KTouch/S1/Customizing-Ktouch/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00.00 के-टच इत्यस्य कस्टमाइज विषयकेऽस्मिन् स्पोकन ट्यूटोरियल मध्ये भवतां स्वागतम्।
00.04 अस्मिन् पाठे भवन्तः अधिगच्छन्ति यत्
00.08 कथम् एकं लेक्चर निर्मातव्यम्,

कथं के-टच इत्यस्य कस्टमाइज करणीयम्, कथं स्वकीयं कीलफलकं (कीबोर्ड) निर्मातव्यं च इति।

00.13 अत्र वयम् उबंटू लिनक्स 11.10 इत्यस्मिन् के-टच 1.7.1 इति तन्त्रांशम् उपयुञ्ज्महे।
00.21 अधुना के-टच उद्घाटयामः।
00.25 अवधेयं यत् तृतीयस्तरः परिदृश्यते इति।
00.28 यतो हि यदा वयं के-टच पिहितवन्तः तदा तृतीयस्तरे एव आस्म।
00.32 अधुना वयं नूतनं लेक्चर कथं निर्मातव्यम् इति ज्ञास्यामः।
00.36 अत्र वयं नूतनम् अक्षरसमूहं सृजामः यश्च टीचर्स लाइन मध्ये प्रदृष्टं भवितुमर्हति।
00.42 मुख्यमेन्युतः File चित्वा Edit Lecture इत्यत्र नुदन्तु।
00.48 Open Lecture File डायलॉग बॉक्स प्रदृष्टं भवति।
00.52 अधुना Create New लेक्चर इति विकल्पं चित्वा OK इत्यत्र नुदन्तु।
00.57 KTouch Lecture Editor डायलॉग बाक्स प्रदृष्टं भवति ।
01.01 टाइटल फील्ड मध्ये A default lecture इति वाक्यं चित्वा तन्नाशयित्वा च My New Training Lecture इति टङ्कयन्तु।
01.12 Level Editor, लेक्चर इत्यस्य स्तरं प्रदर्शयति।
01.15 Level Editor बॉक्स इत्यस्य अन्तः नुदन्तु।
01.18 अधुना Data of Level 1 इत्यस्य अन्तः, New Characters in this level इत्यत्र एम्पर्संड, स्टार अपि च डॉलर चिह्नानि टङ्कयन्तु।
01.29 अस्माभिः चिह्नानि केवलमेकवारं टङ्कितानि।
01.32 अवधातव्यं यत् चिह्नमिदं लेवल एडिटर बॉक्स इत्यस्य प्रथमपङ्क्तौ प्रदृश्यमानमस्ति इति।
01.38 लेवल डेटा फील्ड मध्ये प्रदृश्यमानं वाक्यं चित्वा नाशयन्तु।
01.44 एम्पर्संड, स्टार अपि च डॉलर चिह्नानि पञ्चवारं ट्ङ्कयन्तु।
01.49 अधुना लेवल एडिटर बॉक्स अन्तः, प्लस चिह्नोपरि नुदन्तु। किं जातम्?
01.57 लेवल एडिटर बॉक्स मध्ये वर्णमालासम्बद्धा अपरा पङ्क्तिः प्रदृश्यते।
02.02 लेवल एडिटर बॉक्स मध्ये अपरपङ्क्तिं चिन्वन्तु।
02.06 लेवल फील्ड इत्यस्य डेटा अधुना 2 इति प्रदृश्यते।
02.09 एतत् अस्माकं टाइपिंग पाठस्य द्वितीयं लेवल अस्ति।
02.13 New Characters in this Level फील्ड मध्ये fj इति टङ्कयन्तु।
02.20 Level Data फील्ड मध्ये पञ्चवारं fj इति टङ्कयन्तु।
02.24 स्वकीये टाइपिंग पाठे भवद्भ्यः यावन्तः स्तराः अपेक्षिताः तावतः निर्मातुं शक्नुवन्ति।
02.29 एवमेव स्वकीये टाइपिंग पाठे भवन्तः यावतः स्तरानिच्छन्ति तावतः निर्मातुं शक्नुवन्ति।
02.35 Save इत्यत्र नुदन्तु।
02.37 Save Training Lecture – KTouch डायलॉग बॉक्स प्रदृष्टं भवति।
02.41 नेम फील्ड मध्ये New Training Lecture इति टङ्कयन्तु।
02.45 अधुना फाइल निमित्तं किञ्चन फॉर्मेट चिन्वन्तु।
02.49 Filter ड्रॉप डाउन सूच्यां triangle इत्यत्र नुदन्तु।
02.52 फाइल इत्यस्य फॉर्मेट निमित्तं KTouch Lecture Files कोष्ठकेषु star.ktouch.xml चिन्वन्तु।
03.03 फाइल रक्षितुं डेस्कटॉप ब्राउज़ कुर्वन्तु। Save इत्यत्र नुदन्तु।
03.08 KTouch Lecture Editor डायलॉग बॉक्स अधुना New Training Lecture इति नाम प्रदर्शयति।
03.15 अस्माभिः स्तरद्वयेन समं नूतनमेकं ट्रेनिंग लेक्चर निर्मितम्।
03.19 KTouch Lecture Editor डायलॉग बॉक्स पिधीयताम्!
03.24 अधुना यदस्माभिः निर्मितं लेक्चर अस्ति तदुद्घाटयन्तु।
03.28 मुख्यमेन्युतः फाइल चित्वा Open Lecture इत्यत्र नुदन्तु।
03.34 Select Training Lecture File डायलॉग प्रदृष्टं भवति।
03.38 डेस्कटॉप ब्राउज़ कृत्वा New Training Lecture.ktouch.xml चिन्वन्तु।
03.46 अवधेयं यत् &, *, अपि च $ चिह्नानि टीचर्स लाइन मध्ये प्रदृश्यमानानि सन्ति इति। अधुना टङ्कनम् (टाइपिंग) आरभामहे।
03.54 अस्माभिः स्वकीयं लेक्चर निर्मितं अपि च तत् कश्चन टाइपिंगपाठः इव उपयुक्तम् अस्ति।
03.59 के-टच टाइपिंग पाठं प्रति गन्तुं मुख्यमेन्यु मध्ये File चिन्वन्तु, Open Lecture इत्यत्र नुदन्तु। तत्र दृश्यमानं फोल्डर पथं ब्राउज़ कुर्वन्तु।
04.10 Root->usr->share->kde4->apps->Ktouch अपि च english.ktouch.xml चिन्वन्तु।
04.26 वयं के-टच इतीदं स्वप्राशस्त्यानुसारं निर्मातुं शक्नुमः।
04.30 यथा, यदक्षरं टीचर्स पङ्क्तौ न प्रदर्शितं तदक्षरं यदा टङ्कयन्ति तदा स्टुडेण्ट पङ्क्तिः रक्तवर्णीया भवति।
04.37 भवन्तः पृथक्प्रदर्शनार्थं स्वेच्छानुसारं वर्णान् चेतुं शक्नुवन्ति।
04.41 अधुना कलर सेटिंग्स परिवर्तयामः।
04.44 मुख्यमेन्युतः Settings चिन्वन्तु अपि च Configure – KTouch इत्यत्र नुदन्तु।
04.50 Configure – KTouch डायलॉग बॉक्स प्रदृष्टं भवति।
04.53 Configure – KTouch डायलॉग बॉक्स मध्ये Color Settings इत्यत्र नुदन्तु।
04.58 Color Settings इत्यस्य विवरणं प्रदृष्टं भवति।
05.02 Use custom color for typing line इति बॉक्स चिन्वन्तु।
05.05 टीचर्स लाइन फील्ड मध्ये टेक्स्ट फील्ड इत्यस्य अग्रे कलर बॉक्स इत्यत्र नुदन्तु।
05.12 Select-Color डायलॉग बॉक्स प्रदृष्टं भवति।
05.15 Select-Color डायलॉग बॉक्स मध्ये green वर्णोपरि नुदन्तु। OK इत्यत्र नुदन्तु।
05.21 Configure – KTouch डायलॉग बॉक्स प्रदृष्टं भवति। Apply इत्यत्र नुदन्तु। OK इत्यत्र नुदन्तु।
05.29 टीचर्स लाइन मध्ये अक्षराणि हरितवर्णेन परिवृतानि सन्ति।
05.33 अधुना वयं स्वकीयकीलफलकं (कीबोर्ड) निर्मास्यामः।
05.37 किञ्चन नवीनकीलफलकं (कीबोर्ड) निर्मातुं प्रस्तुतकीलफलकम् (कीबोर्ड) उपयोक्तव्यं भवति।
05.42 अस्मिन् परिवर्तनानि कुर्वन्तु अपि च इदं नामान्तरेण रक्षन्तु।
05.46 मुख्यमेन्युतः File चिन्वन्तु अपि च Edit Keyboard Layout इत्यत्र नुदन्तु।
05.52 Open Keyboard File डायलॉग बॉक्स प्रदृष्टं भवति।
05.56 Open Keyboard File डायलॉग बॉक्स मध्ये Open a default keyboard चिन्वन्तु।
06.02 अधुना अस्मात् फील्डतः अग्रिमं पिञ्जं नुदन्तु।
06.06 कीबोर्ड्स इत्यस्य सूची प्रदृष्टा भवति। en.keyboard.xml चिन्वन्तु। OK इत्यत्र नुदन्तु।
06.15 KTouch Keyboard Editor डायलॉग बॉक्स प्रदृष्टं भवति।
06.19 कीबोर्ड टाइटल फील्ड मध्ये Training Keyboard इति टङ्कयन्तु।
06.25 अस्माभिः कीलफलकाय काचित् भाषा चेतव्या भवति।
06.29 Language id ड्रॉप डाउन सूचीतः en चिन्वन्तु।
06.35 प्रस्तुतकीलफलके (कीबोर्ड) फॉन्ट्स परिवर्तयन्तु।
06.39 Set Keyboard Font इत्यत्र नुदन्तु।
06.42 Select Font – KTouch डायलॉग बॉक्स विंडो प्रदृष्टं भवति।
06.48 Select Font – Ktouch डायलॉग बॉक्स मध्ये Font निमित्तं Ubuntu इति, Font Style निमित्तं italics इति, Font Size निमित्तं 11 इति च चिन्वन्तु।
06.58 अधुना OK इत्यत्र नुदन्तु।
07.00 कीलफलकं (कीबोर्ड) रक्षितुं Save Keyboard As इत्यत्र नुदन्तु।
07.04 Save Keyboard – KTouch डायलॉग बॉक्स प्रदृष्टं भवति।
07.08 अधस्थं फोल्डर पथं ब्राउज़ कुर्वन्तु।
07.10 Root->usr->share->kde4->apps->Ktouch अपि च तत्र english.ktouch.xml चिन्वन्तु।
07.26 नेम फील्ड मध्ये Practice.keyboard.xml इति टङ्कयन्तु। Save इत्यत्र नुदन्तु।
07.33 फाइल ‘<name>.keyboard.xml’ फ़ॉर्मेट मध्ये रक्षितम्। Close इत्यत्र नुदन्तु।
07.42 किं भवन्तः नवीनकीलफलकम् (कीबोर्ड) अनुक्षणमुपयोक्तुं शक्नुवन्ति? नैव।
07.46 भवद्भिः एतत् kde-edu इति मेल आईडी प्रति मेल करणीयं भवति। अनन्तरमेतत् के-टच इत्यस्य अग्रिमसंस्करणे (वर्ज़न) सम्मिलिष्यति।
07.57 एतेन समं वयं के-टच इति पाठस्य अन्तं प्राप्तवन्तः।
08.01 अस्मिन् पाठे अस्माभिः प्रशिक्षितुं अपि च कलर सेटिंग्स मध्ये परिवर्तनं कर्तुं किञ्चन लेक्चर निर्माणम् अभ्यस्तम्।
08.08 वयं किञ्चन प्रस्तुतकीलफलकरचनायाः (कीबोर्ड लेआउट) उद्घाटनं, तस्याः परिवर्तनं, स्वकीयकीलफलकस्य (कीबोर्ड) निर्माणं च अवगतवन्तः।
08.15 अत्र भवतां कृते किञ्चन नियतकार्यम् अस्ति।
08.18 स्वकीयकीलफलकं (कीबोर्ड) निर्मान्तु।
08.20 कीलफलके (कीबोर्ड) वर्णे अपि च फॉन्ट लेवल मध्ये परिवर्तनं कुर्वन्तु। परिणामं परिशीलयन्तु।
08.28 अधस्थे लिंक मध्ये उपलब्धं विडियो पश्यन्तु।
08.31 एतत् स्पोकन ट्यूटोरियल इत्यस्य सारांशः अस्ति।
08.34 यदि भवतां समीपे उत्तमं बैंडविड्थ नास्ति तर्हि भवन्तः एतत् अवचित्यापि (डाउनलोड) द्रष्टुं शक्नुवन्ति।
08.38 स्पोकन ट्यूटोरियल प्रकल्पगणः (प्रोजेक्ट टीम) :
08.41 स्पोकन ट्यूटोरियल इत्यस्य उपयोगद्वारा कार्यशालाः अपि चालयति।
08.44 ये ऑनलाइन परीक्षाम् उत्तरन्ति तेभ्यः प्रमाणपत्रमपि दीयते।
08.48 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
08.54 स्पोकन ट्युटोरियल प्रोजेक्ट टॉक-टू-अ-टीचर प्रोजेक्ट इत्यस्य भागः अस्ति।
08.59 एतत् भारतसर्वकारस्य एमएचआरडी इत्यस्य “आईसीटी माध्यमेन राष्ट्रीयसाक्षरतामिशन” द्वारा समर्थितमस्ति।
09.07 अस्य विषये अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इति लिंक मध्ये उपलब्धमस्ति।
09.17 अस्य प्रतेः अनुवादकः प्रवाचकश्च वासुदेवः अधुना आपृच्छति। समयदानाय धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Vasudeva ahitanal