Java/C2/Errors-and-Debugging-in-Eclipse/Sanskrit
From Script | Spoken-Tutorial
Revision as of 11:42, 29 March 2017 by PoojaMoolya (Talk | contribs)
Time | Narration |
00:01 | एक्लिप्स् मध्ये दोषाः तेषां परिहाराश्च इत्याख्येऽस्मिन् पाठे भवतां स्वागतम्। |
00:07 | अस्मिन् पाठे वयं, |
00:10 | सामान्यस्य जावा प्रोग्राम् इत्यस्य लेखनसमये दृश्यमानानां दोषानां विषये, |
00:14 | ते दोषाः कथम् अभिज्ञातव्याः अपि च एक्लिप्स् इत्यस्य साहाय्येन ते कथं निवारणीयाः इत्यादिविषयान् अवगच्छामः। |
00:20 | पाठेऽस्मिन् वयं Ubuntu 11.10 अपि च Eclipse 3.7 इत्यस्य उपयोगं कुर्वन्तः स्मः। |
00:27 | पाठमिमम् अनुसर्तुं भवन्तः, |
00:30 | एक्लिप्स् मध्ये जावा प्रोग्राम् कथं रचयित्वा चालनीयं इति जानीयुः । |
00:33 | यदि नास्ति तर्हि एतत्सम्बद्धपाठार्थं अधो निर्दिष्टं जालपुटं पश्यन्तु। http://spoken-tuitorial.org/ |
00:41 | जावा प्रोग्राम् मध्ये सामान्यतया, |
00:45 | सेमिकोलन् यदि न दृश्यते, |
00:47 | सन्देशम् उभयतः विद्यमानं डबल् कोट् (" ") यदि न दृश्यते, |
00:50 | फैल् अपि च क्लास् इत्यनयोः नाम्नि व्यत्यास्यः भवति चेत्, अपि च |
00:52 | प्रिंट् स्टेट्मेंट् इतीदं लोवर् केस् मध्येयदि लिख्यते तर्हि दोषाः भवन्ति। |
00:55 | वयं किञ्चन प्रोग्राम् विलिख्य तत्र प्रत्येकमपि दोषं कृत्वा तस्य परिणामं पश्यामः। |
01:04 | अस्मत्सविधे Eclipse IDE अपि च HelloWorld इति पाठाय उपयुक्तं प्रोजेक्ट् अस्ति। |
01:11 | वयं प्रोजेक्ट् मध्ये नूतनं क्लास् विरचय्य उपयोक्तुं शक्नुमः। New…… Class. वयं क्लास् निमित्तं Error Free इति नाम दत्त्वा methods stubs इतीदं public static Void main इति चिनुमः। |
01:37 | अधुना package explorer इतीदं लघु कुर्मः। कमेंट् निष्कासयित्वा कैश्चन दोषैः सह प्रिंट् स्टेट्मेंट् योजयामः। |
02:23 | एक्लिप्स् मध्ये दोषपूर्णपङ्क्तिः वामसीमायां रक्तचिह्नेन दृश्यते। |
02:35 | अत्र, System.out.println इत्यस्यां पङ्क्तौ दोषः अस्तीत्यः तस्य वामपार्श्वे रक्तचिह्नं परिदृश्यते। |
02:44 | तच्चिह्नोपरि यदि मौस नयन्ति तर्हि दोषानां सूची दृश्यते। |
02:51 | प्रथमदोषत्वेन “Syntax error, insert semi-colon to complete BlockStatements” इति दृश्यते। |
02:58 | यतोहि, प्रोग्राम् इत्यस्य प्रत्येकमपि पङ्क्तिः सेमिकोलन् इत्यनेन परिसमाप्तं भवेत्। |
03:03 | अतः, वयं पङ्क्तेः अन्ते सेमिकोलन् योजयामः। |
03:08 | Ctrl s इत्यस्य नोदनेन सञ्चिकां रक्षन्तु। |
03:16 | अवधीयताम्, यदा वयं सेमिकोलन् योजयित्वा रक्षामः तदा प्रथमः दोषः निवार्यते। |
03:21 | अधुना केवलं एकः दोषः वर्तते। सः, – “HelloWorld cannot be resolved to a variable” इति। अर्थात्, कश्चन अपि सन्देशः यदि कन्सोल् मध्ये दृश्येत तर्हि सह सन्देशः डबल् कोट् इत्यस्यान्तरे भवेत् इति। |
03:37 | यदि कोट् नास्ति तर्हि जावा HelloWorld इतीदं वेरियेबल् इत्यस्य नाम इति चिन्तयति। |
03:41 | अहुना वयं सन्देशस्य आदौ अन्ते च डबल् कोट् योजयामः। |
03:55 | रक्षितुं Ctrl s नुदन्तु। वयमधुना रक्तचिह्नं गत्वा प्रोग्राम् दोषमुक्तम् अस्तीति दृष्टुं शक्नुमः। अतः वयम् इदं प्रोग्राम् चालयित्वा परिणामं पश्यामः। |
04:10 | Run As ….. Java Applications …... |
04:15 | अत्र वयं सन्देशः कन्सोल् मध्ये मुद्रितः इति दृष्टुं शक्नुमः। |
04:22 | अधुना वयम् अग्रिमं दोषं पश्यामः। |
04:25 | दोषोऽयं यदा फैल् अपि च क्लास् इत्यनयोः नाम विभिन्नं वर्तते तदा सम्भवति। |
04:29 | सामान्यतया एषः दोषः एक्लिप्स् मध्ये न भवति। |
04:31 | यतोहि, वयं फैल् इत्यस्य रचनाय New Class wizard उपयुञ्ज्महे अपि च एक्लिप्स् स्वयं फैल् रचयति। |
04:41 | परं, यदा वयम् अन्यत्र जावा फैल् विरचय्य प्रोजेक्ट् कृते यदि योजयितुमिच्छामः तर्हि एषः दोषः सम्भवितुं शक्यते। |
04:47 | वयमधुना क्लास् इत्यस्य नाम परिवर्त्य दोषं कुर्मः। |
04:59 | जावा इति केस् सेन्सिटीव् अस्तीत्यतः क्लास् अपि च फैल् इत्यनयोः नाम परस्परं न मिलति। |
05:09 | पश्यन्तु, वामभागे रक्तचिह्नं दृश्यते। |
05:14 | अपि च तत्र “The public type errorfree must be defined in its own file” इति दृश्यते। |
05:20 | अपि च errorfree इति पदं रक्तवर्णे अस्तीत्यपि पश्यन्तु। |
05:29 | एक्लिप्स् अस्मभ्यम् उत्तमान् परिहारान् सूचयति। वयमत्र परिहारद्वयं पश्यामः। |
05:35 | प्रथमः, Rename compilation unit to errorfree java. |
05:39 | द्वितीयः, “Rename type to ErrorFree”. |
05:43 | अस्मभ्यं द्वितीयमपेक्षितम् अपि च यदा वयं ErrorFree इति परिवर्तयामः तदा दोषः परिमार्ज्यते। |
06:03 | अग्रिमः दोषः यदा स्टेट्मेंट् मध्ये दुष्ट यत्किञ्चित् टङ्कयामः तदा भवति। |
06:09 | वयमधुना बृहत् S इतीदं लघु s प्रति परिवर्तयामः। |
06:15 | अधुना वयं रक्तचिह्नं पश्यामः। |
06:18 | अपि च तत् वदति यत्, system cannot be resolved इति। |
06:23 | अर्थात्, जावा, system इति नाम्ना क्लास्, आब्जेक्ट् अथवा वेरियेबल् इत्यस्य निरीक्षायामासीत्। |
06:28 | परं कोड् मध्ये तादृशं किञ्चन अपि आब्जेक्ट् नास्ति। |
06:33 | अतः, वयमधुना परिहारं पश्यामः। |
06:39 | वयमत्र एकादशपरिहारान् पश्यामः। तेषु वयम् अष्टमम् इच्छामः। |
06:48 | Change to 'System' (java.lang) |
06:58 | पश्यन्तु। यदा वयं बृहत् S इतीदं परिवर्तयामः तदा दोषः परिमार्ज्यते। |
07:06 | एवं वयम् एक्लिप्स् इत्यस्य साहाय्येन जावा मध्ये दोषान् पश्यामः अपि च परिमार्जयामः। |
07:15 | एतेन वयं अस्य पाठस्य अन्तमागतवन्तः। |
07:18 | अस्मिन् पाठे वयम्, |
07:20 | जावा प्रोग्राम् लेखनसमये ये दोषाः भवन्ति तान् अपि च, |
07:23 | एक्लिप्स् इत्यस्य साहाय्येन तेषां निवारणं कथमिति ज्ञातवन्तः। |
07:30 | अस्य पाठस्य अभ्यासाय, अधः विद्यमाने कोड् मध्ये दोषम् अन्विश्यताम्। |
07:39 | स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु। एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति। |
07:48 | यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु। |
07:53 | spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति। |
07:57 | ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते। अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। |
08:07 | स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। |
08:11 | इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति। |
08:17 | अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु। |
08:23 | अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः। |