Difference between revisions of "C-and-Cpp/C2/Tokens/Sanskrit"
From Script | Spoken-Tutorial
(Created page with "{| border=1 || '''Time''' || '''Narration''' |-| 00:01 |C अपि च C++ मध्ये टोकन्स् विषयकेऽस्मिन् पाठे भव...") |
(No difference)
|
Revision as of 17:20, 15 January 2015
| Time | Narration |
| C अपि च C++ मध्ये टोकन्स् विषयकेऽस्मिन् पाठे भवद्भ्यः स्वागतम्। | |
| अस्मिन् पाठे वयं, टोकन् इत्येतेषां विवरणं तेषाम् उपयोगः च कथं इति ज्ञास्यामः। | |
| इदं वयं किञ्चन उदाहरणसहितं ज्ञास्यामः। | |
| कतिचन दोषाः तेषां निवारणविधानं च पश्यामः। | |
| पाठस्यास्य रचनासमये अहं उबंटु 11.10 इति आपरेटिंग् सिस्टम् मध्ये gcc अपि च g++ कंपैलर् 4.6.1 इत्यस्य उपयोगं कृतवान् अस्मि। | |
| पाठमिमं प्रास्ताविकेन आरभामहे। | |
| टोकन् इतीदं Data types, Variables, Constants अपि च Identifiers इत्येतेषां कृते उपयुज्यमानं सामान्यं पदम्। | |
| अस्माकं प्रोग्राम् इत्यनेन आरभामहे। | |
| अहम् एतावता एव सम्पादके (Editor) कोड् टङ्कितवान् अस्मि। | |
| तत् उद्घाटयामि। | |
| अस्माकं सञ्चिकायाः नाम Tokens डाट् c. | |
| अस्मिन् प्रोग्राम् मध्ये वेरियेबल् कृते आरम्भिकमौल्यं दत्वा तत्मौल्यं प्रिंट् कर्तुं शक्नुमः। | |
| अधुना, इदं कोड् विवृणोमि। | |
| एषा अस्माकं हेडर् सञ्चिका। | |
| एतत् अस्माकं मैन् फंक्षन्। | |
| अत्र, int (इंट्) इति कीवर्ड अस्ति। | |
| कीवर्ड इत्येतेषाम् अर्थं कंपैलर् जानाति। | |
| a इति इंटिजर् वेरियेबल्। | |
| वयम् अस्य कृते द्वे इति मौल्यं दत्तवन्तः स्मः। | |
| अस्मै इनिशियलैजेशन् (initialization) इति वदामः। | |
| यदि मौल्यं न ददाति तर्हि तस्य कृते डिक्लेरेशन् (declaration) इति वदामः। | |
| अत्र, b इति कान्स्टण्ट (constant) अस्ति। | |
| वयं b इत्यस्य कृते चत्वारि इति मौल्यं दत्वा इनिशियलैज् (initialize) कृतवन्तः स्मः। | |
| रीड् ओन्लि वेरियेबल् इति आरचयितुं कान्स्ट् (const) इति कीवर्ड् उपयुञ्ज्महे। | |
| कीवर्ड् अपि च कान्स्टण्ट् इत्यनयोः विषये इतोऽप्यधिकं ज्ञातुम् अस्माकं स्लैड् प्रति गच्छामः। | |
| कीवर्ड् कृते ये अर्थाः सन्ति ते परिवर्तयितुं न शक्यन्ते। | |
| कीवर्ड् इत्येतानि वेरियेबल्-नाम इव उपयोक्तुं न शक्यन्ते। | |
| C मध्ये द्वात्रिंशत् कीवर्ड सन्ति। | |
| तेषु कतिचन, auto, break, case, क्यार्(char), ईनम्(enum), एक्स्टर्न्(extern) | |
| कान्स्टंट् : एतानि स्थिरमौल्यानि। | |
| यदा प्रोग्राम् एक्सिक्यूट् भवति तदा एतानि न परिवर्त्यन्ते। | |
| कान्स्टंट् मध्ये विधद्वयं, न्यूमरिक् (Numeric) constants अपि च क्यारक्टर् (Character) constants इति। | |
| अधुना अस्माकं प्रोग्राम् प्रति गच्छामः। | |
| अत्र C इत्यस्य दत्तांशप्रकारः (डाटाटैप्) फ्लोट् अस्ति। | |
| वयं अस्मै 1.5 इति मौल्यं दत्तवन्तः स्मः। | |
| डटाटैप् इति कैश्चित् नियमैः संहतं किञ्चन सीमितं सेट् अस्ति। | |
| अत्र d इति किञ्चन वेरियेबल् अस्ति। | |
| क्यार् (char) अपि च सिंगल् कोट् इत्येतयोः यदि उपयोगं कुर्मः तर्हि character इत्यस्य उपयोगं कुर्वन्तः स्मः इत्यर्थः। | |
| अतः, d इति किञ्चन क्यारक्तर् वेरियेबल् अस्ति यस्मिन् ‘A’ वर्तते। | |
| एतेन, int, double, float अपि च char इत्येतानि दत्तांशप्रकाराः इति ज्ञायन्ते। | |
| a, c अपि च d इत्येतानि वेरियेबल्स् सन्ति। | |
| अधुना अस्माकं स्लैड् प्रति गच्छामः। | |
| दत्तांशप्रकारः (डाटाटैप्) अपि च वेरियेबल् इत्येतयोः विषये इतोऽप्यधिकं ज्ञास्यामः। | |
| दतांशप्रकारः (डाटाटैप्) : इंटिजर् दत्तांशप्रकारात् आरभामहै। | |
| इदं int रूपेण डिक्लेर् भवति। | |
| इंटिजर् डाटाटप् इत्यस्य मुद्रणार्थम् अस्माभिः पर्संट् d (%d) इति फार्म्यट् स्पेसिफ़ैयर् उपयोक्तव्यम्। | |
| एवमेव, फ्लोट् अपि च %f इति floating pointnumber इत्येतेषां कृते उपयुज्यते। | |
| character दत्तांशप्रकारेभ्यः क्यार् (char) अपि च %c इत्यस्य उपयोगं कुर्मः। | |
| अपि च डबल्-दत्तांशप्रकारेभ्यः डबल् अपि च %lf इति फार्म्याट् स्पेसिफैयर् उपयुञ्ज्महे। | |
| वयमधुना दत्तांशप्रकाराणां व्याप्तिं (रेंज्) पश्यामः। | |
| एषा इंटिजर् दत्तांशप्रकारस्य व्याप्तिः। | |
| एषा फ्लोटिंग् पायिंट् इत्यस्य व्याप्तिः। | |
| एषा क्यारेक्टर् इत्यस्य व्याप्तिः। | |
| अपि च एषा डबल् इत्यस्य व्याप्ति। | |
| वेरियेबल् कृते यत् मौल्यं दत्तमस्ति तत् अस्याः व्याप्तेः अपेक्षया अधिकं न्यूनं वा न भवेत्। | |
| अधुना वेरियेबल् विषये इतोऽप्यधिकं ज्ञास्यामः। | |
| वेरियेबल् इति किञ्चन दत्तांशनाम (डाटानेम्) अस्ति। | |
| इदं दत्तांशमौल्यसङ्ग्रहणाय उपय्क्तुं शक्यते। | |
| प्रोग्राम् यदा चाल्यते तदा तदा एतस्य मौल्यं परिवर्तयितुं शक्यते। | |
| वेरियेबल् इत्यस्य उपयोगात् प्राक् तत् डिक्लेर् करणीयम्। | |
| वेरियेबल् कृते अर्थपूर्णानि नामानि दातव्यम्। | |
| उदाहरणार्थम्, जान, मार्क्स्, सम् इत्यादीनि। | |
| अधुना अस्माकं प्रोग्राम् प्रति गच्छामः। | |
| अत्र, प्रिंट् एफ् (printf) इति नियोगस्य (फंक्षन्) ऐडेंटिफ़ैयर् इत्यस्य नाम अस्ति। | |
| अस्माकं स्लैड् प्रति गच्छामः। | |
| अधुना ऐडेंटिफ़ैयर् विषये ज्ञास्यामः। | |
| ऐडेंटिफ़ैयर् इत्येतानि उपयोक्त्रा निर्धारितानि नामानि सन्ति। | |
| ऐडेंटिफ़ैयर् मध्ये वर्णाः सङ्ख्याः वा भवितुमर्हन्ति। | |
| बृहदक्षराणि लघ्वक्षराणि वा उपयुक्तं भवेत्। | |
| प्रथमाक्षरं वर्णः अथवा अंडर्स्कोर् भवेत्। | |
| अधुना अस्माकं प्रोग्रम् प्रति गच्छामः। | |
| अत्र वयं वेरियेबल् अपि च कान्स्टंट् इत्येते इनिशियलैस् कृतवन्तः स्मः। | |
| अत्र वयं तानि प्रिंट् कुर्मः। | |
| अपि च एतत् अस्माकं रिटर्न् स्टेट्मेंट्। | |
| अधुना save नुदन्तु। | |
| अधुना प्रोग्राम् इतीदं एक्सिक्यूट् कुर्मः। | |
| भवतां कीलफलके Ctrl, Alt अपि च T कीलानि एकधा एव नुत्वा टर्मिनल् विंडो उद्घाटयन्तु। | |
| कंपैल् कर्तुं, “gcc” स्पेस् tokens डाट् c स्पेस् हैफन् (-) ओ (O) स्पेस् “tok” इति टङ्कयित्वा Enter नुदन्तु। | |
| एक्सिक्यूट् कर्तुं डाट् स्ल्याश् “tok” इति टङ्कयन्तु। | |
| फलितं दृश्यते। | |
| अत्र, दशमांशबिन्दोः अनन्तरं षड्मौल्यानि सन्ति। | |
| अपि च अत्र मौल्यद्वयमस्ति। | |
| अधुना, अस्य कारणम् अन्विषामः। अस्माकं प्रोग्राम् प्रति गच्छामः। | |
| यतोहि अत्र पर्सेंट् पायिंट 2f इति अस्ति। | |
| वयं दशमांशबिन्दोः अनन्तरं सङ्ख्याद्वयमेव प्रिंट् कर्तुं शक्नुमः। | |
| यदि अत्र मह्यं फलितं सङ्ख्यात्रयात्मकं भवेत् तर्हि, | |
| % point 2f इत्येत् % point 3f इति परिवर्तनीयम्। | |
| Save नुदन्तु। | |
| टर्मिनल् प्रति गच्छन्तु। | |
| पूर्ववत् कंपैल् कृत्वा एक्सिक्यूट् कुर्वन्तु। | |
| अत्र दशमांशबिन्दोः अनन्तरं सङ्ख्यात्रयं दृष्टुं शक्नुमः। | |
| अधुना प्रोग्राम् इतीदं c++ मध्ये एक्सिक्यूट् कुर्मः। | |
| प्रोग्राम् प्रति गच्छन्तु। | |
| अहमत्र किञ्चित् परिवर्तनं करोमि। | |
| प्रथमं भवतां कीलफलके shift, ctrl अपि च s कीलानि एकधा एव नुदन्तु। | |
| अधुना सञ्चिकां डाट् सि पि पि (.cpp) इति एक्स्टेन्शन् इत्यनेन सह रक्षन्तु। | |
| हेडर् सञ्चिकां ऐ ओ स्ट्रीम् (iostream) इति परिवर्तयामः। | |
| using स्टेट्मेंट् योजयन्तु। | |
| अपि च रक्षन्तु। | |
| C++ मध्ये, पङ्क्तिं मुद्रापयितुं cout फंक्षन् इत्यस्य उपयोगः भवति इत्यतः अत्र, printf स्टेट्मेंट् इत्यस्य स्थाने cout स्टेट्मेंट् लिखन्तु। | |
| Search for and replacetext इति विकल्पस्योपरि नुदन्तु। | |
| अत्र, printf ओपनिंग् ब्रैकेट् इति टङ्कयन्तु। | |
| अपि च, कालम् मध्ये cout अपि च द्वे ओपनिंग् आंगल् ब्रैकेट् इत्येते टङ्कयन्तु। | |
| अधुना, Replace All पिञ्जं नुत्वा अनन्तरं क्लोस् इत्यत्र नुदन्तु। | |
| अस्मभ्यं format specifier अपि च स्ल्याश् n इत्येतयोः आवश्यकता नास्ति। | |
| ते निष्कासयामः। | |
| अधुना, comma इत्यस्यापेक्षया, द्वे ओपनिंग् ब्रैकेट् टङ्कयन्तु। | |
| Save नुदन्तु। क्लोसिंग् ब्रैकट् निष्कायन्तु। | |
| अनन्तरं, द्वे ओपनिंग् आंगल् ब्रैकेट् टङ्कयन्तु। | |
| अपि च डबल् कोट्स् इत्यस्यान्तः स्ल्याश् एन् इति टङ्कयन्तु। | |
| अधुना Save नुदन्तु। | |
| प्रोग्राम् एक्सिक्यूट् कुर्मः। टर्मिनल् प्रति गच्छामः। | |
| कंप्लैल् कर्तुं g++ स्पेस् tokens डाट् cpp स्पेस् हैफन् ओ स्पेस् टि ओ के वन् इति टङ्कयन्तु। | |
| अत्र, tokens.c इति सञ्चिकायाः output parametertok इति सञ्चिका ओवर् रैट् न भवतु इति धिया tok1 इति टङ्कितवन्तः स्मः। | |
| अधुना Enter नुदन्तु। | |
| एक्सिक्यूट् कर्तुं डाट् स्ल्याश् tok1 इति टङ्कयन्तु। | |
| फलितं दृश्यते। | |
| अधुना वयं कतीनाञ्चन दोषानां विषये पश्यामः। | |
| अस्माकं प्रोग्राम् प्रति गच्छामः। | |
| अत्र, b इत्यस्य कृते पुनः अष्ट इति मौल्यं ददामि। | |
| Save नुदन्तु। अधुना किं भवति इति पश्यामः। | |
| टर्मिनल् प्रति गच्छामः। | |
| प्राम्प्ट् इति रिक्तं करोमि। | |
| पूर्ववत् कंपैल् कुर्वन्तु। | |
| अत्र tokens.cpp इति सञ्चिकायां सप्तमपङ्क्त्यां दोषः दृष्टुं शक्यः। | |
| Assignment of read only variable b. | |
| अस्माकं प्रोग्राम् प्रति गच्छामः। | |
| यतोहि, b कान्स्टंट वर्तते। कान्स्टंट् इत्येतानि स्थिरमौल्यानि सन्ति। | |
| यदा प्रोग्राम् एक्सिक्यूट् भावन्ति तदा तानि न परिवर्तन्ते। | |
| अतः दोषः दृश्यते। दोषमिमं परिहरामः। | |
| एतत् नाशयित्वा Save नुदन्तु। | |
| पुनः एक्सिक्यूट् कुर्मः। टर्मिनल् प्रति गच्छामः। | |
| पूर्ववत् कम्पैल् कुर्वन्तु। | |
| पूर्ववत् एक्सिक्यूट् कुर्वन्तु। पश्यन्तु, अधुना कार्यं करोति। | |
| अधुना वयम् अपरं सामान्यदोषं पश्यामः। | |
| प्रोग्राम् प्रति गच्छामः। | |
| अत्र सिंगल् कोट् इति त्यजामि इति चिन्तयन्तु। Save नुदन्तु। | |
| एक्सिक्यूट् कुर्मः। टर्मिनल् प्रति गच्छामः। | |
| पूर्ववत् कम्पैल् कुर्मः। | |
| अस्माकं tokens डाट् cpp इति सञ्चिकायां नवमपङ्क्तौ दोषः दृश्यते। | |
| A was not declared in the scope. अस्माकं प्रोग्राम् प्रति गच्छामः। | |
| यतो हि, सिंगल् कोट् इत्यस्यान्तरे विद्यमानं यत्किञ्चिदपि वर्णः इति परिगण्यते। | |
| अपि च अत्र वयं d इत्येतत् character वेरियेबल् इव ड्क्लेर् कृतवन्तः स्मः। | |
| अधुना दोषमिमं परिहरामः। अत्र सिंगल् कोट् टङ्कयन्तु। | |
| Save नुदन्तु। एक्सिक्यूट् कुर्वन्तु। | |
| टर्मिनल् प्रति गच्छामः। | |
| पूर्ववत् कम्पैल् कुर्मः। | |
| पूर्वावत् एक्सिक्यूट् कुर्मः। पश्यन्तु, एतत् कार्यं करोति। | |
| अधुना स्लैड् प्रति गच्छामः। | |
| पाठस्यास्य सारांशः - | |
| अस्मिन् पाठे वयं - | |
| डाटा टैप् – उदाहरणार्थम्, int, double, float इत्यादीनि। | |
| वेरियेबल् – उदाहरणार्थम्, int=2; इत्यादीनि। | |
| ऐडेंटिफैयर् – उदाहरणार्थम्, printf अपि च | |
| कान्स्टंट् – उदाहरणार्थम्, double const b=4; इत्यादिविषयान् ज्ञातवन्तः। | |
| अभ्यासार्थम्, simple interest प्राप्तुं किञ्चन प्रोग्राम् लिखन्तु। | |
| सङ्केतः : principal * rate * time अपान् (upon) 100 | |
| स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु। | |
| यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु। | |
| spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति। | |
| ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति। | |
| अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। | |
| स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। | |
| इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति। | |
| अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु | |
| अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः। |