LibreOffice-Writer-on-BOSS-Linux/C4/Headers-Footers-and-Notes/Sanskrit
From Script | Spoken-Tutorial
Revision as of 18:11, 5 January 2015 by Vasudeva ahitanal (Talk | contribs)
| Time | Narration |
| लिब्रे आफीस रैटर् मध्ये हेडर, फूटर अपि च एंड नोट इत्येतेषां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्। | |
| अस्मिन् पाठे वयम्, | |
| सञ्चिकायां, हेडर कथं योजनीयम्, | |
| फूटर कथं योजनीयम्, | |
| हेडर इत्येतत् प्रथमपृष्टात् कथं निष्कासनीयम् तथा च | |
| सञ्चिकायां फुट्नोट अपि च एंड नोट इत्येतानि कथं योजनीयानि इत्यादिविषयान् ज्ञास्यामः। | |
| अत्र वयम् GNU लिनक्स इत्यस्य अपि च लिब्रे आफीस सूट 3.3.4 इत्यस्य उपयोगं कुर्मः। | |
| लिब्रे आफीस् रैटर् मध्ये वयं सञ्चिकायां प्रतिपुटं सङ्ख्यां योजयितुं शक्नुमः। | |
| वयम् अस्माकम् resume.odt इति सञ्चिकाम् उद्घाटयामः। | |
| फुटर् मध्ये पुटसङ्ख्यां योजयितुं भवदीष्टपुटस्योपरि नोत्तव्यम्। | |
| अतः, वयं सञ्चिकायाः पुटस्योपरि नुदामः। | |
| अधुना मेन्युबार मध्ये Insert इति विकल्पोपरि नुत्वा तत्र Footer इति विकल्पं चिन्वन्तु। | |
| अनन्तरं Default इति विकल्पं नुदन्तु। | |
| अधुना वयं पुटस्याधः फुटर योजितमस्तीति दृष्टुं शक्नुमः। | |
| तत्र पुटसङ्ख्यां योजयितुं प्रथमतया Insert विकल्पं चिनुमः। | |
| अनन्तरं Fields इत्यस्योपरि नुदन्तु। | |
| भवन्तः अत्र बहून् फुटर् विकल्पान् पश्यन्ति। | |
| सञ्चिकायां पुटसङ्ख्यां योजयितुं Page Number इत्यस्योपरि नुदन्तु। | |
| अनुक्षणं वयं फुटर् मध्ये 1 इति दृष्टुं शक्नुमः। | |
| पुटसङ्ख्यां विविधशैल्याम् उपयोक्तुं पुटसङ्ख्यायाः उपरि डबल् क्लिक् कुर्वन्तु। | |
| वयं Edit Fields: Document इति संवादपेटिकां पश्यामः। | |
| Format विकल्पस्याधः A B C इति अप्पर् केस् मध्ये, a b c इति लोवर् केस् मध्ये, Arabic 1 2 3” इत्यादीः बह्वीः शैलीः पश्यामः। | |
| अत्र स्वेच्छानुसारं सङ्ख्याशैलीं चेतुं शक्नुवन्ति। | |
| वयं अत्र Roman i,ii,iii इति विकल्पं चित्वा OK इति पिञ्जस्योपरि नुदामः। | |
| अधुना पश्यन्तु, पुटसङ्ख्यायाः शैली परिवर्तिता अस्ति। | |
| एवमेव, वयं सञ्चिकायां हेडर् योजयितुं शक्नुमः। | |
| प्रथमतया भवन्तः, यत्र हेडर् योजयितुमिच्छन्ति तत्पुटस्योपरि नुदन्तु। | |
| अधुना Insert विकल्पं चित्वा अनन्तरं Header विकल्पं चिन्वन्तु। | |
| तत्र Default विकल्पं चिन्वन्तु। | |
| पुटस्य उपरि हेडर् योजितमस्ति इति भवन्तः दृष्टुं शक्नुवन्ति। | |
| हेडर् मध्ये दिनाङ्कं योजयितुं क्रमशः “Insert” इत्यस्य उपरि अपि च “Fields” इत्यस्य उपरि नुदन्तु। | |
| तत्र दृश्यमाने मेन्युबार-मध्ये “Date” इत्यस्योपरि नुदन्तु। | |
| अधुना दिनाङ्कः हेडर् मध्ये दृश्यते। | |
| तस्योपरि वारद्वयं नोदनेन वयं दिनाङ्क-प्रदर्शनार्थं याः सम्भवनीय-शैल्यः सन्ति ताः शैलीः दृष्टुं शक्नुमः। | |
| अत्र वयं 31 Dec, 1999 इति चित्वा OK नुदामः। | |
| अधुना मेन्युबार मध्ये “File” इत्यस्योपरि नुत्वा तत्र “Page preview” विकल्पस्योपरि नुदामः। | |
| अधुना सञ्चिकां 50 प्रतिशतं यावत् बृहत् कुर्मः। | |
| अधुना पश्यन्तु, पुटस्य उपरि दिनाङ्कः अपि च अधः पुटसङ्ख्या दृश्यते। | |
| एवं एतत् सञ्चिकायाः प्रतिपुटम् अन्वेति। | |
| मूलसञ्चिकां प्रति गन्तुं “Close Preview” इति पिञ्जं नुदन्तु। | |
| वयं हेडर अथवा फुटर मध्ये विद्यमानलेखभागस्य स्पेसिंग् अपि सम्यक् कर्तुं शक्नुमः। | |
| अथवा वयं हेडर् अथवा फुटर् निमित्तं सीमाम् अपि योजयितुं शक्नुमः। | |
| मेन्युबार मध्ये “Format” इति विकल्पस्योपरि नुत्वा अनन्तरं “Page” इत्यत्र नुदन्तु। | |
| संवादपेटिकायां “Footer” इति ट्याब् चिन्वन्तु। | |
| Left margin इत्यस्य मैल्यं 1 सेंटिमीटर कृत्वा स्पेसिंग् व्यवस्थापयन्तु। | |
| फुटर् निमित्तं सीमां छायां वा योजयितुं “More” इति विकल्पस्य उपरि नुत्वा अनन्तरं फुटर् कृते किञ्चन मौल्यं निर्धारयन्तु। | |
| उदाहरणार्थम्, फुटर् कृते छायाशैलीं योजयितुं वयं, “Cast Shadow to Top Right” इति चित्रकस्योपरि नुदामः। | |
| एतत्, Shadow style इति विकल्पस्य Position इति ट्याब् इत्यस्य अधः विद्यमानेषु विविधचित्रकेषु अन्यतमं वर्तते। | |
| भवन्तः अत्र सीमायाः अपि च छायायाः वर्णं चेतुं शक्नुवन्ति। | |
| उपलभ्यमानं प्रत्येकमपि विकल्पं ज्ञातुम् इमां संवादपेटिकाम् अन्विषन्तु। | |
| अधुना “OK” इत्यस्योपरि नुदन्तु। | |
| पुनः OK नुत्वा अधुना पश्यन्तु, फुटर् मध्ये परिणामः दृश्यते। | |
| पुरोगमनात् प्राक् अस्माकं सञ्चिकायाम् अपरमेकं पुटं योजयामः। | |
| योजयितुं, Insert इति अपि च तत्र Manual Break इति नुत्वा तत्र Page break इति विकल्पं चिन्वन्तु। | |
| अनन्तरं “OK” नुदन्तु। | |
| पश्यन्तु, पुटसङ्ख्या 2 इति दृश्यते। | |
| यदि भवन्तः सञ्चिकायाः प्रथमपुटे फुटर् न इच्छन्ति तर्हि कर्सर् इत्येतत् प्रथमपुटे स्थापयन्तु। | |
| तथा च मेन्युबार मध्ये “Format” इत्यत्र नुत्वा अनन्तरम् “Styles and Formatting” इति विकल्पस्योपरि नुदन्तु। | |
| इदानीं दृश्यमानायां संवादपेटिकायां उपरि Page Styles इति नाम्न्याः चतुर्थं चित्रकं नुदन्तु। | |
| अनन्तरं First Page इति विकल्पस्योपरि रैट क्लिक् कुर्वन्तु। | |
| तत्र New इत्यस्योपरि क्लिक् कृत्वा ततः Organiser ट्याब् उपरि नुदन्तु। | |
| Name इत्यत्र स्वेच्छानुसारं शैलीनाम टङ्कयन्तु। | |
| वयमत्र new first page इति टङ्कयामः। | |
| Next Style इति उत्सर्गरूपेण तथैव स्थापयन्तु। | |
| अधुना संवादपेटिकायां Footer ट्याब् इत्यस्योपरि नुदन्तु। | |
| तत्रस्थं Footer on इति चिह्नकं (check box) उत्सर्गरूपेण यदि अन्चेक् नास्ति तर्हि अन्चेक् कुर्वन्तु। | |
| अन्ते च, OK पिञ्जं नुदन्तु। | |
| वयमधुना Styles and Formatting इति संवादपेटिकां प्रति आगतवन्तः स्मः। | |
| पश्यन्तु, पेज स्टैल इति विकल्पस्याधः new first page इति दृश्यते। | |
| अधुना new first page इत्यस्योपरि वारद्वयं नुदन्तु। | |
| अधुना पश्यन्तु, अस्माकं सञ्चिकायां प्रथमपुटं विहाय अन्येषु सर्वेषु अपि पुटेषु फुटर् अस्ति। | |
| एवं भवन्तः उपलभ्यमानाः सर्वाः अपि शैलीः नवीकर्तुं शक्नुवन्ति तथा च तां सञ्चिकायाः प्रतिपुटम् अन्वयितुं शक्नुवन्ति। | |
| अधुना संवादपेटिकामिमं पिदध्मः | |
| अधुना, लिब्रे आफीस् रैटर् मध्ये फुट् नोट् अपि च एंड् नोट् इत्येतेषां विषये ज्ञास्यामः। | |
| फुट्नोट् इति उल्लेखसूचीं पुटस्यान्ते दर्शयति। | |
| एंड्नोट् इति तां सञ्चिकायाः अन्ते दर्शयति। | |
| उल्लेखस्य आधारः यत्र कर्सर अस्ति तत्र योजितं भवति। | |
| भवन्तः आधाराय सङ्ख्यां वा चिह्नं वा चेतुं शक्नुवन्ति। | |
| विकल्पमिम् उपयोक्तुं प्रथमं मेन्युबार मध्ये “Insert” इति विकल्पं नुदन्तु। | |
| अनन्तरं Footnote/Endnote इति विकल्पस्योपरि नुदन्तु। | |
| Numbering अपि च Type इति शीर्षकयुता काचित् संवादपेटिका दृश्यते। | |
| अत्र Automatic, Character, Footnote अपि च Endnote इति चिह्नकानि दृश्यन्ते। | |
| Numbering इति विकल्पः फुट्नोट् अपि च एंड्नोट् एतयोः कृते सङ्ख्याप्रकारं चेतुं साहाय्यं करोति। | |
| Automatic इति विकल्पः फुट्नोट् अपि च एंड्नोट् इत्येतयोः कृते स्वयं क्रमशः सङ्ख्यां ददाति। | |
| अधुना संवादपेटिकां पिदध्मः। | |
| अटोमेटिक् नंबरिंग् इत्यस्य व्यवस्थां परिवर्तयितुं मेन्युबार् मध्ये Tools इति विकल्पं नुदन्तु। | |
| अनन्तरम् Footnotes/Endnotes इत्यत्र नुदन्तु। | |
| अत्र भवतां कृते AutoNumbering अपि च Styles इत्यनयोः कृते अटोमेटिक् व्यवस्था विद्यते। | |
| भवन्तः स्वेच्छानुसारं विकल्पान् चित्वा OK नुदन्तु। | |
| अधुना Insert Footnote/Endnote option इत्यत्र प्रतिगच्छामः। | |
| Character इति विकल्पः फुट्नोट् कृते अक्षरं चिह्नं वा निश्चिनोति। | |
| एतत् सङ्ख्या भवितुमर्हति अथवा अक्षरमपि भवितुमर्हति। | |
| विशिष्टाक्षरं योजयितुं अक्षरस्थानात् अधः विद्यमानं पिञ्जं नुदन्तु। | |
| अत्र भवन्तः भवदीप्सितविशिष्टाक्षरं चित्वा OK नुदन्तु। | |
| Type इति विकल्पस्याधः Footnote अथवा Endnote इति चिन्वन्तु। | |
| अत्र वयं Numbering इत्यस्याधः Automatic इति अपि च Type इत्यस्याधः Footnote इति चिनुमः। | |
| अधुना OK पिञ्जस्योपरि नुदन्तु। | |
| पश्यन्तु, फुट्नोट् इति पुटस्य अधः सङ्ख्यया सह दृश्यते। | |
| भवन्तः This is the end of first page इति तत्र लेखितुं शक्नुवन्ति। | |
| अनन्तरं, कीलफलके Enter कीलं नुदन्तु। | |
| भवन्तः भवदीप्सित फुट्नोट् इतीदं लेखेन सह पुटस्याधः दृष्टुं शक्नुवन्ति। | |
| एवमेव भवन्तः सञ्चिकायाः अन्ते एंड्नोट् अपि योजयितुं शक्नुवन्ति। | |
| एवं च वयम् अस्य पाठस्यान्तं प्राप्तवन्तः। | |
| सारांशरूपेण वयमत्र, | |
| सञ्चिकायां हेडर् कथ योजनीयम्, | |
| फुटर् कथं योजनीयम्, | |
| प्रथमपुटात् हेडर् कथं निष्कासनीयम्, | |
| सञ्चिकायां फुट्नोट् अपि च एंड्नोट् कथं योजनीयं इत्यादिविषयान् ज्ञातवन्तः। | |
| अभ्यासाः, | |
| practice.odt इति सञ्चिकाम् उद्घाटयन्तु। | |
| सञ्चिकायां हेडर् अपि च फुटर् योजयन्तु। | |
| हेडर् मध्ये author इति नाम योजयन्तु। | |
| फुटर् मध्ये Page Count योजयन्तु। | |
| page ends इति किञ्चन एंड्नोट् स्थापयन्तु। | |
| सञ्चिकायाः प्रथमपुटात् हेडर् निष्कासयन्तु। | |
| अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति। | |
| यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु। | |
| अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति। | |
| अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु। | |
| स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति। | |
| अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु। | |
| पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः। |