Tux-Typing/S1/Getting-started-with-Tux-Typing/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 Tux Typing इत्यस्य परिचयात्मकेऽस्मिन् ट्यूटोरियल मध्ये भवते स्वागतम्।
00:04 अस्मिन् ट्यूटोरियल मध्ये भवान् Tux Typing अपि च Tux typing इंटरफेस इत्यनयोः विषये ज्ञास्यति।
00:10 भवान्,
00:12 सङ्गणकीये आङ्ग्लाक्षरयुक्ते कीलफलके वेगेन, स्पष्टेन, निपुणतया च कथं टङ्कनीयम् इति ज्ञास्यति।
00:19 भवान् टङ्कनसमये प्रतिवारं विनाकीलफलकदर्शनं कथं टङ्कनीयमित्यपि अभ्यस्यति।
00:25 Tux Typing नाम किम्?
00:27 Tux Typing इति किञ्चन टङ्कनबोधकमस्ति।
00:30 एतत् भवते संवादात्मकटङ्कनक्रीडाद्वारा टङ्कनं बोधयति अपि च भवते विभिन्नाक्षराणामपि परिचयं कारयति।
00:38 भवान् भवतः गत्यनुसारं टङ्कनमभ्यस्तुं शक्नोति।
00:41 अपि च मन्दं मन्दं स्वटङ्कनगतिं विशुद्धतया वर्धयितुं शक्नोति।
00:46 Tux Typing भवतः अभ्यासाय नूतनशब्दम् अपि च टङ्कनाय भाषामपि सेट् कर्तुं सक्षमं करोति।
00:54 अत्र अहं उबंटू लिनक्स 11.10 इत्यस्मिन् Tux Typing 1.8.0 इत्यस्य उपयोगं कुर्वाणः अस्मि।
01:02 भवान् उबंटू सॉफ्टवेयर सेंटर इत्यस्य उपयोगद्वारा Tux Typing संस्थापयितुं शक्नोति
01:07 उबंटू सॉफ्टवेयर सेंटर इत्यस्य अधिकज्ञानार्थं भवान् एतस्मिन् वेबसाइट मध्ये उबंटू लिनक्स इत्यस्य टयूटोरियल्स अनुसर्तुं शक्नोति।
01:16 Tux Typing उद्घाटयतु।
01:19 प्रथमम्, Dash Home इत्यत्र नुदतु, यच्च भवतः सङ्गणकस्य डेस्क्टाप् मध्ये उपरि दक्षिणकोणे गोलाकारस्य बटन् इव अस्ति।
01:26 Search बॉक्स प्रदृष्टं भवति। Dash Home इत्यस्य पुरतः सर्च बॉक्स मध्ये Tux Typing इति टङ्कयतु।
01:34 सर्च बॉक्स इत्यस्य अधः Tux Typing इति आइकन प्रदृष्टं भवति।
01:39 Tux Typing इति आइकन नुदतु।
01:42 Tux Typing इत्यस्य विंडो प्रदृष्टं भवति।
01:46 Tux Typing इत्यस्मिन् अधस्थं मेन्यू अन्तर्गतमस्ति।
01:50 Fish Cascade – क्रीडाक्षेत्रम् ।

Comet Zap – अपरं किञ्चन क्रीडाक्षेत्रम्।

01:56 Lessons – यत्र विभिन्नपाठाः अन्तर्गताः सन्ति, ये च अस्मभ्यं अक्षराभ्यासं कारयति।
02:01 Options – अत्र विद्यमानविकल्पाः अस्मभ्यं शब्दसम्पादनार्थं, वाक्यटङ्कनार्थं, टक्स टैपिङ्ग विषये ज्ञातुं अपि च भाषां निर्धारयितुं साहाय्यं करोति।
02:13 Quit – क्रीडां समापयितुं अत्र नोत्तव्यम्।
02:16 पाठानाम्पुपयोगेन टङ्कनाभ्यासम् आरभामहे।
02:20 मुख्य मेन्यू मध्ये, Lessons इत्यत्र नुदतु।
02:23 पाठसहितं किञ्चन विंडो प्रदृष्टं भवति।
02:26 प्रथमपाठात् अभ्यासस्य आरम्भं कुर्मः।
02:30 basic_lesson_01.xml इत्यत्र नुदतु।
02:35 निर्देशैः सह विंडो प्रदृष्टं भवति। निर्देशान् पठतु।
02:41 पाठारम्भणार्थं, space bar नुदतु।
02:45 कीलफलकेन समं विंडो प्रदृष्टं भवति।
02:48 अधुना वयं a इति अक्षरस्य अभ्यासं कुर्मः।
02:52 अभ्यासस्य आरम्भार्थं p इति नुदतु।
02:56 किञ्च्न विंडो दृश्यते यच्च अक्षराणि दर्शयति।
03:01 अत्र ‘aaa aaa…..’ इति पङ्क्तिः किं द्योतयति?
03:07 भवता एतानि अक्षराणि टङ्कनीयानि सन्ति इति।
03:10 एतस्याः पङ्क्तेः टीटर्स लाइन इति नाम दद्मः।
03:13 अधुना वयं आङ्ग्लकीलफलकं पश्यामः, यच्च अस्माभिः आधिक्क्येन उपयुक्तं स्तरीयकीलफलकमस्ति।
03:19 किम् भवान् a इत्येतत् परितः रक्तवर्णं पश्यन् अस्ति? एतत् द्योतयति यत् भवता अधुना एतदक्षरं टङ्कनीयमस्तीति।
03:27 कीलफलकस्य प्रथमपङ्क्तिः सङ्ख्यां, विशिष्टाक्षराणि अपि च बैकस्पेस कीलं दर्शयति।
03:35 टङ्कितं मार्जयितुं Backspace कीलं नोत्तव्यम्।
03:39 कीलफलके अपरं पङ्क्तित्रयं भवति यत्र वर्णमाला, सङ्ख्या अपि च अन्याक्षराणि भवन्ति।
03:51 कीलफलकस्य द्वितीयपङ्क्तौ वर्णमाला, कतिचन विशिष्टाक्षराणि अपि च Enter कीलम् अस्ति।
03:58 अग्रिमपङ्क्तिं गन्तुं भवता Enter कीलम् नोत्तव्यं भवति।
04:02 कीलफलकस्य तृतीयपङ्क्तौ वर्णमाला, colon, semicolon अपि च Caps lock कीलानि भवन्ति।
04:10 बृहदक्षरेण टङ्कयितुं Caps Lock कीलं उपयुज्यताम्।
04:14 कीलफलकस्य चतुर्थपङ्क्तौ वर्णमाला, विशिष्टाक्षराणि अपि च shift कीलमस्ति।
04:21 बृहदक्षरेण टङ्कयितुं किमपि अक्षरं Shift कीलेन सह नुदतु।
04:27 कीलेषु उपरि विद्यमानानि अक्षराणि टङ्कयितुं Shift कीलेन समं तदक्षरं नुदतु।
04:34 उदाहरणार्थम्, 1 इति कीले उपरि आश्चर्यसूचकचिह्नमपि अस्ति।
04:39 आश्चर्यसूचकचिह्नं टङ्कयितुं Shift कीलेन समं 1 नुदतु।
04:44 कीलफलकस्य पञ्चमपङ्क्तौ Ctrl, Alt, अपि च फंक्शन कीलानि सन्ति। अत्र स्पेस बार अपि अस्ति।
04:52 अधुना पश्यामः यत्, टक्स टाइपिंग कीलफलकम्, लैपटॉप कीलफलकम् अपि च डेस्कटॉप कीलफलकम् इत्येतेषां मध्ये अन्तरमस्ति वा इति।
05:00 अवगच्छन्तु यत्, टक्स टाइपिंग कीलफलकम् अपि च यानि च लैपटॉप्स तथा डेस्कटॉप मध्ये उपयुज्यन्ते तानि कीलफलकानि समानानि सन्ति इति।
05:10 अधुना कीलफलके अस्माकं अङ्गुलीनां स्थानानि किम् इति पश्यामः।
05:14 एतत् स्लाइड पश्यतु।
05:16 एतत् अङ्गुलयः अपि च तासां नामानि च दर्शयति। वामतः दक्षिणं विद्यमानायाः अङ्गुलीनां नामानि एवं सन्ति:
05:21 कनिष्ठिका (Little finger), अनामिका (Ring finger), मध्यमा (Middle finger), तर्जनी (Index finger) अपि च अङ्गुष्टिका (Thumb).
05:27 स्वकीयकीलफलके स्ववामहस्तं कीलफलकस्य वामपार्श्वे स्थापयतु।
05:32 कनिष्ठिका (Little finger) ‘A’ इति अक्षरस्योपरि अस्ति इति निश्चिनोतु।
05:35 अनामिका ‘S’ इत्यस्य उपरि,
05:38 मध्यमा ‘D’ इत्यस्य उपरि,
05:41 तर्जनी ‘F’ इत्यस्य उपरि भवतु।
05:44 अधुना दक्षिणहस्तं कीलफलकस्य दक्षिणपार्श्वे स्थापयतु।
05:49 कनिष्ठिका कॉलन/सेमीकॉलन कीलस्योपरि अस्तीति निश्चिनोतु।
05:54 अनामिका ‘L’ इत्यस्योपरि,
05:56 मध्यमा ‘K’ इत्यस्योपरि,
06:00 तर्जनी ‘J’ इत्यस्योपरि भवेत्।
06:03 स्पेस बार नोत्तुं दक्षिणाङ्गुष्ठिकाम् उपयुज्यताम्।
06:08 हस्तद्वयस्य चित्रं भवते उचिताङ्गुलेः उपयोगद्वारा टङ्कनं कर्तुं मार्गं निर्दिशति।
06:14 किम् भवान् कनिष्ठिकाम् उपयोक्तुं रक्तस्थानम् अन्विषन् अस्ति?
06:19 भवतः ऊहा समीचीना अस्ति, भवता a इति टङ्कयितुं तस्याः उपयोगः करणीयः।
06:23 कीलफलके पाठेऽस्मिन् यथा दर्शितं तथा स्वकीयाः अङ्गुलीः स्थापयन्तु।
06:29 अधुना टङ्कनमारभ्यताम्।
06:32 यथा यथा वयं टङ्कयामः तथा तथा अक्षराणि टीचर्स लाइन इत्यस्मात् अधस्थे लाइन मध्ये प्रदृष्टं भवति।
06:39 एतस्य कृते स्टुडेंट लाइन इति नाम दद्मः।
06:42 अधुना, यत् टीचर्स लाइन मध्ये नास्ति तदक्षरं टङ्कयतु।
06:47 किम्, दोषेण टङ्कितम् आक्षरं स्टुडेंट लाइन मध्ये प्रदृष्टं भवति? एतत् प्रदृष्टं न भवति।
06:53 एतत् स्थाने, कीलफलके दोषेण टङ्किते अक्षरे X इति चिह्नं किञ्चित् कालं दृश्यते।
06:59 अधुना कतिचन अक्षराणि टङ्कयतु।
07:02 अधुना अस्माकं टङ्कनस्य मैट्रिस इत्यस्य गणनां कुर्मः।
07:07 अधुना भवान् अनुमिनोतु यत् दक्षिणस्थं फील्ड्स किं दर्शयति।
07:13 Time – इति भवतः टङ्कनगतिं निर्दिष्टं करोति।
07:17 Chars – इति भवता टङ्कितनां अक्षराणां सङ्ख्यां दर्शयति।
07:21 CPM – इति भवता प्रतिनिमेषं कियन्ति अक्षराणि टङ्कितानि इति दर्शयति।
07:26 WPM – इति भवता टङ्कितशब्दानां सङ्ख्यां निर्दिष्टं करोति।
07:31 Errors – इति भवता कियन्ति दोषाक्षराणि टङ्कितानि इति दर्शयति।
07:34 Accuracy – इति भवतः टङ्कनशुद्धतां दर्शयति।
07:40 मुख्य मेन्यू प्रति गन्तुं Escape कीलं वारद्वयं नुदतु।
07:45 वयं अस्माकं प्रथमं टाइपिंग पाठं अभ्यस्तवन्तः स्मः।
07:47 मन्दगत्यां शुद्धरूपेण टैप कर्तुं प्रथमवारं अभ्यस्तुं च एतत् सम्यक् अस्ति।
07:52 एकवारं विनादोषं शुद्धरूपेण टङ्कनं अभ्यसामः चेत् वयं अस्माकं टङ्कनगतिं वर्धयितुं शक्नुमः।
07:59 एतेन समं वयं टक्स-टाइपिंग इति पाठस्य अन्तं प्राप्तवन्तः।
08:03 एतस्मिन् ट्यूटोरियल मध्ये वयं टक्स-टाइपिंग इंटरफेस विषये ज्ञातवन्तः। अस्माकं प्रथमटङ्कनपाठं सम्पूर्णं कृतवन्तः।
08:11 अत्र भवतः कृते किञ्चन नियतकार्यमस्ति।
08:13 basic_lesson_02.xml इत्यत्र गच्छतु।
08:19 एतस्मिन् स्तरे अभ्यासं करोतु।
08:21 अस्मिन् स्तरे विद्यमानानि सर्वाणि अक्षराणि टङ्कयतु अपि च Enter नुदतु।
08:26 एवमेव भवान् पाठान्तरस्य अभ्यासं कर्तुं शक्नोति।
08:30 अधस्थे लिंक मध्ये उपलब्धं विडियो पश्यन्तु।http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
08:33 एषः स्पोकन ट्यूटोरियल इत्यस्य सारांशः अस्ति।
08:36 यदि भवतां समीपे उत्तमं बैंडविड्थ नास्ति तर्हि भवन्तः एतत् अवचित्यापि (डाउनलोड) द्रष्टुं शक्नुवन्ति।
08:41 स्पोकन ट्यूटोरियल प्रकल्पगणः (प्रोजेक्ट टीम) :
08:43 स्पोकन ट्यूटोरियल इत्यस्य उपयोगद्वारा कार्यशालाः अपि चालयति।
08:46 ये ऑनलाइन परीक्षाम् उत्तरन्ति तेभ्यः प्रमाणपत्रमपि दीयते।
08:50 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
08:56 स्पोकन ट्युटोरियल प्रोजेक्ट टॉक-टू-अ-टीचर प्रोजेक्ट इत्यस्य भागः अस्ति।
09:00 एतत् भारतसर्वकारस्य एमएचआरडी इत्यस्य “आईसीटी माध्यमेन राष्ट्रीयसाक्षरतामिशन” द्वारा समर्थितमस्ति।
09:08 अस्य विषये अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इति लिंक मध्ये उपलब्धमस्ति।
09:19 अस्य प्रतेः अनुवादकः प्रवाचकश्च ऐ ऐ टि बांबे तः वासुदेवः अधुना आपृच्छति। समयदानाय धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal