LibreOffice-Suite-Impress/C3/Slide-Master-Slide-Design/Sanskrit
From Script | Spoken-Tutorial
Revision as of 17:17, 15 January 2015 by Vasudeva ahitanal (Talk | contribs)
Resources for recording Printing a Presentation
Time | Narration |
लिब्रे आफ़ीस् इम्प्रेस् इत्यस्य एतत् स्पोकन् ट्युटोरियल् कृते भवद्भ्यः स्वागतम् । | |
00.08 | अस्मिन् ट्युटोरियल् मध्ये वयम् एकस्याम् अवसर्पिण्यां (Slide) पृष्ठदेशः (Background) तथा लेऔट् च कथं योजनीयम् इति अध्येष्यामः । |
वयम् अत्र उबण्टु लिनक्स् 10.04 तथा लिब्रे आफ़ीस् सूट् 3.3.4 इत्येतस्य उपयोगं कुर्मः । | |
पृष्ठदेशः नाम एकस्यामवसर्पिण्यां स्थापिताः सर्वे वर्णाः विशेषप्रभावकाश्च, ये कण्टेण्ट् इत्यस्य पृष्ठतः भवन्ति । | |
लिब्रे आफ़ीस् इम्प्रेस् मध्ये अनेके पृष्ठदेशविकल्पाः सन्ति । एते उत्तमां प्रस्तुतिं (Presentation) सज्जीकर्तुं साहाय्यं कुर्वन्ति। | |
भवन्तः अत्र भवदीयमेव पृष्ठदेशं रचयितुमर्हन्ति । | |
अधुना वयं Sample-Impress.odp. इत्येतां प्रस्तुतिम् उद्घाटयामः । | |
अस्यां प्रस्तुत्यां वयम् अस्माकमेव पृष्ठदेशं रचयामः । | |
अपि च अस्यां प्रस्तुत्यां सर्वासु अवसर्पिणीष्वपि एतं पृष्ठदेशं योजयामः । | |
एतं पृष्ठदेशं रचयितुं वयं Slide Master इत्येतस्य विकल्पस्य उपयोगं कुर्मः । | |
Master इत्येतस्याम् अवसर्पिण्यां कृताः सर्वे व्यत्ययाः अस्याः प्रस्तुत्याः सर्वासु अवसर्पिणीषु भवन्ति । | |
मुख्य“मेनु”मध्ये View इत्यत्र नुत्वा तत्र Master इत्येतत् स्वीकृत्य तत्र Slide Master इत्यस्य उपरि नुदन्तु । | |
Master Slide दृश्यते । | |
अत्र अवधेयम्, Master View इति ‘टूल् बार्’ अपि दृश्यते । इदं भवद्भिः “मास्टर् पेज्” रचयितुम्, निष्कासयितुम्, पुनः नामकर्तुं च उपयोक्तुं शक्यते । | |
दृश्यताम्, अधुना द्वे स्लैड् दृश्येते । | |
एते द्वे अस्यां प्रस्तुत्याम् उपयुक्ते मास्टर् पेज् स्तः । | |
Tasks पट्टिकायां Master Pages इत्येतस्य उपरि नुदन्तु । | |
Used in This Presentation इत्येषः प्रविभागः अस्यां प्रस्तुत्याम् उपयुक्तानि Master Slides प्रदर्शयति । | |
Master slide इत्येतत् टेम्प्लेट् सदृशम् । | |
अत्र भवद्भिः प्रारूपाणि योजयितुं शक्यन्ते । तेन प्रस्तुत्याः सर्वासु अवसर्पिणीषु तत् प्रारूपं लग्नं भवति । | |
आदौ, Slides पट्टिकातः, Slide 1 इत्येतत् चिनुमः। | |
अधुना अस्यै प्रस्तुत्यै श्वेतं पृष्टदेशं योजयामः । | |
मुख्य‘मेनु’मध्ये Format इत्यत्र अपि च पश्चात् Page इत्यत्र नुदन्तु । | |
Page Setup इति संवादपेटिका दृश्यते । | |
Background इत्येतस्य उपरि नुदन्तु । | |
Fill इति पतत्सूच्यां Bitmap इतीमं विकल्पं चिन्वन्तु । | |
विकल्पानां पट्टिकातः Blank इत्येतत् चित्वा OK इत्येतत् नुदन्तु । | |
अधुना अवसर्पिणी श्वेतवर्णीय-पृष्टदेशसहिता वर्तते । | |
अवधीयताम्, अस्य पृष्टदेशस्य उपरि अधुना विद्यमानस्य लेखस्य वर्णः न स्पष्टतया दृश्यते । | |
सर्वदा पृष्टदेशस्य संवादिभूतः वर्णः चेतव्यः । | |
अधुना लेखस्य वर्णं कृष्णं कुर्मः । तदा पृष्टदेशे लेखः सुस्पष्टं दृश्यते । | |
आदौ लेखः चीयताम् । | |
मुख्य‘मेनु’मध्ये Format इत्यस्य उपरि नुत्वा Character इत्येतत् चीयताम् । | |
Character इति संवादपेटिका दृश्यते । | |
Character इति संवादपेटिकायां Font Effects इत्येतस्य उपरि नुदन्तु। | |
Font Color इति पतत्सूचीतः Black इत्येतत् चीयताम् । | |
OK नुदन्तु । | |
लेखः अधुना कृष्णवर्णे वर्तते । | |
अधुना वयम् अवसर्पिण्याः कृते वर्णं लेपयामः । | |
context menu कृते अवसर्पिण्याः उपरि दक्षिणनोदनं कृत्वा तत्र पुनः Slide अपि च Page Setup इत्यस्य उपरि नुदन्तु । | |
Fill इत्यस्य पतत्सूच्यां वर्णविकल्पः चीयताम् । तत्र Blue 8 इत्यस्य चयनं कृत्वा OK नुदन्तु । | |
अवधीयताम्, अस्माभिः चितः लघुनीलवर्णः अवसर्पिण्याम् अन्वितः वर्तते । | |
अधुना एतत् ट्युटोरियल् स्थगयन्तु, तथा एकं नियोजनं कुर्वन्तु । नूतनम् एकं Master Slide निर्माय तत्र पृष्टदेशे रक्तवर्णं लेपयन्तु । | |
अधुना अस्यै प्रस्तुत्यै अन्यानि विन्यासानि कथं योजनीयानि इति अधिगच्छामः । | |
उदाहरणार्थम्, भवद्भिः भवतां प्रस्तुत्यां लोगो (Logo) योजयितुं शक्नुवन्ति । | |
भवतां पटलस्य अधोभागे Basic Shapes इति टूल् बार् पश्यन्तु । | |
भवन्तः इदं; वृत्तम्, समचतुरस्रम्, आयतं, त्रिकोणम् तथा अण्डाकृतीः आरचयितुम् उपयोक्तुं शक्नुवन्ति । | |
वयम् इदानीम् अवसर्पिण्याः शीर्षकस्थाने एकम् आयतं रचयामः । | |
Basic Shapes टूल् बार् मध्ये Rectangle इत्यस्य उपरि नुदन्तु । | |
इदानीं शीर्षकस्य समीपे अवसर्पिण्याः उपरितनभागे वामभागे कर्सर् नयामः । | |
भवन्तः बृहता I इत्याकृतिना सह प्लस् (+) चिन्हमपि पश्यन्ति । | |
मौस् इत्यस्य वामपिञ्जं नुत्वा तथैव गृहीत्वा मौस् इत्येतत् आकृश्य च लघु चतुरस्रं रचयन्तु । | |
अधुना मौस्-पिञ्जं त्यजन्तु । | |
भवन्तः इदानीं चतुरस्रं रचितवन्तः । | |
चतुरस्रस्य उपरि अष्टौ ग्राह्यस्थानानि (Handles) दृश्यन्ताम् । | |
ग्राह्यस्थानानि नाम अवसर्पिण्यां चितानां पदार्थानाम् उपरि दृश्यमानानि लघु-नील-समचतुरस्राणि । | |
वयं एतानि गृह्यस्थानानि आयतस्य परिमाणं योजयितुं उपयोक्तुं शक्नुमः । | |
यदा भवन्तः गृह्यस्थानानाम् उपरि भवतां Cursor नयन्ति तदा Cursor स्वयं द्विमुख-बाणरूपेण परिवर्तते । | |
वयम् एतदनुसारेण आयतस्य परिमाणं व्यत्यस्तीकर्तुं शक्नुमः । | |
अधुना वयम् आयतस्य परिमाणं शीर्षकस्य आवरणार्थं यावदपेक्षितं तावत् कुर्मः । <स्थगयन्तु> | |
अस्माभिः अस्य आकारः अपि परिवर्तयितुं शक्यते । | |
context menu इत्येतत् द्रष्टुम् आयतस्य उपरि दक्षिणनोदनं कुर्वन्तु । | |
अत्र भवद्भिः आयतस्य आकारं परिवर्तयितुं बहवो विकल्पाः द्रष्टुं शक्यन्ते । | |
Area उपरि नुदन्तु । Area इत्येका संवादपेटिका द्रष्टुं शक्यते । | |
Fill इत्यस्यां पतत्सूच्यां Color इत्येतत् चीयताम् । | |
तत्र Magenta 4 इत्येतत् नुत्वा OK कुर्वन्तु । | |
आयतस्य वर्णः परिवर्तितः अस्ति । | |
अपि च आयतेन लेखः आवृतः अस्ति । | |
लेखः यथा दृश्येत तथा कर्तुम् आयतं चिन्वन्तु । | |
इदानीं context menu इत्येतत् उद्घाटयितुं दक्षिणनोदनं कुर्वन्तु । | |
अत्र क्रमशः Arrange तथा Send to back इत्यस्य उपरि नुदन्तु । | |
इदानीं लेखः पुनः दृश्यते । | |
इत्युक्ते, आयतं लेखस्य पृष्ठतः गतमस्ति । | |
Tasks पट्टिकायां, Master Page मध्ये preview इत्यस्य उपरि नुदन्तु । | |
दक्षिणनोदनं कृत्वा Apply to All Slides इत्येतत् चिन्वन्तु । | |
Close Master View पिञ्जं नुत्वा Master View इत्येतत् Close कुर्वन्तु । | |
इदानीं Master Page मध्ये अन्विताः सर्वेऽपि व्यत्यासाः, प्रस्तुत्याः अस्याः सर्वासु अवसर्पिणीषु अन्विताः भवन्ति । | |
अवधीयताम्, आयतमपि सर्वासु अवसर्पिणीषु दृष्यते । | |
इदानीं अवसर्पिण्याः विन्यासं व्यत्यस्तीकर्तुम् अधिगच्छामः । | |
विन्यासो नाम कः? विन्यासो नाम अवसर्पिण्याः आकृतयः । अत्र अवसर्पिण्याः पदार्थानां स्थानानि पूर्वमेव निश्चितानि भवन्ति । | |
अवसर्पिणीविन्यासान् द्रष्टुं दक्षिणपार्श्वस्थ-पट्टिकायां Layouts इत्येतत् नुदन्तु । | |
Impress मध्ये लभ्यमानाः विन्यासाः द्रष्टुं शक्यन्ते । | |
विन्यस्तचित्राणि पश्यन्तु । अनेन विन्यासानाम् अन्वयोत्तरं कथं दृश्यते इति चित्रणं लभ्यते । | |
तत्र अनेके विन्यासाः सन्ति यत्र शीर्षकम्-स्तम्भद्वयम् शीर्षकम्-स्तम्भत्रयम् इत्येवमादीनि रचनानि सन्ति । | |
तत्र रिक्तविन्यासाः अपि सन्ति । भवन्तः रिक्तविन्यासमेव एकस्याम् अवसर्पिण्यां संस्थाप्य पश्चात् स्वकीयमेव विन्यासं कर्तुमर्हन्ति । | |
अधुना एकस्याम् अवसर्पिण्याम् एकं विन्यासं स्थापयामः । | |
Potential Alternatives इतीमाम् अवसर्पिणीं चित्वा तत्र सर्वं लेखं निष्कासयन्तु । | |
इदानीं दक्षिणपार्श्वस्थात् ‘लेऔट् पेन्’ इत्यस्मात् title 2 content over content. इत्येतत् चिन्वन्तु । | |
इदानीम् अवसर्पिण्यां लघुप्रदेशे त्रिस्रः लेखपेटिकाः (टेक्स्ट् बाक्स्) सन्ति । | |
अवधीयताम् यत् अस्माभिः Master page उपयुज्य योजितम् आयतम् इतोऽपि दृश्यते इति । | |
इदम् आयतं Master page उपयुज्य एव सम्पादयितुं शक्यते । | |
Master slide मध्ये कृतं सेट्टिङ्ग्स्, अन्यत्र अवसर्पिणीषु कृतस्य कार्यस्य अथवा विन्यासस्य उपरि भवति । | |
अधुना पेटिकासु ‘कण्टेण्ट्’ पूरयामः । | |
प्रथम-लेखनपेटिकायाम् एवं लिखामः : Strategy 1 PRO: Low cost CON: slow action | |
द्वितीय-लेखनपेटिकायाम् एवं लिखामः : Strategy 2 CON: High cost PRO: Fast Action | |
तृतीय-लेखनपेटिकायाम् एवं लिखामः : Due to lack of funds, Strategy 1 is better. | |
एवमेव भवन्तः भवतां प्रस्तुतेः कृते सूक्तं विन्यासमपि चेतुं शक्नुवन्ति । | |
अत्र असौ पाठः समाप्यते । अत्र अस्माभिः कथम् अवसर्पिणीषु पृष्ठदेशः विन्यासश्च योजनीयः इति अधीतम् । | |
इदानीं भवतां कृते किञ्चित् कार्यम् । | |
नूतनमेकं Master Slide आरचयन्तु । | |
नूतनं पृष्ठदेशं योजयन्तु । | |
title, content over content इति लेऔट् योजयन्तु। | |
यदा Master slide मध्ये विन्यासं योजयन्ति तदा किं भवतीति पश्यन्तु । | |
नूतनाम् अवसर्पिणीं उद्घाट्य रिक्तविन्यासं योजयन्तु । | |
लेखनपेटिकाः उपयुज्य तत्र columns योजयन्तु । | |
इमाः लेखनपेटिकाः Format कुर्वन्तु । | |
लेखनपेटिकासु लेखनं कुर्वन्तु । | |
स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु। | |
यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु। | |
स्पोकन् ट्युटोरियल् प्रकल्पगणः पाठमिममुपयुज्य कार्यशालां चालयति। ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति। | |
अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। | |
स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति। | |
अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु। | |
अस्य पाठस्य अनुवादकः बेंगलूरुतः अनन्तशर्मा प्रवाचकः ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः। |