KTouch/S1/Getting-Started-with-Ktouch/Sanskrit
From Script | Spoken-Tutorial
Revision as of 10:20, 1 April 2014 by Vasudeva ahitanal (Talk | contribs)
Time | Narration |
---|---|
00.00 | KTouch इत्यस्य परिचयात्मकस्य spoken tutorial मध्ये स्वागतम्। |
00.04 | पाठेऽस्मिन् भवान् KTouch विषये KTouch interface इत्यस्य विषये च ज्ञास्यति। |
00.10 | भवान् अत्र ज्ञास्यति यत्, |
00.11 | सङ्गणकस्य आङ्ग्लाक्षरयुक्ते कीलफलके कथं स्पष्टतया, वेगेन कुशलतया च टङ्कनीयम् इति। |
00.18 | भवान् एतदपि अत्र ज्ञास्यति यत्, |
00.20 | कथं प्रतिवारं विना कीलफलकदर्शनं टङ्कनीयम् इति। |
00.24 | किं नाम KTouch? |
00.27 | KTouch इत्येतत् किञ्चन टङ्कनबोधकम् अस्ति। एतत् भवन्तं अदिगमयति यत् online संवादात्मक-कीलफलकमुपयुज्य कथं टङ्कनीयमिति। |
00.33 | भवान् भवतः स्वकीयवेगेन एतत् अधिगन्तुं शक्नोति। |
00.36 | अनेन भवान् क्रमशः भवतः टङ्कणगतिं परिशुद्धतया वर्धयितुं शक्नोति |
00.43 | KTouch इत्यत्र भवतः अभ्यासाय काठिन्यस्य विभिन्नस्तरेषु पाठाः टङ्कणप्रकाराः च उपलभ्यन्ते। |
00.50 | अत्र वयं Ubuntu Linux 11.10 इत्यस्मिन् KTouch 1.7.1 इत्यस्य उपयोगं कुर्वन्तः स्मः। |
00.59 | Ubuntu तन्त्रांशकेन्द्रात् भवान् KTouch इत्येतत् संस्थापयितुं शक्नोति। |
01.03 | Ubuntu तन्त्रांशकेन्द्रस्य अधिकावगमनार्थं कृपया एतज्जालपुटस्थं Ubuntu Linux इति पाठं पश्यतु। |
01.11 | अधुना KTouch उद्घाटयामः।. |
01.13 | प्रथमतया Dash Home नुदतु, यच्च सङ्गणकस्य उत्पीठे (desktop) उपरि वामपार्श्वे गोलाकारेण वर्तते। |
01.21 | किञ्चन अन्वेषणपेटिका (Search box) दृश्यते। |
01.24 | तस्मिन् KTouch इति टङ्कयतु। |
01.28 | KTouch इत्यस्य चित्रकं (Icon) अन्वेषणपेटिकायाः (search box) अधः दृश्यते। तदुपरि नुदतु। |
01.34 | KTouch इत्यस्य गवाक्षः दृश्यते। |
01.36 | विकल्पेन भवान् Terminal इत्यस्य साहाय्येन KTouch उद्घाटयतु। |
01.41 | Terminal उद्घाटयितुं CTRL, ALT T च सह नुदतु। |
01.47 | KTouch उद्घाटयितुं Terminal मध्ये ktouch इति समादेशं टङ्कयित्वा Enter नुदन्तु। |
01.55 | अधुना वयं KTouch interface इत्यस्मात् परिचिताः भवेम। |
01.59 | मुख्यसूचिकायां File, Training, Settings, Help सूचिकाश्च समाविष्टाः सन्ति। |
02.06 | टङ्कणाभ्यासाय Start New Session इत्यत्र नुत्त्वा नूतनकालांशमारभ्यताम्। |
02.11 | टङ्कणसमये स्थगयितुं Pause Session इत्यत्र नुदतु। |
02.14 | भवतः टङ्कणस्तरं द्रष्टुं Lecture Statistics इत्यत्र नुदतु। |
02.19 | Level इति जटिलतायाः स्तरं दर्शयति यच्च टङ्कनसमये प्रयुक्तकीलानां सम्बद्धमस्ति। |
02.27 | Speed इति भवान् प्रतिनिमेषं कीयन्ति अक्षराणि टङ्कितवान् इति दर्शयति। |
02.32 | Correctness सङ्केतकं भवता कियन्ति अक्षराणि शुद्धतया टङ्कितम् इति सङ्केतयति। |
02.39 | The New Characters in This Level इति क्षेत्रं तानि अक्षराणि दर्शयति येषां अभ्यासः भवता चितस्तरे अभ्यस्तव्यमस्ति। |
02.47 | The Teacher’s Line इत्येतत् यानि अक्षराणि टङ्कनीयानि तानि दर्शयति। |
02.51 | The Student’s Line इत्येतत् भवता कीलफलकमुपयुज्य यानि आक्षराणि टङ्कितानि तानि दर्शयति। |
02.58 | मध्ये कीलफलकं दृष्टं भवति। |
03.02 | कीलफलकस्य प्रथमपङ्क्तौ सङ्ख्याः, विशिष्टाक्षराणि backspace कीलं च दृश्यते। |
03.09 | टङ्किताक्षराणि मार्जयितुं Backspace कीलं नुदतु।. |
03.13 | कीलफलकस्य द्वितीयपङ्क्तौ कतिचन विशिष्टाक्षराणि अपि च Tab कीलम् अस्ति। |
03.20 | कीलफलकस्य तृतीयपङ्क्तौ कतिचन अक्षराणि colon, semicolon अपि च Caps lock कीलं भवति। |
03.28 | टङ्कणसमये अधोपङ्क्तिं गन्तुं Enter कीलं नुदतु। |
03.33 | बृहदक्षरनिमित्तं caps lock कीलं नुदतु। |
03.37 | कीलफलकस्य चतुर्थपङ्क्तौ अक्षराणि, विशिष्टाक्षराणि अपि च shift कीले च स्तः। |
03.45 | बृहदक्षरेण टङ्कयितुम् shift कीलेन सह अक्षरं टङ्कयतु। |
03.52 | कीलेषु उपरि विद्यमानानि अक्षराणि टङ्कयितुं Shift कीलेन सह तानि अक्षराणि टङ्कयतु। |
03.59 | उदाहरणार्थम्, 1 इति सङ्ख्यायुतकीले आश्चर्यसूचकचिह्नमपि अस्ति।
तर्हि आश्चर्यसूचकचिह्नं टङ्कयितुं Shift कीलेन सह १ नुदतु। |
04.11 | कीलफलकस्य पञ्चमपङ्क्तौ Ctrl, Alt, अपि च Function कीलानि सन्ति। अत्र space कीलमपि अस्ति। |
04.20 | अधुना वयं KTouch कीलफलकं, laptop कीलफलकम् अपि च desktop कीलफलकम् इत्येतेषु काः भिन्नताः सन्ति इति पश्यामः। |
04.29 | एतत् मनसि तिष्ठतु यत् KTouch कीलफलकं अपि च यत् कीलफलकं desktops laptops मध्ये उपयुज्यते तच्च उभयमपि समानम् इति। |
04.36 | अधुना वयं कीलफलके अङ्गुलीनाम् उचितस्थानं किम् इति पश्यामः। |
04.41 | एतत् slide पश्यन्तु। |
04.42 | एतत् अङ्गुल्यः तेषां नामनि च दर्शयति। |
04.46 | वामतः दक्षिणे स्थितस्य अङुलीनां नाम अस्ति -
कनिष्ठिका (Little finger),
|
04.51 | अनामिका (Ring finger),
मध्यमा (Middle finger), |
04.54 | तर्जनी (Index finger) अपि च
अङ्गुष्ठिका |
04.59 | भवतः कीलफलके भवतः वामहस्तं कीलफलकस्य वामभागे स्थापयतु। |
05.03 | दृढीकरोतु यत् भवतः कनिष्ठिका ‘A’ इति कीलस्य उपरि अस्ति इति। |
05.07 | अनामिका (Ring finger) ‘S’ इति कीलस्य उपरि, |
05.10 | मध्यमा (Middle finger) ‘D’ इति कीलस्य उपरि, |
05.13 | तर्जनी (Index finger)) ‘F’ इति कीलस्य उपरि भवेत्। |
05.17 | अधुना भवतः दक्षिणहस्तं कीलफलकस्य दक्षिणभागे स्थापयतु। |
05.20 | दृढीकरोतु यत् कनिष्ठिका (little finger) colon/semi-colon कीलस्य उपरि अस्ति इति। |
05.25 | अनामिका (Ring finger) ‘L’ इति कीलस्य उपरि. |
05.28 | मध्यमा (Middle finger) ‘K’ इति कीलस्य उपरि. |
05.30 | तर्जनी (Index finger) ‘J’ इति कीलस्य उपरि भवेत्। |
05.34 | भवतः दक्षिणाङ्गुष्ठिकां (right thumb) space इति कीलं नोदयितुं उपयुज्यताम्। |
05.37 | प्रथमवारं यदा भवान् KTouch इत्येतत् उद्घाटयति तदा Teacher’s Line इत्यस्य उत्सर्गलेखः (default text) दृश्यते। |
05.44 | एषः लेखः कथं पाठाः चेतव्याः अपि च टङ्कणीयाः इति निर्देशान् सूचीबद्धं करोति। |
05.51 | एतमनुशिक्षणमुद्दिश्य वयं अस्य औत्सर्गिकलेखस्य टङ्कणं परित्यज्य पाठं चिनुमः। |
05.57 | यदि इच्छति, भवान् इदमनुशिक्षणं स्थगयित्वा उत्सर्गलेखं टङ्कयितुं शक्नोति। |
06.02 | अधुना पाठान् टङ्कयितुं lecture चिनुमः। |
06.07 | Main menu मध्ये, File इति चित्वा Open Lecture नुदतु। |
06.12 | The Select Training Lecture File – ‘KTouch’ इति संवादपेटिकायां (dialog box) दृश्यते। |
06.17 | अधस्थसञ्चयं गवेषयतु
Root->usr->share->kde4->apps->Ktouch |
06.31 | english.ktouch.xml इति चित्वा Open इति नुदतु। |
06.36 | अत्र Teacher’s Line इति अधुना अक्षराणाम् अन्यविन्यासं दर्शयति। |
06.41 | अधुना टङ्कणमारभामहे। |
06.43 | उत्सर्गतया स्तरः प्रथमः भवति वेगः च शून्यं भवति। |
06.49 | अस्मिन् स्तरे नूतनाक्षराणि सन्ति यानि वयं अत्र अधिगच्छामः। |
06.55 | पश्यन्तु यत् cursor अस्ति Student’s Line मध्ये अस्ति इति। |
06.58 | भवतः कीलफलकमुपयुज्य teacher's line मध्ये प्रदर्शिताक्षराणि टङ्कयतु।
|
07.09 | यथा यथा वयं टङ्कयामः तथा तथा अक्षराणि Student’s Line मध्ये दृश्यन्ते। |
07.14 | अधुना वेगस्थानं पश्यतु। |
07.16 | यदा भवान् टङ्कयति तदा भवतः टङ्कणगत्यनुसारं वेगस्थाने सङ्ख्या वर्धते क्षीयते वा। |
07.22 | यदि भवान् टङ्कणं स्थगयति तर्हि वेगगणना स्थगिता भवति। |
07.25 | अधुना वयं ७ अपि च ८ सङ्ख्यां टङ्कयामः यच्च Teacher’s Line मध्ये नास्ति। |
07.31 | Student Line रक्तं जातम्। |
07.34 | किमर्थम्? यतोहि वयं दुष्टु टङ्कितवन्तः अथवा टङ्कणे कश्चन दोषः अस्ति। |
07.40 | दोषं मार्जयामः अपि च टङ्कणं अनुवर्तयामः। |
07.56 | यदा भवान् पङ्क्तेः अन्तं प्राप्नोति तदा द्वितीयपङ्क्तिं गन्तुं Enter कीलं नुदतु। |
08.02 | अत्र Teacher’s Line इत्येतत् अक्षराणां द्वितीयसमूहं दर्शयति। |
08.07 | Student’s line टङ्किताक्षरात् स्वच्छः अस्ति। |
08.11 | अधुना वयं कियत् सम्यक् टङ्कितवन्तः इति पश्यामः। |
08.14 | Correctness इति क्षेत्रं भवता कियत् प्रतिशतं परिशुद्धतया टङ्कितमिति दर्शयति। यथा, कदाचित ८० प्रतिशतमिति। |
08.23 | वयम् अस्माकं प्रथमटङ्कणपाठं समापितवन्तः स्मः। |
08.26 | प्रथमतः मन्दगत्या परिशुद्धतया टङ्कणाभ्यासं कर्तुं एषा उत्तमा पद्धतिः। |
08.31 | यदि वयं विनादोषं सम्यक्तया टङ्कणम् अभ्यस्तवन्तः तर्हि टङ्कणवेगं सुलभतया वर्धयितुं शक्नुमः। |
08.37 | अधुना नूतनटङ्कणपाठं आरभामः। |
08.40 | Start New Session इत्यत्र नुदतु। |
08.42 | Start New Training Session – ‘KTouch’ इति संवादपेटिकायां (dialog box) Start from First Level इति नुदतु। |
08.50 | भवान् किं पश्यति? |
08.52 | कश्चन अक्षराणां समूहः Teacher’s Line मध्ये दृश्यते। |
08.55 | Student’s Line इत्येतत् तु अक्षरेभ्यः स्वच्छं सत् रिक्तम् अस्ति। |
09.00 | अधुना टङ्कणमारभामहे। |
09.05 | अभ्याससमये कदाचित् भवान् स्थगयित्वा अनन्तर आरब्धुम् इच्छेत्। |
09.09 | तदा कथं कालांशं स्थगयति? |
09.12 | pause session इत्यत्र नुदतु। |
09.14 | इदानीं पश्यतु यत् वेगः नैव क्षीणः इति। |
09.17 | स्मरन्तु यत्, वेगक्षीणता तदा भवति यदा भवान् कालांशस्य स्थगनेन विना टङ्कणं स्थगयति। |
09.23 | पुनः टङ्कणं अनुवर्तयितुं Teacher’s line मध्यस्थं अग्रिमाक्षरं पदं वा टङ्कयतु। |
09.39 | यदा भवान् टङ्कनं परिसमाप्नोति तदा Correctness क्षेत्रं परिशीलयतु। एतत् भवतः टङ्कणपरिशुद्धतां दर्शयति। |
09.46 | एतेन वयं KTouch इत्यस्य परिचयात्मकपाठस्य अन्तम् आगतवन्तः। |
09.50 | पाठेऽस्मिन् वयं KTouch interface विषये ज्ञातवन्तः। तेन समं वयं कीलफलके अस्माकम् अङ्गुलीः कथं संस्थापनीयाः इत्यपि ज्ञातवन्तः। |
09.59 | Teacher’s Line दृष्ट्वा अक्षराणि टङ्कयन्तु येन भवतः प्रथमपाठं समापयतु। |
10.04 | अत्र भवतः कृते किञ्चन कार्यमस्ति। |
10.06 | KTouch उद्घाट्य प्रथमस्तरस्य टङ्कणपाठं समापयतु। अस्मिन् स्तरे टङ्कणाभ्यासं करोतु। |
10.13 | प्रतिकीलं समीचीनाङ्गुल्याः प्रयोगं स्मरन्तु। |
10.18 | अधोलिखिते link मध्ये विद्यमानं दृश्यचित्रं पश्यन्तु। एतत् पाठस्य सारांशं दर्शयति। |
10.24 | यदि भवतः समीपे उत्तम bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु। |
10.28 | spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति। ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते। |
10.37 | अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। |
10.43 | पाठोऽयं Talk to a Teacher इति परियोजनायाः भागः अस्ति। |
10.47 | इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति। |
10.55 | अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु। |
11.06 | अस्य अनुवादकः प्रवाचकः वासुदेवः, धन्यवादः। |