LibreOffice-Suite-Writer/C4/Headers-Footers-and-notes/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:56, 5 January 2015 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
लिब्रे आफीस रैटर् मध्ये हेडर, फूटर अपि च एंड नोट इत्येतेषां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
अस्मिन् पाठे वयम्,
सञ्चिकायां, हेडर कथं योजनीयम्,
फूटर कथं योजनीयम्,
हेडर इत्येतत् प्रथमपृष्टात् कथं निष्कासनीयम् तथा च
सञ्चिकायां फुट्नोट अपि च एंड नोट इत्येतानि कथं योजनीयानि इत्यादिविषयान् ज्ञास्यामः।
अत्र वयम् उबण्टु लिनक्स 10.04 इत्यस्य अपि च लिब्रे आफीस सूट 3.3.4 इत्यस्य उपयोगं कुर्मः।
लिब्रे आफीस् रैटर् मध्ये वयं सञ्चिकायां प्रतिपुटं सङ्ख्यां योजयितुं शक्नुमः।
वयम् अस्माकम् resume.odt इति सञ्चिकाम् उद्घाटयामः।
फुटर् मध्ये पुटसङ्ख्यां योजयितुं भवदीष्टपुटस्योपरि नोत्तव्यम्।
अतः, वयं सञ्चिकायाः पुटस्योपरि नुदामः।
अधुना मेन्युबार मध्ये Insert इति विकल्पोपरि नुत्वा तत्र Footer इति विकल्पं चिन्वन्तु।
अनन्तरं Default इति विकल्पं नुदन्तु।
अधुना वयं पुटस्याधः फुटर योजितमस्तीति दृष्टुं शक्नुमः।
तत्र पुटसङ्ख्यां योजयितुं प्रथमतया Insert विकल्पं चिनुमः।
अनन्तरं Fields इत्यस्योपरि नुदन्तु।
भवन्तः अत्र बहून् फुटर् विकल्पान् पश्यन्ति।
सञ्चिकायां पुटसङ्ख्यां योजयितुं Page Number इत्यस्योपरि नुदन्तु।
अनुक्षणं वयं फुटर् मध्ये 1 इति दृष्टुं शक्नुमः।
पुटसङ्ख्यां विविधशैल्याम् उपयोक्तुं पुटसङ्ख्यायाः उपरि डबल् क्लिक् कुर्वन्तु।
वयं Edit Fields: Document इति संवादपेटिकां पश्यामः।
Format विकल्पस्याधः A B C इति अप्पर् केस् मध्ये, a b c इति लोवर् केस् मध्ये, Arabic 1 2 3” इत्यादीः बह्वीः शैलीः पश्यामः।
अत्र स्वेच्छानुसारं सङ्ख्याशैलीं चेतुं शक्नुवन्ति।
वयं अत्र Roman i,ii,iii इति विकल्पं चित्वा OK इति पिञ्जस्योपरि नुदामः।
अधुना पश्यन्तु, पुटसङ्ख्यायाः शैली परिवर्तिता अस्ति।
एवमेव, वयं सञ्चिकायां हेडर् योजयितुं शक्नुमः।
प्रथमतया भवन्तः, यत्र हेडर् योजयितुमिच्छन्ति तत्पुटस्योपरि नुदन्तु।
अधुना Insert विकल्पं चित्वा अनन्तरं Header विकल्पं चिन्वन्तु।
तत्र Default विकल्पं चिन्वन्तु।
पुटस्य उपरि हेडर् योजितमस्ति इति भवन्तः दृष्टुं शक्नुवन्ति।
हेडर् मध्ये दिनाङ्कं योजयितुं क्रमशः “Insert” इत्यस्य उपरि अपि च “Fields” इत्यस्य उपरि नुदन्तु।
तत्र दृश्यमाने मेन्युबार-मध्ये “Date” इत्यस्योपरि नुदन्तु।
अधुना दिनाङ्कः हेडर् मध्ये दृश्यते।
तस्योपरि वारद्वयं नोदनेन वयं दिनाङ्क-प्रदर्शनार्थं याः सम्भवनीय-शैल्यः सन्ति ताः शैलीः दृष्टुं शक्नुमः।
अत्र वयं 31 Dec, 1999 इति चित्वा OK नुदामः।
अधुना मेन्युबार मध्ये “File” इत्यस्योपरि नुत्वा तत्र “Page preview” विकल्पस्योपरि नुदामः।
अधुना सञ्चिकां 50 प्रतिशतं यावत् बृहत् कुर्मः।
अधुना पश्यन्तु, पुटस्य उपरि दिनाङ्कः अपि च अधः पुटसङ्ख्या दृश्यते।
एवं एतत् सञ्चिकायाः प्रतिपुटम् अन्वेति।
मूलसञ्चिकां प्रति गन्तुं “Close Preview” इति पिञ्जं नुदन्तु।
वयं हेडर अथवा फुटर मध्ये विद्यमानलेखभागस्य स्पेसिंग् अपि सम्यक् कर्तुं शक्नुमः।
अथवा वयं हेडर् अथवा फुटर् निमित्तं सीमाम् अपि योजयितुं शक्नुमः।
मेन्युबार मध्ये “Format” इति विकल्पस्योपरि नुत्वा अनन्तरं “Page” इत्यत्र नुदन्तु।
संवादपेटिकायां “Footer” इति ट्याब् चिन्वन्तु।
Left margin इत्यस्य मैल्यं 1 सेंटिमीटर कृत्वा स्पेसिंग् व्यवस्थापयन्तु।
फुटर् निमित्तं सीमां छायां वा योजयितुं “More” इति विकल्पस्य उपरि नुत्वा अनन्तरं फुटर् कृते किञ्चन मौल्यं निर्धारयन्तु।
उदाहरणार्थम्, फुटर् कृते छायाशैलीं योजयितुं वयं, “Cast Shadow to Top Right” इति चित्रकस्योपरि नुदामः।
एतत्, Shadow style इति विकल्पस्य Position इति ट्याब् इत्यस्य अधः विद्यमानेषु विविधचित्रकेषु अन्यतमं वर्तते।
भवन्तः अत्र सीमायाः अपि च छायायाः वर्णं चेतुं शक्नुवन्ति।
उपलभ्यमानं प्रत्येकमपि विकल्पं ज्ञातुम् इमां संवादपेटिकाम् अन्विषन्तु।
अधुना “OK” इत्यस्योपरि नुदन्तु।
पुनः OK नुत्वा अधुना पश्यन्तु, फुटर् मध्ये परिणामः दृश्यते।
पुरोगमनात् प्राक् अस्माकं सञ्चिकायाम् अपरमेकं पुटं योजयामः।
योजयितुं, Insert इति अपि च तत्र Manual Break इति नुत्वा तत्र Page break इति विकल्पं चिन्वन्तु।
अनन्तरं “OK” नुदन्तु।
पश्यन्तु, पुटसङ्ख्या 2 इति दृश्यते।
यदि भवन्तः सञ्चिकायाः प्रथमपुटे फुटर् न इच्छन्ति तर्हि कर्सर् इत्येतत् प्रथमपुटे स्थापयन्तु।
तथा च मेन्युबार मध्ये “Format” इत्यत्र नुत्वा अनन्तरम् “Styles and Formatting” इति विकल्पस्योपरि नुदन्तु।
इदानीं दृश्यमानायां संवादपेटिकायां उपरि Page Styles इति नाम्न्याः चतुर्थं चित्रकं नुदन्तु।
अनन्तरं First Page इति विकल्पस्योपरि रैट क्लिक् कुर्वन्तु।
तत्र New इत्यस्योपरि क्लिक् कृत्वा ततः Organiser ट्याब् उपरि नुदन्तु।
Name इत्यत्र स्वेच्छानुसारं शैलीनाम टङ्कयन्तु।
वयमत्र new first page इति टङ्कयामः।
Next Style इति उत्सर्गरूपेण तथैव स्थापयन्तु।
अधुना संवादपेटिकायां Footer ट्याब् इत्यस्योपरि नुदन्तु।
तत्रस्थं Footer on इति चिह्नकं (check box) उत्सर्गरूपेण यदि अन्चेक् नास्ति तर्हि अन्चेक् कुर्वन्तु।
अन्ते च, OK पिञ्जं नुदन्तु।
वयमधुना Styles and Formatting इति संवादपेटिकां प्रति आगतवन्तः स्मः।
पश्यन्तु, पेज स्टैल इति विकल्पस्याधः new first page इति दृश्यते।
अधुना new first page इत्यस्योपरि वारद्वयं नुदन्तु।
अधुना पश्यन्तु, अस्माकं सञ्चिकायां प्रथमपुटं विहाय अन्येषु सर्वेषु अपि पुटेषु फुटर् अस्ति।
एवं भवन्तः उपलभ्यमानाः सर्वाः अपि शैलीः नवीकर्तुं शक्नुवन्ति तथा च तां सञ्चिकायाः प्रतिपुटम् अन्वयितुं शक्नुवन्ति।
अधुना संवादपेटिकामिमं पिदध्मः
अधुना, लिब्रे आफीस् रैटर् मध्ये फुट् नोट् अपि च एंड् नोट् इत्येतेषां विषये ज्ञास्यामः।
फुट्नोट् इति उल्लेखसूचीं पुटस्यान्ते दर्शयति।
एंड्नोट् इति तां सञ्चिकायाः अन्ते दर्शयति।
उल्लेखस्य आधारः यत्र कर्सर अस्ति तत्र योजितं भवति।
भवन्तः आधाराय सङ्ख्यां वा चिह्नं वा चेतुं शक्नुवन्ति।
विकल्पमिम् उपयोक्तुं प्रथमं मेन्युबार मध्ये “Insert” इति विकल्पं नुदन्तु।
अनन्तरं Footnote/Endnote इति विकल्पस्योपरि नुदन्तु।
Numbering अपि च Type इति शीर्षकयुता काचित् संवादपेटिका दृश्यते।
अत्र Automatic, Character, Footnote अपि च Endnote इति चिह्नकानि दृश्यन्ते।
Numbering इति विकल्पः फुट्नोट् अपि च एंड्नोट् एतयोः कृते सङ्ख्याप्रकारं चेतुं साहाय्यं करोति।
Automatic इति विकल्पः फुट्नोट् अपि च एंड्नोट् इत्येतयोः कृते स्वयं क्रमशः सङ्ख्यां ददाति।
अधुना संवादपेटिकां पिदध्मः।
अटोमेटिक् नंबरिंग् इत्यस्य व्यवस्थां परिवर्तयितुं मेन्युबार् मध्ये Tools इति विकल्पं नुदन्तु।
अनन्तरम् Footnotes/Endnotes इत्यत्र नुदन्तु।
अत्र भवतां कृते AutoNumbering अपि च Styles इत्यनयोः कृते अटोमेटिक् व्यवस्था विद्यते।
भवन्तः स्वेच्छानुसारं विकल्पान् चित्वा OK नुदन्तु।
अधुना Insert Footnote/Endnote option इत्यत्र प्रतिगच्छामः।
Character इति विकल्पः फुट्नोट् कृते अक्षरं चिह्नं वा निश्चिनोति।
एतत् सङ्ख्या भवितुमर्हति अथवा अक्षरमपि भवितुमर्हति।
विशिष्टाक्षरं योजयितुं अक्षरस्थानात् अधः विद्यमानं पिञ्जं नुदन्तु।
अत्र भवन्तः भवदीप्सितविशिष्टाक्षरं चित्वा OK नुदन्तु।
Type इति विकल्पस्याधः Footnote अथवा Endnote इति चिन्वन्तु।
अत्र वयं Numbering इत्यस्याधः Automatic इति अपि च Type इत्यस्याधः Footnote इति चिनुमः।
अधुना OK पिञ्जस्योपरि नुदन्तु।
पश्यन्तु, फुट्नोट् इति पुटस्य अधः सङ्ख्यया सह दृश्यते।
भवन्तः This is the end of first page इति तत्र लेखितुं शक्नुवन्ति।
अनन्तरं, कीलफलके Enter कीलं नुदन्तु।
भवन्तः भवदीप्सित फुट्नोट् इतीदं लेखेन सह पुटस्याधः दृष्टुं शक्नुवन्ति।
एवमेव भवन्तः सञ्चिकायाः अन्ते एंड्नोट् अपि योजयितुं शक्नुवन्ति।
एवं च वयम् अस्य पाठस्यान्तं प्राप्तवन्तः।
सारांशरूपेण वयमत्र,
सञ्चिकायां हेडर् कथ योजनीयम्,
फुटर् कथं योजनीयम्,
प्रथमपुटात् हेडर् कथं निष्कासनीयम्,
सञ्चिकायां फुट्नोट् अपि च एंड्नोट् कथं योजनीयं इत्यादिविषयान् ज्ञातवन्तः।
अभ्यासाः,
practice.odt इति सञ्चिकाम् उद्घाटयन्तु।
सञ्चिकायां हेडर् अपि च फुटर् योजयन्तु।
हेडर् मध्ये author इति नाम योजयन्तु।
फुटर् मध्ये Page Count योजयन्तु।
page ends इति किञ्चन एंड्नोट् स्थापयन्तु।
सञ्चिकायाः प्रथमपुटात् हेडर् निष्कासयन्तु।
अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति।
यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु।
अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति।
अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु।
स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति।
अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal