Java/C2/Programming-features-Eclipse/Sanskrit
From Script | Spoken-Tutorial
Revision as of 12:13, 25 June 2014 by Vasudeva ahitanal (Talk | contribs)
Time | Narration |
00:02 | एक्लिप्स मध्ये प्रोग्राम् इत्यस्य विशेषतायाः विषये विद्यमानेऽस्मिन् पाठे भवते स्वागतम्। |
00:07 | अस्मिन् पाठे वयं, |
00:10 | एक्लिप्स इत्यस्य प्रोग्राम वैशिष्ट्यानां विषये ज्ञास्यामः। |
00:15 | पाठेऽस्मिन् वयं Ubuntu 11.0, JDK 1.6 अपि च Eclipse 3.7.0 इत्यस्य उपयोगं कुर्मः। |
00:23 | अस्य पाठस्य अनुसरणार्थं अस्माकं यन्त्रे, |
00:26 | एक्लिप्स इति संस्थापितं भवेत् अपि च, |
00:28 | भवान् जावा प्रोग्राम् इत्यस्य लेखनपि जानीयात्। |
00:32 | यदि नास्ति, तर्हि एतत्सम्बद्धपाठार्थं अधो विद्यमानजालपुटं अन्विष्यताम् |
00:40 | एक्लिप्स IDE इत्येतस्मिन् बहु सुलभानि वैशिष्ट्यानि सन्ति। यथा - |
00:44 | Auto completion, |
00:45 | Syntax highlighting, |
00:46 | Error dialog box अपि च |
00:48 | Shortcut keys. |
00:49 | वयं प्रत्येकमपि वौशिष्ट्यं विस्तृतरूपेण पश्यामः। |
00:59 | अहं Features इति नाम्ना क्लास रचितवान् अस्मि अपि च मैन मेथेड योजितवान् अस्मि। |
01:05 | वयं प्रथमतया एक्लिप्स् मध्ये Auto completion इति वैशिष्ट्यं पश्यामः। |
01:10 | मैन मेथेड इत्यस्य अन्तः ओपनिंग ब्रेस टङ्कयित्वा Enter नुदतु। |
01:17 | पश्यतु, इदं स्वयं अनेनसम्बद्धं क्लोसिंग ब्रेस अपि च कर्सर इत्येतत् व्यवस्थापयति। |
01:25 | एतत् युग्मेषु विद्यमानान् विकल्पान् स्वयं पूरयति। |
01:29 | यथा, पेरांथिसिस्, ओपन् पेरान्थिसिस् टङ्कयतु। |
01:35 | अत्र वयं पश्यामः यत् वयं केवलं ओपन् पेरांथिसिस् टङ्कितवन्तः स्मः अपि च एक्लिप्स् स्वयं क्लोसिंग् पेरांथिसिस् यॊजयति इति । |
01:42 | अत्र अवधातव्यः अंशः नाम यदि वयं क्लोसिंग् पेरांथिसिस् अपि टङ्कयामः तर्हि एक्लिप्स् द्वे क्लोसिंग् पेरांथिसिस् यथा न आगच्छेत् तथा निर्वहति। |
01:52 | अहमधुना क्लोसिंग् पेरांथिसिस् टङ्कयामि, अधुना पश्यन्तु, केवलं कर्सर् वामभागं गच्छति अपि च अपरं पेरांथिसिस् न युक्तं भवति। |
02:02 | एवमेव, डबल् कोट् इत्यत्रापि भवति। |
02:06 | यदा ओपनिंग् कोट् टङ्कयामः तदा स्वयं क्लोसिंग् कोट् अपि युक्तं भवति। |
02:12 | यदि वयं क्लोसिंग् कोट् अपि टङ्कौयामः तर्हि अतिरिक्तं कोट् यथा न युक्तं भवेत् तथा निर्वहति। |
02:19 | अधुना अहं कोट् टङ्कयामि तदा कर्सर् वामभागं सरति अपि च अतिरिक्तं कोट् न युक्तं भवति। |
02:27 | Auto-completion इति किञ्चन बहुमुखवैशिष्ट्यमस्ति, अपि च एतत् कोड् इत्यस्य रचन निर्वोढुं बहु साहाय्यं करोति। |
02:32 | एवं च, पेरांथिसिस्, ब्रेस् अपि च क्लोसिंग् कोट् इत्येतेषाम् अदृश्यकारणात् ये दोषाः भवन्ति तान् निवारयति। |
02:44 | अग्रिमं वैशिष्ट्यं suggestion इति अस्ति। |
02:48 | एतावता टङ्कितं सर्वं मार्जयामः। |
02:54 | वयं hello इति प्रिंट् कर्तुं औट्पुट् स्टेट्मेंट् लिखामः। System dot …. |
03:07 | पश्यन्तु, एक्लिप्स् इत्येतत् ड्राप्डौन् सूचीं दर्शयति। |
03:11 | सा सूची स्टेट्मेंट् इत्यस्य पूर्त्यर्थं आवश्यकाः err, in, out, console इत्यादिसम्भावनाः दर्शयति। |
03:19 | अधः out इत्यत्र गत्वा Enter नुदन्तु। पुनः dot इति टङ्कयन्तु। |
03:28 | अधुना एक्लिप्स् ಈಗ ಎಕ್ಲಿಪ್ಸ್ ಔತ್ ಮೊಡ್ಯುಲ್ ನಿಂದ ಸಲಹೆಗಳನ್ನು ಕೊಡುತ್ತದೆ. |
03:33 | अधः println() इत्यत्र गत्वा Enter नुदन्तु. अधुना पेरान्थिसिस् इत्यस्यान्तः कोट् इत्यनयोर्मध्ये Hello इति टङ्कयन्तु। |
03:57 | अग्रिमं Syntax highlighting इति वैशिष्ट्यम्। |
04:02 | अत्र पश्यन्तु, public class, public static void इति कीवर्ड् विभिन्नवर्णेषु सन्ति। |
04:09 | अपि च Hello इति नीलवर्णे अस्ति, एतेन एतत् स्ट्रिंग् इति ज्ञायते। |
04:16 | इदं Syntax highlighting इति वैशिष्ट्यं कीवर्ड् अपि च कोड् इत्यस्य अङ्गान् पृथक् करोति। |
04:27 | एक्लिप्स्, प्रोग्रमर् कृते दोषान्वेषणाय अपि साहाय्यं करोति। |
04:31 | प्रोग्राम् मध्ये दोषाः वामभागे रेड् क्रास् चिह्नेन सूचितं भवति। |
04:36 | वयं अस्मिन् प्रोग्राम् मध्ये दोषः अस्ति इति दृष्टुं शक्नुमः। दोषस्य उपरि मौस् नयन्तु। |
04:46 | तत्र वयं ‘सेमि कोलोन् न दृश्यते’ इति दोषं दृष्टुं शक्नुमः। तेन समं परिहारमपि दृष्टुं शक्नुमः। |
04:57 | वयं यदि विना दोषपरिमार्जनम् अग्रे सरामः तर्हि … रैट् क्लिक् कृत्वा run as इति चित्वा तत्र application … |
05:12 | वयं Error इति संवादपेटिकां पश्यामः यत्र ‘अत्र कश्चन दोषः वर्तते, अग्रे सरंणीयमुत न’ इति पृच्छा भवति। |
05:13 | वयमधुना अग्रे सरामः। अत्र दोषं दर्शयत् फलितं पश्यामः। अपि च, |
05:35 | यदि वयं प्रोब्लेम् कन्सोल् प्रति गच्छामः तर्हि तत्र सूच्यां सर्वे दोषाः तत्सम्बद्धपरिहाराश्च दृश्यन्ते। |
05:43 | वयमधुना सेमिकोलन् इत्यस्य योजनेन दोषं परिहरामः। रक्षितुं Ctrl S नुदन्तु। |
05:53 | एक्लिप्स् मध्ये प्रोग्रामर् कृते साहाय्यीभूतमपरं वैशिष्ट्यं नाम shortcut-keys. |
06:01 | सर्वेष्वपि प्रोग्राम् इत्येतेषु विद्यमानानि shortcut-key इत्युक्ते रक्षितुं Ctrl+S अपि च उद्घाटयितुं Ctrl+O. |
06:07 | एक्लिप्स् मध्ये अपि सामान्यतः याः क्रियाः उपयुज्यन्ते ताभ्यः shortcut key सन्ति। |
06:12 | Control F11. इति शार्ट्कट् कोड् इत्यस्य चालनार्थमस्ति। |
06:16 | अधुना इदं प्रयतामहे, Ctrl नुत्त्वा F11 इति नुदन्तु, पश्यन्तु, कोड् रन् भूत्वा औट्पुट् मध्ये Hello इति प्रिंट् जातमस्ति। |
06:27 | विभिन्नविकल्पानां कृते विद्यमानानि शार्ट्कट् मेन्यु मध्ये परिदृश्यन्ते। Run इत्यत्र नुदन्तु। |
06:33 | अत्रावधीयताम्, विकल्पानां वामपार्श्वे तेषां शार्ट्कट् सन्ति। |
06:40 | अत्र Debug कृते F11 इति शार्ट्कट् अस्ति। |
06:45 | एषा लघ्वी परम् एक्लिप्स् मध्ये सामान्यतया उपयुज्यमानानां प्रोग्रामिंग् वैशिष्ट्यानां सूची अस्ति। इतोप्यधिकवैशिष्ट्यानि अग्रिमेषु पाठेषु ज्ञास्यामः। |
06:56 | अधुना वयं पाठस्यास्य अन्तं प्राप्तवन्तः। अस्मिन् पाठे वयं एक्लिप्स् मध्ये प्रोग्रामिंग् वैशिष्ट्यानि यथा, |
07:04 | Auto completion, |
07:05 | Syntax highlighting, |
07:06 | Error dialog box, अपि च |
07:07 | Shortcut keys इत्यादीनां उपयोगविषये ज्ञातवन्तः। |
07:10 | अस्य पाठस्य अभ्यासाय, |
07:12 | क्लास् मध्ये Hello इति प्रिंट् कर्तुं प्रोग्राम् लिखन्तु। |
07:17 | अस्यां प्रक्रियायां एक्लिप्स् इत्यस्य सर्ववैशिष्ट्यानाम् अन्वयनं कुर्वन्तु। |
07:22 | तेषां प्रक्रियां अवगच्छन्तु। |
07:25 | स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं कृपया अत्र विद्यमानं विडीयो पश्यन्तु। |
07:30 | एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति। |
07:33 | यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु। |
07:37 | spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति। |
07:42 | ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते। |
07:45 | अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। |
07:52 | स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। |
07:56 | इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति। |
08:02 | अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु। |
08:07 | अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।
|