LibreOffice-Suite-Writer/C3/Typing-in-local-languages/Sanskrit
From Script | Spoken-Tutorial
Revision as of 15:40, 26 December 2014 by Vasudeva ahitanal (Talk | contribs)
Resources for recording Search And Replace Auto Correct
| Time | Narration |
| सर्वेभ्यः नमस्कारः। लिब्रे आफीस रैटर मध्ये स्थानीयभाषाटङ्कनविषये विद्यमाने अस्मिन् पाठे भवद्भ्यः स्वागतम्। | |
| अस्मिन् पाठे अहं लिब्रे आफीस मध्ये कन्नडस्य टङ्कनं कथमिति परिचाययामि। | |
| अत्र अहम् उबंटु लिनक्स 10.04 इत्यस्मिन् लिब्रे आफीस् सूट् 3.3.4 इति तन्त्रांशं उपयुञ्जे। | |
| अधुना अहं लिब्रे आफीस् मध्ये कन्नडटङ्कनं कथं संरचनीयमिति विवृणोमि। भवन्तः एवं प्रकारेण यस्यकस्याः अपि भाषायाः टङ्कनसंरचनाम् अत्र कर्तुं शक्नुवन्ति। | |
| प्याकेज इत्येतेषां संस्थापनाय सिनाप्टिक् प्याकेज् मेनेजर् इतीदम् उपयुज्यताम्। | |
| अधिकविवरणार्थं, स्पोकन् ट्युटोरियल् इत्यस्य जालपत्रे उपलभ्यमानं सिनाप्टिक् प्याकेज् मेनेजर् विषयकं पाठं पश्यन्तु। | |
| संरचना स्तरचतुष्टये भवति - | |
| भवतां सङ्गणके SCIM (स्किम्) संस्थापितमस्ति वा इति परिशीलयन्तु। | |
| नो चेत्, सिनाप्टिक् प्याकेज् मेनेजर् इत्यस्य साहाय्येन प्याकेज् इत्येतान् मार्क् कृत्वा SCIM इत्यस्य संस्थापनं कुर्वन्तु। | |
| प्रक्रियामेतां यदा कुर्वन्ति तदा पाठमिमं स्थगयित्वा समाप्त्यूर्ध्वम् अग्रे सरन्तु। | |
| अनन्तरं SCIM-immodule (स्किम्-इमोड्यूल्) इति कीबोर्ड इन्पुट् विधानं चिन्वन्तु। | |
| कन्नडं टेक्स्ट् इन्पुट् भाषारूपेण चेतुं SCIM इत्येतत् संरचयन्तु। | |
| Complex Text layout रूपेण कन्नडं चेतुं लिब्रे आफीस् इत्येतेत् संरचयन्तु। | |
| अहमधुना स्तरान् दर्शयामि। | |
| अधुना क्रमेण, System, Administration अपि च Language support इत्यस्य उपरि नुदन्तु। | |
| यदि पटलस्योपरि 'Remind me later' अथवा 'Install now' इति दृश्यते तर्हि, 'Remind me later' इत्यस्योपरि नुदन्तु। | |
| Keyboard input method system मध्ये scim-immodule इति चिन्वन्तु। | |
| अत्र एतावता एव तत् चितमित्यतः अस्माभिः न किमपि कर्तव्यम्। | |
| तृतीयस्तरः, SCIM इत्यस्य संरचनाय क्रमेण System, Preferences अपि च SCIM Input Method इत्यस्योपरि नुदन्तु। | |
| भवन्तः इदं पटले दृष्टुं न शक्नुवन्ति, परम् इदं यदि भवन्तः सङ्गणके यत्नं कुर्वन्ति तर्हि भवन्तः दृष्टुं शक्नुवन्ति। | |
| IMEngine इत्यस्य अधः, Global Setup इत्यस्योपरि नुदन्तु। | |
| SCIM इति, टेक्स्ट् प्रोसेसर् कृते याः भाषाः सहकुर्वन्ति ताः सर्वाः सूचयति। | |
| अत्र आधिक्येन उपयुज्यमानाः सर्वाः भारतीयभाषाः यथा, हिन्दी, कन्नड, बेंगालि, गुजराति, तलिळ, मळयालम्, उर्दु इत्यादिभाषाः अन्तर्गताः सन्ति। | |
| अस्मदीयपाठार्थं हिन्दी अपि च कन्नडं चिन्वन्तु। | |
| भवतां संरचनां संरक्षितुं OK इत्यत्र नुदन्तु। | |
| SCIM इत्यत्र परिणामः जातः वा इति दृष्टुं वयम् अस्माकं यन्त्रं पुनरारभामहे। | |
| कृपया पुनरारभ्य पाठं प्रति पुनरायान्तु। | |
| वयमधुना लिब्रे आफीस मध्ये कन्नडस्य प्रोसेसिंग संरचयाम। | |
| Applications इत्यत्र नुत्वा Office अपि च LibreOffice Writer इत्यत्र नुदन्तु। | |
| अधुना भवन्तः मुख्यमेन्युमध्ये Tools इत्यत्र नुत्वा तत्र Options इत्यत्र नुदन्तु। | |
| भवन्तः Options इति संवादपेटिकां पश्यन्ति। | |
| तस्यां, Language Settings इत्यत्र नुत्वा तत्र Languages इति विकल्पं चिन्वन्तु। | |
| Enabled for complex text layout इति यदि न चितं वर्तते तर्हि कृपया चिन्वन्तु। | |
| CTL इति ड्राप्डौन् मेन्यु तः Kannada इति चिन्वन्तु। | |
| उत्सर्गेन भवतां स्थानियभाषा कन्नडभाषा चिता अस्ति। | |
| OK इत्यत्र नुदन्तु। | |
| अधुना वयं कन्नड अपि च आङ्ग्लभाषायां वाक्यमेकं टङ्कयामः। | |
| वयं Baraha, Nudi अपि च UNICODE विधानानि उपयुञ्ज्महे। अन्ते च सञ्चिकां रक्षामः। | |
| अधुना तत् दर्शयामि। | |
| उद्घाटितायां लेखसञ्चिकायां “Ubuntu GNU/Linux supports multiple languages with LibreOffice." इति टङ्कयन्तु। | |
| CONTROL कीलं नुत्वा स्पेस बार अपि नुदन्तु। | |
| पटलस्य अधः दक्षिणपार्श्वे किञ्चन विंडो उद्घटते। | |
| Baraha विधानेन तुल्यं फोनेटिक्-विधानेन लेखं टङ्कयितुं Kannada KN-ITRANS इति चिन्वन्तु। | |
| यदि भवन्तः Nudi keyboard layout इच्छन्ति तर्हि Kannada – KN KGP इत्यत्र नुदन्तु। | |
| अहं KN-ITRANS इति इन्पुट्-विधानं चिनोमि। एतत् सरलम् अपि च आरम्भिकाणां कृते सुलभाय अस्ति। | |
| “Sarvajanika Tantramsha” इति आङ्ग्लभाषायां टङ्कयन्तु। | |
| भवद्भ्यः पटले कन्नड-लेखः दृश्यते। | |
| CONTROL नुत्त्वा स्पेसबार नुदन्तु। | |
| विंडो अदृश्यतां याति। | |
| अधुना वयम् आङ्ग्लभाषायां टङ्कयितुं शक्नुमः। | |
| अर्थात्, CONTROL कीलम् अपि च स्पेसबार इति, आङ्ग्लभाषा अपि च चिताः अन्यभाषाः अनयोः मध्ये शृङ्खला इव कार्यं करोति। | |
| कन्नड-टेक्स्ट् प्रोसेसिंग् विषये ज्ञातुं, कन्नड-टङ्कन-विषये निखरविवरणं ज्ञातुं तथा च 'arkavathu' इति लिपिमुपयुज्य नुडि-तन्त्रांशे टङ्कनं कर्तुं कृपया www.Public-Software.in/Kannada इति लिंक् मध्ये लभ्यमानां सञ्चिकां परिशीलयन्तु। | |
| UNICODE इति जागतिकरूपेण अङ्गीकृता लिपिः (Font) इत्यतः वयं भारतीयभाषां यदा टङ्कयामः तदा UNICODE इत्यस्य उपयोगं कुर्मः। | |
| Lohit Kannada इति काचित् UNICODE लिपिः अस्ति। तामेव अत्राहम् उपयुञ्जे। | |
| अहमधुना भवद्भ्यःकन्नडस्य टेक्स्ट् प्रोसेसिंग् दर्शितवान् अस्मि। | |
| एवं प्रकारेण वयं लिब्रे आफीस् रैटर् उपयुज्य SCIM इन्पुट् विधानान्तर्गततया विद्यमानां कामपि भाषां टङ्कयितुं शक्नुमः। | |
| अन्ते भवद्भ्यः किञ्चन नियतकार्यम्। | |
| कन्नडस्य पुस्तकत्रयस्य नाम टङ्कयन्तु। | |
| तेषाम् आङ्ग्ललिप्यनुवादं च लिखन्तु। | |
| अहम् एतावता एव अत्र नियतकार्यं सज्जीकृतवान् अस्मि। | |
| सारंशरूपेण, पाठेऽस्मिन् वयं, | |
| उबंटु अपि च लिब्रे आफीस् इति तन्त्रांशद्वयमपि भाषाव्यवस्थापनार्थं कथं संरचनीयमिति ज्ञातवन्तः। | |
| वयं बरह नुडि इत्यादिविधानैः कथं टङ्कनीयमित्यपि दृष्टवन्तः। | |
| वयं सञ्चिकां भाषाद्वये कथं टङ्कनीयमित्यपि ज्ञातवन्तः। | |
| अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति। | |
| यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु। | |
| अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये च आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति। | |
| अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु। | |
| स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति। | |
| अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु। | |
| पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः। |