LibreOffice-Suite-Calc/C3/Images-and-Graphics/Sanskrit

From Script | Spoken-Tutorial
Revision as of 18:30, 21 February 2017 by PoojaMoolya (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 ‘लिब्रे आफिस् क्याल्क्’ मध्ये चित्रयोजनबोधक-प्रशिक्षणं प्रति स्वागतम्।
00:06 अस्मिन् प्रशिक्षणे वयम्:
00:09 लेखेषु चित्र-सञ्चिकां(इमेज् फैल्) योजयितुं अभ्यसामः।
00:13 उदाहरणार्थम् - jpeg, png अथवा bmp.
00:19 अत्र वयम् उबंटु लिनक्स् इत्यस्य 10.04 तमम् आवृत्तिं, लिब्रे आफिस् सूट् इत्यस्य 3.3.4 तमम् आवित्तिं च उपयुञ्जामहे।
00:28 स्प्रेड् शीट् मध्ये,

क्लिप् बोर्ड् साहाय्यात् , ग्राफिक् प्रोग्राम् द्वारा अथवा, ग्यालरि द्वारा वा चित्राणि योजयितुं शक्यन्ते।

00:39 अस्मिन् विषये किञ्चित् जानीमः।
00:43 “Personal-Finance-Tracker.ods” स्प्रेड् शीट् उद्घाटयामः।
00:48 प्रथमं, sheet 2 चिन्वन्तु।
00:51 अस्य पत्रस्य कृते चित्राणि योजयामः।
00:54 एकं कोशं चित्वा अनन्तरं चित्राणां योजनं वरम्।
00:59 भवतां गणकयंत्रे यदि इदानीं एव चित्राणि सन्ति तर्हि “Insert” विकल्पं नुत्वा पत्रं प्रति(शीट्) चित्राणि योजयितुं शक्यन्ते।
01:06 आनन्तरं “Picture” विकल्पं चित्वा “From File” विक्लल्पं चिन्वन्तु।
1:10 यत्र भवन्तः चित्रं योजयितुमिच्छन्ति तत् स्थानं चिन्वन्तु।
01:14 डेस्क् टाप् मध्ये “Images” सञ्चये कानिचन चित्राणि संगृहीतानि सन्ति।
01:20 तत्र “Image1” चिनुमः।
01:24 “Location” क्षेत्रे चित्रस्य नाम प्रदर्शितमस्ति।
01:28 “Open” कीलं नुदन्तु।
01:31 स्प्रेड् शीट् मध्ये चित्रं प्रदर्शितमस्ति।
01:38 अस्य लिंक्-करणद्वारा अपरं चित्रं योजयामः।
01:42 आदौ कोशमेकं चिनुमः।
01:45 “Insert” ,“Picture” एतद्वयं नुदामः। तत्र “From File” मध्ये अपरं चित्रम् चिनुमः।
01:55 “Image 2” नुदन्तु।
01:58 चित्रं लेखेन सह लिंक् कर्तुम्, “Link” विकल्पं चिन्वन्तु। किञ्च “Open” विकल्पं नुदन्तु।
02:05 दृश्यमानायां संवादपेटिकायां “Keep Link” कीलकं नुदन्तु।
02:11 इदानीं चित्रं सञ्चिकया सह लिंक् जातमस्ति।
02:15 लिंकिंग्-
02:17 वयं यदा सञ्चिकां क्लिक् कुर्मः तदा:प्रथमतया इदं, यदा सञ्चिका रक्षिता भवति तदा ‘स्प्रेड् शीट्’ इत्यस्य गात्रं न्यूनीकरोति।
02:23 अत्र अस्माकं स्प्रेड् शीट् न किमपि चित्रं धरति।
02:27 द्वितीयतया, इदम् उपयोक्तुः सञ्चिकाद्वयमपि प्रत्येकतया परिवर्तितुम् आवकाशम् प्रदास्यति।
02:32 चित्रसञ्चिकायां कृतानि सर्वाणि परिवर्तनानि स्प्रेड् शीट् मध्ये यत् चित्रं लिंक् जातं वर्तते तस्मै अन्वेति।
02:39 संचिकया सह यत् Image 2 लिंक् जातमस्ति तद्वयम् भस्मवर्णं (grayscale) प्रति परिवर्तयामः।
02:46 चित्रेऽस्मिन् परिवर्तनानि अनेतुम् GIMP इति चित्रपरिवर्तकं (editor) उपयुञ्जामहे।
02:50 अथवा भवन्तः निज-गणकयंत्रे विद्यमानस्य यस्य कस्यापि परिवर्तकस्य(editor) उपयोगम् कुर्वन्तु।
02:54 आदौ "Personal-Finance-Tracker.ods" रक्षित्वा पिदधातु।
03:01 अनन्तरं चित्र-लेखं उद्घाटयन्तु।
03:04 "Image 2" चिन्वन्तु।
03:06 इदानीम् मौस् इत्यस्य दक्षिणकीलं नुत्वा Open with GIMP चिन्वन्तु।
03:10 GIMP मध्ये Image 2 उद्घटति।
03:13 चित्रं grayscale प्रति परिवर्तयामः।
03:18 इदनीं चित्रं रक्षित्वा पिदधतु।
03:22 Personal-Finance-Tracker.ods उद्घातयन्तु।
03:26 Image 2 इदानिं भस्मवर्णे ( grayscale) दृश्यते।
03:30 परं, सञ्चिकानां लिंक्-करणस्य प्रमुखा समस्या नाम- यदा भवन्तः स्प्रेड् शीट् इत्येतत् अन्यगणकयन्त्रम् उपयोक्तारं वा प्रति प्रेशयन्ति तदा
03:40 ‘स्प्रेड् शीट्’, ‘चित्रसञ्चिका’ एतद्वयमपि प्रेषणीयं भवति।
03:44 नाम, भवद्भिः सञ्चिकाद्वयमपि कुत्र सङ्गृहीतम् इति स्मरणे स्थापनीयं भवति।
03:52 ‘स्प्रेड् शीट्’ इत्यस्य दक्षिणपार्श्वं प्रति चित्रमिदं नयामः।
03:58 चित्राणां योजानाय अपरं विधानं नाम चित्रसङ्ग्रहणसञ्चयतः
04:05 साक्षात् चित्रम् आकृष्य(ड्र्याग्) स्प्रेड् शीट् मध्ये त्यक्तव्यम्।
04:09 इदानीं तथैव चित्रम् आकृष्य स्प्रेड् शीट् मध्ये त्यजामः।
04:12 चित्रसञ्चिकाम् आकृष्य स्प्रेड् शीट् मध्ये अभीष्टस्थाने त्यजन्तु।
04:19 लेखं प्रति चित्रं योजितमस्ति।
04:23 CTRL , Z कीलकद्वयं नुत्वा प्राग्वत् (undo) कुर्मः।
04:29 आकर्षण-त्यागविधानेन(ड्र्याग्,ड्राप्) लिंक् कुर्मः।
04:34 सुलभमिदम्! चित्रस्य आकर्षणकाले
04:40 “Control”, “Shift” इति कीलकद्वयं समकालमेव गृह्णन्तु।
04:44 इदानीं चित्रसञ्चिका अस्मदीयसञ्चिकायां लिंक्-कृतं वर्तते।
04:48 CTRL , S कीलकद्वयस्य समकालमेव नोदनद्वारा क्याल्क् सञ्चिकां रक्षामः।
04:54 सञ्चिकां पिदधतु।
04:58 इदानीं चित्र-सङ्ग्रहसञ्चयं प्रति गच्छामः।
05:02 अस्माभिः योजितसञ्चिकायाः “Image 3.jpg” इत्यस्याः कृते “Image4.jpg” इति नामान्तरं दद्मः।
05:12 “Personal Finance Tracker.ods” सञ्चिकां पुनरुद्घाटयामः।
05:18 लिंक्-कृतं चित्रमिदानीं न दृश्यते!
05:22 लिंक्-लेखः दोषदूषितत्वं प्रदर्शयन् वर्तते!
05:25 इदं लिंक् नाशयन्तु(डिलीट् कुर्वन्तु)।
05:28 प्रशिक्षणमिदं स्वल्पकालं प्रति स्थगयित्वा निर्दिष्टकार्यं कुर्वन्तु।
05:32 क्याल्क् शीट् मध्ये चित्रमेकं लिंक् कृत्वा रक्षित्वा पिदधतु।
05:38 इदनीं यत्र चित्रं संगृहीतमस्ति तत् सञ्चयम् गत्वा तत् नाशयन्तु(डिलीट् कुर्वन्तु)।
05:43 क्याल्क् सञ्चिकाम् उद्घाट्य चित्रं दृश्यते न वा इति परीक्षन्तु।
05:49 चित्रसञ्चिकायाम् पुनः चित्रं पेस्ट् कुर्वन्तु।
05:53 क्याल्क् सञ्चिकायां चित्रं दृश्यते न वा इति परिक्षन्तु।
05:57 “Standard” टूलबार् इत्यस्य अधः नूतनं टूलबार पश्यन्तु।
06:02 अस्मै “Picture” इति नाम।
06:04 “Picture” टूलबार इत्यस्य उपरिष्टात् वामपार्श्वे विद्यमानः “Filter” इति विकल्पः चित्र-परिवर्तनसाधकविकल्पान् अस्मभ्यं ददाति।
06:13 CTRL , Z कीलकद्वयं नुत्वा प्राग्वत् कुर्मः।
06:18 “Graphics mode” कीलकं चित्रं भस्मवर्णं प्रति, शुक्ल-कृष्णमिश्रितवर्णं प्रति, वाटर् मार्क् प्रति च परिवर्तयितुं विद्यमानान् साहाय्यकविकल्पान् धरति।
06:26 “Picture” टूलबार मध्ये विद्यमानाः इतरे विकल्पाः अनन्तरं विचार्यन्ते।
06:32 क्लिप्बोर्ड्-द्वारा चित्रयोजनम् अभ्यसामः।
06:37 LibreOffice स्प्रेड् शीट् तः अन्यत् स्प्रेड् शीट् प्रति क्लिप् बोर्ड् मध्ये संगृहीतानां चित्राणां प्रतिकृतिं (copy) कर्तुं शक्यते।
06:44 “abc.ods” इति नाम्ना नूतनं स्प्रेड् शीट् रचयामः।
06:50 अयमस्माकम् उद्देशितसञ्चयः।
06:53 “Personal-Finance-Tracker.ods” सञ्चिकायाम् एकं चित्रम् इदानीमेव अस्ति।
06:59 अयमस्माकं सम्पन्मूलसञ्चयः।
07:02 इदनीं सम्पन्मूलसञ्चयात् यस्य चित्रस्य प्रतिकृतिः करणीया वर्तते तत् चित्रं चिन्वन्तु।
07:06 चित्रस्य प्रतिकृतिं रचयितुं “CTRL” , “C” कीलकद्वयं समकालमेव नुदन्तु।
07:11 इदानीं चित्रम् क्लिप्बोर्ड् मध्ये संगृहीतमस्ति।
07:15 “abc.ods” इति उद्देशितसञ्चिकाम् उद्घाटयामः।
07:21 भवद्भिः सेव्-कृतं चित्रं “abc.ods” मध्ये यत्र संस्थाप्यम् अस्ति तत्स्थानं चिन्वन्तु।
07:28 अस्मै सञ्चयाय चित्रं योजयितुं “CTRL”, “V” इति कीलकद्वयं नुदन्तु।
07:35 अस्मदुद्दिष्टसञ्चयं प्रति योजितमस्ति।
07:42 क्याल्क् ग्यालरि तः सक्षात् चित्रयोजनम् अभ्यसामः।
07:48 “Gallery” मध्ये स्प्रेड् शीट् प्रति योजनार्थं अनेकानि चित्राणि अनेकाः ध्वनयः च वर्तन्ते।
07:54 तादृशयोजनम् अभ्यसामः।
07:57 स्टांडेर्ड् साधनशलाकायां विद्यमानं “Gallery” चित्रकं नुदन्तु।
08:01 तेन सह, मेन्युबार मध्ये विद्यमानं “Tools” विकल्पं नुदन्तु। तत्र “Gallery” विकल्पं नुदन्तु।
08:09 इदानीं “Gallery” मध्ये विद्यमानेषु चित्रेषु , सञ्चयं प्रति योज्यं चित्रं चिन्वन्तु।
08:18 “Gallery” तः चित्रम् आकर्षयन्तु, स्प्रेड् शीट् मध्ये भवन्तः यत्र इच्छन्ति तत्र स्थापयन्तु।
08:26 “Personal-Finance-Tracker.ods” सञ्चिकायै चित्राणि योजितानि सन्ति।
08:34 अत्र प्रशिक्षणमिदं समाप्तिमेष्यति।
08:39 अत्र वयम् स्प्रेड् शीट् मध्ये विविधचित्रसञ्चिकानां योजनम् अभ्यसितवन्तः।
08:46 उदाहर्णार्थम्-

एकस्य सञ्चयस्य, क्लिप् बोर्ड-तः अथवा ग्यालरि-तः चित्राणां योजनम्।

08.52 अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
08.55 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
08.58 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
09.03 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
09.08 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
09.12 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
09.19 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
09.23 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
09.31 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
09.41 अस्य पाठस्य अनुवादकः प्रज्वलः अपि च प्रवाचकः ऐ ऐ टी बाम्बे तः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal