि सन्ति।
ऐडेंटिफ़ैयर् मध्ये वर्णाः सङ्ख्याः वा भवितुमर्हन्ति।
बृहदक्षराणि लघ्वक्षराणि वा उपयुक्तं भवेत्।
प्रथमाक्षरं वर्णः अथवा अंडर्स्कोर् भवेत्।
अधुना अस्माकं प्रोग्रम् प्रति गच्छामः।
अत्र वयं वेरियेबल् अपि च कान्स्टंट् इत्येते इनिशियलैस् कृतवन्तः स्मः।
अत्र वयं तानि प्रिंट् कुर्मः।
अपि च एतत् अस्माकं रिटर्न् स्टेट्मेंट्।
अधुना save नुदन्तु।
अधुना प्रोग्राम् इतीदं एक्सिक्यूट् कुर्मः।
भवतां कीलफलके Ctrl, Alt अपि च T कीलानि एकधा एव नुत्वा टर्मिनल् विंडो उद्घाटयन्तु।
कंपैल् कर्तुं, “gcc” स्पेस् tokens डाट् c स्पेस् हैफन् (-) ओ (O) स्पेस् “tok” इति टङ्कयित्वा Enter नुदन्तु।
एक्सिक्यूट् कर्तुं डाट् स्ल्याश् “tok” इति टङ्कयन्तु।
फलितं दृश्यते।
अत्र, दशमांशबिन्दोः अनन्तरं षड्मौल्यानि सन्ति।
अपि च अत्र मौल्यद्वयमस्ति।
अधुना, अस्य कारणम् अन्विषामः। अस्माकं प्रोग्राम् प्रति गच्छामः।
यतोहि अत्र पर्सेंट् पायिंट 2f इति अस्ति।
वयं दशमांशबिन्दोः अनन्तरं सङ्ख्याद्वयमेव प्रिंट् कर्तुं शक्नुमः।
यदि अत्र मह्यं फलितं सङ्ख्यात्रयात्मकं भवेत् तर्हि,
 % point 2f इत्येत् % point 3f इति परिवर्तनीयम्।
Save नुदन्तु।
टर्मिनल् प्रति गच्छन्तु।
पूर्ववत् कंपैल् कृत्वा एक्सिक्यूट् कुर्वन्तु।
अत्र दशमांशबिन्दोः अनन्तरं सङ्ख्यात्रयं दृष्टुं शक्नुमः।
अधुना प्रोग्राम् इतीदं c++ मध्ये एक्सिक्यूट् कुर्मः।
प्रोग्राम् प्रति गच्छन्तु।
अहमत्र किञ्चित् परिवर्तनं करोमि।
प्रथमं भवतां कीलफलके shift, ctrl अपि च s कीलानि एकधा एव नुदन्तु।
अधुना सञ्चिकां डाट् सि पि पि (.cpp) इति एक्स्टेन्शन् इत्यनेन सह रक्षन्तु।
हेडर् सञ्चिकां ऐ ओ स्ट्रीम् (iostream) इति परिवर्तयामः।
using स्टेट्मेंट् योजयन्तु।
अपि च रक्षन्तु।
C++ मध्ये, पङ्क्तिं मुद्रापयितुं cout फंक्षन् इत्यस्य उपयोगः भवति इत्यतः अत्र, printf स्टेट्मेंट् इत्यस्य स्थाने cout स्टेट्मेंट् लिखन्तु।
Search for and replacetext इति विकल्पस्योपरि नुदन्तु।
अत्र, printf ओपनिंग् ब्रैकेट् इति टङ्कयन्तु।
अपि च, कालम् मध्ये cout अपि च द्वे ओपनिंग् आंगल् ब्रैकेट् इत्येते टङ्कयन्तु।
अधुना, Replace All पिञ्जं नुत्वा अनन्तरं क्लोस् इत्यत्र नुदन्तु।
अस्मभ्यं format specifier अपि च स्ल्याश् n इत्येतयोः आवश्यकता नास्ति।
ते निष्कासयामः।
अधुना, comma इत्यस्यापेक्षया, द्वे ओपनिंग् ब्रैकेट् टङ्कयन्तु।
Save नुदन्तु। क्लोसिंग् ब्रैकट् निष्कायन्तु।
अनन्तरं, द्वे ओपनिंग् आंगल् ब्रैकेट् टङ्कयन्तु।
अपि च डबल् कोट्स् इत्यस्यान्तः स्ल्याश् एन् इति टङ्कयन्तु।
अधुना Save नुदन्तु।
प्रोग्राम् एक्सिक्यूट् कुर्मः। टर्मिनल् प्रति गच्छामः।
कंप्लैल् कर्तुं g++ स्पेस् tokens डाट् cpp स्पेस् हैफन् ओ स्पेस् टि ओ के वन् इति टङ्कयन्तु।
अत्र, tokens.c इति सञ्चिकायाः output parametertok इति सञ्चिका ओवर् रैट् न भवतु इति धिया tok1 इति टङ्कितवन्तः स्मः।
अधुना Enter नुदन्तु।
एक्सिक्यूट् कर्तुं डाट् स्ल्याश् tok1 इति टङ्कयन्तु।
फलितं दृश्यते।
अधुना वयं कतीनाञ्चन दोषानां विषये पश्यामः।
अस्माकं प्रोग्राम् प्रति गच्छामः।
अत्र, b इत्यस्य कृते पुनः अष्ट इति मौल्यं ददामि।
Save नुदन्तु। अधुना किं भवति इति पश्यामः।
टर्मिनल् प्रति गच्छामः।
प्राम्प्ट् इति रिक्तं करोमि।
पूर्ववत् कंपैल् कुर्वन्तु।
अत्र tokens.cpp इति सञ्चिकायां सप्तमपङ्क्त्यां दोषः दृष्टुं शक्यः।
Assignment of read only variable b.
अस्माकं प्रोग्राम् प्रति गच्छामः।
यतोहि, b कान्स्टंट वर्तते। कान्स्टंट् इत्येतानि स्थिरमौल्यानि सन्ति।
यदा प्रोग्राम् एक्सिक्यूट् भावन्ति तदा तानि न परिवर्तन्ते।
अतः दोषः दृश्यते। दोषमिमं परिहरामः।
एतत् नाशयित्वा Save नुदन्तु।
पुनः एक्सिक्यूट् कुर्मः। टर्मिनल् प्रति गच्छामः।
पूर्ववत् कम्पैल् कुर्वन्तु।
पूर्ववत् एक्सिक्यूट् कुर्वन्तु। पश्यन्तु, अधुना कार्यं करोति।
अधुना वयम् अपरं सामान्यदोषं पश्यामः।
प्रोग्राम् प्रति गच्छामः।
अत्र सिंगल् कोट् इति त्यजामि इति चिन्तयन्तु। Save नुदन्तु।
एक्सिक्यूट् कुर्मः। टर्मिनल् प्रति गच्छामः।
पूर्ववत् कम्पैल् कुर्मः।
अस्माकं tokens डाट् cpp इति सञ्चिकायां नवमपङ्क्तौ दोषः दृश्यते।
A was not declared in the scope. अस्माकं प्रोग्राम् प्रति गच्छामः।
यतो हि, सिंगल् कोट् इत्यस्यान्तरे विद्यमानं यत्किञ्चिदपि वर्णः इति परिगण्यते।
अपि च अत्र वयं d इत्येतत् character वेरियेबल् इव ड्क्लेर् कृतवन्तः स्मः।
अधुना दोषमिमं परिहरामः। अत्र सिंगल् कोट् टङ्कयन्तु।
Save नुदन्तु। एक्सिक्यूट् कुर्वन्तु।
टर्मिनल् प्रति गच्छामः।
पूर्ववत् कम्पैल् कुर्मः।
पूर्वावत् एक्सिक्यूट् कुर्मः। पश्यन्तु, एतत् कार्यं करोति।
अधुना स्लैड् प्रति गच्छामः।
पाठस्यास्य सारांशः -
अस्मिन् पाठे वयं -
डाटा टैप् – उदाहरणार्थम्, int, double, float इत्यादीनि।
वेरियेबल् – उदाहरणार्थम्, int=2; इत्यादीनि।
ऐडेंटिफैयर् – उदाहरणार्थम्, printf अपि च
कान्स्टंट् – उदाहरणार्थम्, double const b=4; इत्यादिविषयान् ज्ञातवन्तः।
अभ्यासार्थम्, simple interest प्राप्तुं किञ्चन प्रोग्राम् लिखन्तु।
सङ्केतः : principal * rate * time अपान् (upon) 100
स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु।
यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु
अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal