Difference between revisions of "BOSS-Linux/C2/File-System/Sanskrit"
From Script | Spoken-Tutorial
(Created page with "{| border=1 !Time !Narration |- | 00:00 |Linux File System विषये spoken tutorial मध्ये स्वागतम् |- | 00:04 |अहं Ubuntu 10.04 उप...") |
|||
(One intermediate revision by one other user not shown) | |||
Line 7: | Line 7: | ||
|- | |- | ||
| 00:04 | | 00:04 | ||
− | |अहं | + | |अहं Linux उपयुञ्जे |
|- | |- | ||
| 00:08 | | 00:08 | ||
Line 116: | Line 116: | ||
|- | |- | ||
| 05:01 | | 05:01 | ||
− | |किन्तु ,यदा वयम् कस्यां-चित् संधारिकायां भवाम: तदा सा संधारिका उद्घाटित - संधारिका / कार्यकारिणी संधारिका वा इति उच्यते, | + | |किन्तु ,यदा वयम् कस्यां-चित् संधारिकायां भवाम: तदा सा संधारिका उद्घाटित - संधारिका / कार्यकारिणी संधारिका वा इति उच्यते, |
|- | |- | ||
| 05:09 | | 05:09 |
Latest revision as of 17:10, 13 January 2015
Time | Narration |
---|---|
00:00 | Linux File System विषये spoken tutorial मध्ये स्वागतम् |
00:04 | अहं Linux उपयुञ्जे |
00:08 | वयम् आशास्महे यत् आदेशानां प्राथमिकसंकल्पनां तथैव Linux - प्रणाल्या: आरम्भ: कथं करणीय: इति भवान् जानाति |
00:16 | यदि रुचिमन्त: भवन्त: तर्हि अस्मिन् जालपुटे अन्यस्मिन् अपि spoken tutorial मध्ये इदं ज्ञानम् उपलभ्यमस्ति http://spoken-tutorial.org |
00:28 | अपि च जानातु यत् linux अक्षर-संवेद्यम् अस्ति |
00:32 | अस्मिन् पाठे विशेषत्वेन अनुक्ता: सर्वे आदेशा: लघु-अक्षरै: टङ्किता: सन्ति |
00:41 | Linux-मध्ये प्राय: सर्वं सञ्चिका-रूपं भवति |
00:44 | तर्हि का नाम सञ्चिका ? व्यवहारे वयं जानीम: यत् सञ्चिका नाम सा यस्याम् अस्माकम् पत्राणि सामग्री: च वयं संगृह्णीम: |
00:54 | तथैव Linux - मध्ये सञ्चिका सामग्री-संग्राहिका भवति |
01:00 | अन्यच्च किं नाम संधारिका? |
01:03 | संधारिका इत्युक्ते सञ्चिकानां , उपसंधारिकाणां च संग्रह इति वक्तुं शक्यम् |
01:10 | संधारिका सञ्चिका: व्यवस्थापयितुं साहाय्यं करोति |
01:16 | Windows मध्ये यत् धारिका इति उच्यते, तादृशम् एव इदम् |
01:20 | अनेन भिन्न-उपयोक्-र्तॄणां स्वस्य संधारिका:, सञ्चिका: च भवितुम् अर्हन्ति या: अन्ये द्रष्टुं परिवर्तयितुं वा न शक्नुयु: |
01:30 | अपि च यदि संधारिका: न भवेयु: तर्हि प्रणाल्यां विद्यमानानां सर्व-सञ्चिकानां भिन्न-नामानि आवश्यकानि स्यु:,यानि व्यवस्थापयितुं कष्टंकरं भवेत् |
01:41 | यद्यपि संधारिकाणां , सञ्चिकानां च इमा: व्याख्या: सामान्यत: अवगन्तुं समीचीना: सन्ति तथापि ता: संपूर्णत: यथार्था: न सन्ति |
01:51 | सञ्चिकाया: एकं नाम भवति ,कतिचन धर्मा: भवन्ति ,अथवा प्रशासकीय-सूच्यांश: भवति इत्युक्ते सञ्चिकाया: रचना-परिवर्तन-दिनाङ्क: ,तदनुमतिश्च |
02:05 | सञ्चिकाविन्यासे inodeनामा एक: विशिष्ट: सामग्रीखण्ड: भवति , यस्मिन् धर्मा: रक्षिता: भवन्ति अपि च सञ्चिकाया: दैर्घ्यं , disk मध्ये संग्रहण-स्थानं च इत्यस्य ज्ञानं समाविष्टं भवति |
02:20 | सञ्चिकाया:विन्यास: inode - क्रमाङ्कम् उपयुङ्क्ते , अस्माकं सारल्यार्थं धारिकाविन्यास: सञ्चिकाया: नामकरणमात्रं करोति , यत: दीर्घ-क्रमाङ्कस्य स्मरणापेक्षया नाम्नां स्मरणं सुकरं भवति |
02:35 | वस्तुत: संधारिका अन्य-सञ्चिका: न रक्षति ,अपि तु सा स्वयमेव एका सञ्चिका अस्ति या inode क्रमाङ्कान् ,अन्य-सञ्चिकानां नामानि च संधारयति एतच्च तस्या: अतिसरलव्याख्याया: विरोधि भाति |
02:49 | वस्तुत: Linux - मध्ये सञ्चिकाया: प्रकारत्रयमस्ति - |
02:54 | १ नियत-सञ्चिका, सामान्य-सञ्चिका वा - एषा केवलं अक्षरयुतां सामग्रीं धारयति |
03:01 | २ संधारिका -इदं पूर्वतन-अवसर्पिण्यां दृष्टपूर्वम् |
03:07 | ३ Device Files - Linux मध्ये सर्वाणि यन्त्रांश-उपकरणानि ,आनुषाङ्गिक-उपकरणानि च सञ्चिका-रूपेण प्रदर्श्यन्ते |
03:14 | Linux - मध्ये CD, Harddisk , usb stick च इति प्रत्येकं सञ्चिका भवति , किन्तु किमर्थम् एवम्? इति चेत् अनेन सामान्य- सञ्चिका इव इमानि उपकरणानि पठितुं लेखितुं च शक्यानि |
03:32 | Linux - मध्ये सर्वा: सञ्चिका: संबद्धा: भवन्ति , संक्षेपेण सर्वा: कुटुम्बं रचयन्ति वयम् इव |
03:39 | संधारिकायां विद्यमानानां सञ्चिकानां : उपसंधारिकाणां च परस्पर-संबन्ध: जन्य-जनक-भाव-संबन्ध: इव भवति, एवञ्च linux इत्यस्य सञ्चिका-व्यवस्थाया: रेखावृक्ष: उत्पन्न: भवति |
03:53 | उपरि मूलं भवति यत् frontslash (/) द्वारा निर्दिश्यते , तस्मिन् अन्या: सर्वा: सञ्चिका: संधारिका: च भवन्ति |
04:04 | अनेन सञ्चिकात: संधारिकात: वा अन्यत्र गमनं सुकरं भवति , यदि वयम् उचितं मार्गं जानीम:, |
04:12 | यदा Linux प्रणाल्यां वयम् कार्यं कुर्म: तदा अनेन वृक्षेण सह गच्छाम: इति भाति |
04:18 | एकेन आदेशेन भवान् एकस्मात् स्थानात् अन्यत्र गन्तुं शक्नुयात् |
04:24 | चित्तवेधकं भाति इदं , तथैव अस्ति च ,वयं पश्याम: एव |
04:29 | यदा वयं Linux प्रणाल्यां login कुर्म: तदा उत्सर्गेण वयं गृह-संधारिकायां भवाम: |
04:36 | अधुना terminal उद्घाटयाम: |
04:39 | गृह-संधारिकां द्रष्टुं ,आदेशस्य संसूचके टङ्कयतु
"echo space dollar capitalमध्ये H-O-M-E " , enter नुदतु च |
04:53 | अनेन गृह-संधारिकाया: मार्गनाम दृश्येत |
04:57 | वयम् एकस्या: संधारिकाया: अन्यां संधारिकां गन्तुं शक्नुम: |
05:01 | किन्तु ,यदा वयम् कस्यां-चित् संधारिकायां भवाम: तदा सा संधारिका उद्घाटित - संधारिका / कार्यकारिणी संधारिका वा इति उच्यते, |
05:09 | तत: pwd आदेश: उद्घाटित -संधारिकां द्रष्टुम् अस्माकं साहाय्यं करोति , pwd इत्युक्ते "present working directory" |
05:18 | संसूचके "pwd" इति टङ्कयतु ,enter नुदतु , अधुना एषा अस्माकं विद्यमाना कार्यकारिणी संधारिका अस्ति |
05:28 | वयम् उक्तवन्त: यत् वयम् एकस्या: संधारिकाया: अन्यां संधारिकां गन्तुं शक्नुम: |
05:32 | किन्तु कथं करणीयम् इदम् ? एतन्निमित्तम् अस्मत्-सविधे cd इति आदेश: अस्ति |
05:39 | भवता इष्टसंधारिकाया: मार्गनाम्न: अनन्तरं cd इति आदेश: टङ्कनीय: |
05:47 | पुन: अस्माकं विद्यमान-संधारिकां पश्याम: ,तदर्थं संसूचके pwd टङ्कयतु तत: enter नुदतु |
05:57 | तर्हि वयमिदानीं अस्यां संधारिकायां स्म: |
06:01 | अधुना वयं slash usr directory इत्यत्र गन्तुम् इच्छाम: चेत् नुदाम:
"cd space slash usr" , अत्र स्मरतु, linux मध्ये slash इत्युक्ते front slash ,enter नुदतु च |
06:17 | अधुना अस्माकं उद्घाटित-संधारिकां पश्याम: ,टङ्कयतु pwd , enter नुदतु च |
06:24 | आं, वयं slash usr directory प्रति गतवन्त: |
06:30 | अत्र एका समस्यास्ति यत् मार्गनाम दीर्घं भवितुम् अर्हति ,यतो हि एतानि नि:शेषाणि मार्गनामानि मूल-संधारिकात: मूलसहितं संपूर्णं मार्गं निर्दिशति |
06:42 | अथवा वयं विद्यमान-संधारिकया आरभ्यमाणानि संबद्ध-मार्गनामानि उपयोक्तुं शक्नुम: |
06:48 | अत्र अस्माभि: विशिष्टं चिह्नद्वयं ज्ञातव्यम्
dot उद्घाटित-संधारिकां प्रदर्शयति, अपि च dot dot उद्घाटित-संधारिकाया: पितृ-संधारिकां दर्शयति |
07:02 | अधुना cd आदेशं सविस्तरं पश्याम: |
07:06 | नि:संशयं cd इति आदेश: पुन: गृह-संधारिकां गन्तुम् उपयुज्यते |
07:13 | संसूचके- "cd" enter नुदतु च |
07:19 | अधुना pwd इति आदेशेन अस्माकं उद्घाटित-सधारिकां परिशीलयतु |
07:23 | अथ अधुना वयं अस्माकं गृह-संधारिकायां प्रत्यागता:
/home/gnuhata [ narration- slash home slash gnuhata ] |
07:30 | अधुना सङ्गीत-संधारिकां गच्छाम: , संसूचके टङ्कयतु "cd space Music(M in capital) slash" , enter नुदतु च |
07:43 | अधुना pwd इति आदेशेन अस्माकं उद्घाटित-सधारिकां परिशीलयतु , pwd ,enter नुदतु , पश्यतु वयं /home/gnuhata/Music प्रत्यागता: |
07:57 | सङ्गीतत: पितृ-संधारिकां गच्छाम: , तन्निमित्तं भवता dot dot इत्यनेन सह cd इति आदेश: उपयोक्तव्य: |
08:04 | संसूचके टङ्कयतु - cd space dot dot , enter नुदतु च |
08:11 | अधुना pwd इति आदेशेन अस्माकं विद्यमान-सधारिकां परिशीलयाम:, वयं पुन: /home/gnuhata मध्ये स्म: |
08:23 | अधुना dot उपयुज्य उद्घाटित-संधारिकाया: उपसधारिकां गन्तुं प्रयतामहे |
08:30 | संसूचके टङ्कयतु - "cd space dot slash Documents(D in capital) slash." , enter नुदतु |
08:42 | pwd इति टङ्कयित्वा उद्घाटित-सधारिकां परिशीलयतु , वयं /home/gnuhata/Documents इत्यत्र स्म: |
08:53 | control L नुदित्वा पटलं रिक्तं कुर्म: , येन स्पष्टता भवेत् |
08:58 | cd आदेशेन अस्माकं गृह-सधारिकां गन्तुं
टङ्कयतु cd , नुदतु enter. |
09:07 | पुन: pwd इति आदेशेन उद्घाटित-सधारिकां परिशीलयतु , वयं /home/gnuhata इत्यत्र आगता: |
09:17 | वयं कियन्त: अपि dot dot दातुं शक्नुम: यानि संबद्ध-मार्गे slash इत्यनेन भिन्नानि भवन्ति |
09:23 | अस्याम् अवसर्पिण्यां वयं सञ्चिका- व्यवस्थापनस्य क्रमं पश्याम: , उपरितन-भागे Root , slash वा अस्ति , username -इति root मध्ये home तथा च bin इति उपसन्धारिका-द्वयम् अस्ति , अत्र home मध्ये gnuhata नाम्न: उपसन्धारिका अस्ति |
09:43 | अधुना वयं /home/gnuhata मध्ये स्म: , अधुना bin सन्धारिका कथं गन्तव्या ? |
09:51 | संसूचके टङ्कयतु
"cd space dot dot slash dot dot slash bin" , enter नुदतु च |
10:03 | pwd इति आदेशेन उद्घाटित-सन्धारिकां परिशीलयतु
वयं /bin [narration - slash bin] इत्यत्र स्म: |
10:11 | प्रथमं dot dot , slash home slash gnuhata] त: slash home प्रति अस्मान् नयति , |
10:18 | अग्रिमं च /home त: root प्रति |
10:24 | अधुना slash त: ,root त: वा वयं slash bin संधारिकायां प्रत्यागता: |
10:30 | cd इति आदेशेन अस्माकं गृह-सन्धारिकां गच्छतु |
10:34 | सन्धारिकां निर्मातुं वयं mkdir आदेशम् उपयुञ्ज्महे |
10:40 | सन्धारिका-निर्माणार्थं भवता आदेशं ,सन्धारिका-नाम च टङ्कनीयं ,तदनु उद्घाटित-सधारिकायां सन्धारिका निर्मिता भवेत् |
10:49 | testdir इति नाम्न: सन्धारिकां निर्मातुम् आदेशं टङ्कयतु - "mkdir space testdir" ,enter नुदतु च |
11:01 | अनेन testdir सन्धारिका यशस्विरीत्या निर्मिता भवेत् ! |
11:05 | पश्यतु यत् , संधारिका-निर्माणं तत्-निष्कासनं वा यशस्वि अभवत् इति वक्तुं कापि प्रत्यक्षं सूचना नास्ति |
11:13 | भवान् कमपि दोष-सूचनां न प्राप्नोति इत्युक्ते इदं सम्पादनं यशस्वि अभवत् |
11:18 | वृक्षे कुत्रापि सन्धारिकां निर्मातुं वयं relative , absolute वा मार्गनाम उपयोक्तुं शक्नुम: किन्तु तथा कर्तुम् अनुमति: आवश्यकी अपि च तत्-नाम्न: सन्धारिका आदावेव विद्यमाना स्यात् |
11:33 | एषा प्रक्रिया बहुविधा: संधारिका: , संधारिकाणां च क्रमं निर्मातुं उपयोक्तुं शक्यते |
11:39 | टङ्कयतु - "mkdir space test1 space test2 " enter नुदतु च , अनेन विद्यमान-संधारिकायां test1 तथा च test2 इति संधारिकाद्वयं निर्मितं भवति |
11:57 | टङ्कयतु - "mkdir space testtree space testtree slash test3". |
12:11 | अनेन testtree संधारिका तथैव testtree इत्यस्य test3 इति अन्या एका उपसंधारिका निर्मिता भवति |
12:20 | अथ अस्माभि: उद्घाटित-संधारिकायां संधारिका-चतुष्टयं निर्मितं -testdir,test1,test2 , testtree च , तेषु प्रथम-त्रयं रिक्तम् अस्ति , अन्तिमा च test3 नाम्न: उपसंधारिका समाविशति |
12:40 | mkdir इव rmdir अपि एक: आदेश: अस्ति य: संधारिकां निष्कासयितुम् उपयुज्यते |
12:50 | "rmdir space test1" इति आदेश: test1 संधारिकां यशस्विरीत्या निष्कासयति |
13:00 | संधारिका तदैव निष्कासयितुं शक्या यदा भवान् तस्य स्वामी भवति ,यदा भवत: उद्घाटित-संधारिका क्रमश: निष्कासनीय-संधारिकाया: उपरि भवति अपि च यदा संधारिका रिक्ता भवति |
13:13 | संसूचके टङ्कयतु
"cd space testtree slash test3" |
13:25 | वयम् अधुना संधारिकायां स्म: या testtree इत्यस्य उपसन्धारिका अस्ति |
13:33 | "rmdir space testdir" आदेशं टङ्कयित्वा testdir संधारिकां निष्कासयाम: ,enter नुदाम: |
13:46 | वयं पश्याम: यत् एतत् न भवति ,उद्घाटित-संधारिका क्रमश: निष्कासनीय-संधारिकाया: उपरि नास्ति |
13:54 | अत: अस्माभि: testdir संधारिकाया: क्रमश: उपरितना संधारिका गन्तव्या |
14:00 | टङ्कयतु - "cd space dot dot" , enter नुदतु च |
14:06 | अधुना "cd space dot dot" आदेशं टङ्कयित्वा पितृ-संधारिकां गच्छतु |
14:13 | अधुना पुन: पूर्वतन-आदेशं टङ्कयतु |
14:16 | अधुना टङ्कयतु - "rmdir space testdir" , enter नुदतु च |
14:23 | testdir संधारिका यशस्विरीत्या उच्छिन्ना , पश्यतु यत् testdir संधारिका अपि रिक्ता आसीत् |
14:32 | बहुविधसंधारिका: संधारिकाणां क्रम: वा युगपत् निष्कासयितुं शक्य: , अत: test3 उपसंधारिकया सह testtree संधारिकां उच्छेत्तुं प्रयत्नं करोतु |
14:43 | संसूचके टङ्कयतु
"rmdir space testtree space testtree slash test3 " , enter नुदतु च |
14:57 | पश्यतु , दोष-सूचना क्रियते यत् 'testree' संधारिका निष्कासयितुं न शक्या यत: testtree रिक्ता नास्ति |
15:07 | किन्तु एकम् अंशं भवान् विस्मर्तुं शक्नोति यत् testtree/test3 उच्छिन्ना यतो हि सा रिक्ता आसीत् |
15:16 | तत् परीक्षितुं संसूचके टङ्कयतु - "cd space testtree" , enter नुदतु च |
15:25 | अधुना टङ्कयतु- "ls" , enter नुदतु च , पश्यतु संधारिकायां किमपि नास्ति , अत: test3 उच्छिन्ना |
15:34 | अथ पाठे अस्मिन् अस्माभि: Linux - सञ्चिका , संधारिका ,तयो: कार्यं च इत्यादिकं पठितं , तत् सर्वं पश्यतु, यथावत् करोतु च |
15:48 | अत्र असौ पाठ: समाप्यते , Spoken Tutorial इति Talk to a Teacher प्रकल्पस्य भाग: य: National Mission on Education through ICT. इत्यनेन साहाय्यीकृत: |
16:02 | अस्य अधिक-ज्ञानम् अस्मिन् सन्धाने उपलभ्यते |
16:08 | एतत्-पाठ-अनुवादकर्त्री इयं नन्दिनी आपृच्छते भवन्तं , संपर्कार्थं धन्यवादा: ! |